Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 340

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ त्वा꣣ स꣡खा꣢यः स꣣ख्या꣡ व꣢वृत्युस्ति꣣रः꣢ पु꣣रू꣡ चि꣢दर्ण꣣वां꣡ ज꣢गम्याः । पि꣣तु꣡र्नपा꣢꣯त꣣मा꣡ द꣢धीत वे꣣धा꣡ अ꣣स्मि꣡न्क्षये꣢꣯ प्रत꣣रां꣡ दीद्या꣢꣯नः ॥३४०॥

आ꣢ । त्वा꣣ । स꣡खा꣢꣯यः । स । खा꣣यः । सख्या꣢ । स꣣ । ख्या꣢ । व꣣वृत्युः । तिरः꣢ । पु꣣रु꣢ । चि꣣त् । अर्णवा꣢न् । ज꣣गम्याः । पितुः꣢ । न꣡पा꣢꣯तम् । आ । द꣣धीत । वेधाः꣢ । अ꣣स्मि꣢न् । क्ष꣡ये꣢꣯ । प्र꣣तरा꣢म् । दी꣡द्या꣢꣯नः । ॥३४०॥

Mantra without Swara
आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः । पितुर्नपातमा दधीत वेधा अस्मिन्क्षये प्रतरां दीद्यानः ॥

आ । त्वा । सखायः । स । खायः । सख्या । स । ख्या । ववृत्युः । तिरः । पुरु । चित् । अर्णवान् । जगम्याः । पितुः । नपातम् । आ । दधीत । वेधाः । अस्मिन् । क्षये । प्रतराम् । दीद्यानः । ॥३४०॥

Samveda - Mantra Number : 340
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमेश्वर ! (सखायः) तव सहचराः स्तोतृजनाः सदैव (त्वा) त्वाम् (सख्या) सख्येन। सख्यशब्दात् तृतीयैकवचने ‘सुपां सुलुक्०। अ० ७।१।३९’ इति विभक्तेराकारादेशः। (आ ववृत्युः) स्वीकुर्युः। आङ् पूर्वात् वृतु वर्तने धातोश्छन्दसि शपः श्लौ लिङि रूपम्। (तिरः) तान् प्राप्तः, त्वम्। तिरः सतः इति प्राप्तस्य। निरु० ३।२०। (पुरु चित्) बहु यथा स्यात् तथा (अर्णवान्) आनन्दसागरान् (जगम्याः) प्रापय। गम्लृ गतौ धातोर्यङ्लुगन्तस्य लिङि रूपम्। अभ्यासस्य छान्दसो नुमभावः। (वेधाः) स्तुतेः पुरुषार्थस्य च विधाता स तव सखा (अस्मिन् क्षये) एतस्मिन् गृहे गृहस्थाश्रमे इत्यर्थः (प्रतराम्) अत्यधिकं (दीद्यानः) तेजसा यशसा च दीप्यमानः सन्। दीदयतिः ज्वलतिकर्मा। निघं० १।१६। (पितुः) स्वजनकस्य (नपातम्२) तादृशमेव तेजस्विनं यशस्विनं च नप्तारं, स्वकीयं पुत्रम् इत्यर्थः। (आदधीत) उत्पादयेत् ॥९॥
Essence
जो जगदीश्वरेण सख्यं बध्नाति तं स आनन्दसागरे निमग्नं करोति। जगदीश्वरस्य स सखा शास्त्रोक्तविधिना गृहस्थाश्रमं पालयन् स्वानुरूपस्य तेजस्विनो यशस्विनश्च तनयस्य पिता जायते ॥९॥
Subject
अथेन्द्रसख्यविषयमाह।
Footnote
१. मन्त्रोऽयमृग्वेदे पाठान्तरेण यमयमीसंवादे ऋ० १०।१०।१ इत्यत्र पठितः। तत्रेदं यम्या यमं प्रति वचनम्। तत्र ऋषिका यमी, देवता च यमः। न तत्र ‘इन्द्रेण’ कश्चित् सम्बन्धः। एष तावत् तत्रत्यः पाठः—‘ओ चित् सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान्। पितुर्नपातमादधीत वेधा अधि क्षमि प्रतरं दीध्यानः’ इति। अथर्ववेदे १८।१।१ इत्यत्रापि स एव पाठः, तत्र ऋषिः अथर्वा, देवता च यमः। २. पितुर्न....पितुरिव पातं रक्षणम्। यथा कश्चित् पितुः रक्षणम् आधत्ते तद्वत् भवानपि अस्माकम् आदधीत आदधातु करोत्वित्यर्थः इति विवरणकृद्व्याख्यानं तु पदकारविरुद्धं, तत्र ‘नपातम्’ इत्येकपदत्वेन ग्रहणात्। ‘पितुर्मदीयस्य नपातं पौत्रं, मम पुत्रमित्यर्थः, आदधीत वेधाः विधाता इन्द्रः’—इति भ०। सायणस्यापि स एवाशयः।