Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 34

1875 Mantra
Devata- अग्निः Rishi- उशना काव्यः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
क꣡स्य꣢ नू꣣नं꣡ प꣢꣯रीणसि꣣ धि꣡यो꣢ जिन्वसि सत्पते । गो꣡षा꣢ता꣣ य꣡स्य꣢ ते꣣ गि꣡रः꣢ ॥३४॥

क꣡स्य꣢꣯ । नू꣣न꣢म् । प꣡री꣢꣯णसि । प꣡रि꣢꣯ । न꣣सि । धि꣡यः꣢꣯ । जि꣣न्वसि । सत्पते । सत् । पते । गो꣡षा꣢꣯ता । गो꣢ । सा꣣ता । य꣡स्य꣢꣯ । ते꣣ । गि꣡रः꣢꣯ ॥३४॥

Mantra without Swara
कस्य नूनं परीणसि धियो जिन्वसि सत्पते । गोषाता यस्य ते गिरः ॥

कस्य । नूनम् । परीणसि । परि । नसि । धियः । जिन्वसि । सत्पते । सत् । पते । गोषाता । गो । साता । यस्य । ते । गिरः ॥३४॥

Samveda - Mantra Number : 34
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सत्पते) सतां पालक अग्ने ज्योतिर्मय परमात्मन् ! त्वम् (नूनम्) निश्चयेन (कस्य) कस्य जनस्य (धियः) बुद्धीः (परीणसि२) बहु। परीणसेति बहुनाम। निघं० ३।१। (जिन्वसि) सन्मार्गे प्रेरयसि? इति प्रश्नः। जिन्वतिः गतिकर्मा। निघं० २।१४। अथोत्तरमाह—(यस्य) यस्य जनस्य (ते) तव (गिरः) उपदेशवाचः (गोसाता) गोसातये, गवां श्रेष्ठधेनूनां, श्रेष्ठेन्द्रियबलानां, श्रेष्ठपृथिवीराज्यानां, श्रेष्ठात्मकिरणानां च सातये लाभाय भवन्ति, तस्यैव बुद्धयः सन्मार्गे त्वया प्रेरिता इति मन्तव्यम्। सातिः इति सनतेः सनोतेर्वा ऊतियूतिजूतिसातिहेतिकीर्तयश्च।’ अ० ३।३।९७ इति क्तिनि निपात्यते। गोसातये इति प्राप्ते सुपां सुलुक्०।’ अ० ७।१।३९ इति चतुर्थ्येकवचनस्य डादेशः। संहितायां पूर्वपदात्।’ अ० ८।३।१०६, सनोतेरनः अ०’ ८।३।१०८ इति सस्य षत्वम् ॥१४॥
Essence
यो जनः परमात्मोपदेशमुपश्रुत्य प्रचुरप्रचुरां भौतिकीमाध्यात्मिकीं च सम्पदमधिगच्छति, स एव परमात्मनः कृपापात्रमिति मन्तव्यम् ॥१४॥ अत्र परमात्मादेर्महत्त्ववर्णनपूर्वकं तत्स्तुत्यर्थं प्रेरणादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिर्वेद्या ॥ इति प्रथमे प्रपाठके पूर्वार्धे तृतीया दशतिः ॥ इति प्रथमेऽध्याये तृतीयः खण्डः ॥
Subject
अथ कः परमेश्वरस्य कृपायाः पात्रमित्याह।
Footnote
१. ऋ० ८।८४।७ परीणसि, सत्पते इत्यनयोः स्थाने क्रमेण परीणसो, दंपते इति पाठः। २. सप्तम्येकवचनमिदं द्वितीयाबहुवचनस्य स्थाने द्रष्टव्यम्। परीणसः बह्व्यः धियः प्रज्ञाः—इति वि०। परिणः इति महन्नामधेयम्, परिपूर्वात् णसेः व्याप्तिकर्मणः इदं रूपम्। महति यज्ञे—इति भ०।