Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 339

1875 Mantra
Devata- इन्द्रः Rishi- रेणुर्वैश्वामित्रः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्रा꣢य꣣ गि꣢रो꣣ अ꣡नि꣢शितसर्गा अ꣣पः꣡ प्रै꣢꣯रय꣣त्स꣡ग꣢रस्य꣣ बु꣡ध्ना꣢त् । यो꣡ अक्षे꣢꣯णेव च꣣क्रि꣢यौ꣣ श꣡ची꣢भि꣣र्वि꣡ष्व꣢क्त꣣स्त꣡म्भ꣢ पृथि꣣वी꣢मु꣣त꣢ द्याम् ॥३३९॥

इ꣡न्द्रा꣢꣯य । गि꣡रः꣢꣯ । अ꣡नि꣢꣯शितसर्गाः । अ꣡नि꣢꣯शित । स꣣र्गाः । अपः꣢ । प्र । ऐ꣣रयत् । स꣡ग꣢꣯रस्य । स । ग꣣रस्य । बु꣡ध्ना꣢꣯त् । यः । अ꣡क्षे꣢꣯ण । इ꣣व । चक्रि꣡यौ꣢ । श꣡ची꣢꣯भिः । वि꣡ष्व꣢꣯क् । वि । स्व꣣क् । तस्त꣡म्भ꣢ । पृ꣣थि꣢वीम् । उ꣣त꣢ । द्याम् ॥३३९॥

Mantra without Swara
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् । यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥

इन्द्राय । गिरः । अनिशितसर्गाः । अनिशित । सर्गाः । अपः । प्र । ऐरयत् । सगरस्य । स । गरस्य । बुध्नात् । यः । अक्षेण । इव । चक्रियौ । शचीभिः । विष्वक् । वि । स्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥३३९॥

Samveda - Mantra Number : 339
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्राय) परमैश्वर्यवते जगदीश्वराय, तन्महिमानं गातुमित्यर्थः (अनिशितसर्गाः२) अतीक्ष्णप्रयोगाः, मधुरा इत्यर्थः। शो तनूकरणे। अनिशितः अतनूकृतः अतीक्ष्णः सर्गो व्याहरणं यासां ताः। (गिरः) मदीयाः स्तुतिवाचः, प्रवृत्ताः सन्त्विति शेषः। यः (सगरस्य) अन्तरिक्षस्य। सगर इत्यन्तरिक्षनाम। निघं० १।३। गृणाति शब्दं करोतीति गरो मेघः, गरेण मेघेन सहितः इति सगरोऽन्तरिक्षम्। (बुध्नात्) शीर्षस्थानात् (अपः) मेघस्थानि उदकानि (प्रैरयत्) भुवं प्रति प्रेरयति। (विष्वक्३) विविधकर्मरतः विशेषेण सर्वान्तर्यामी वा सन्। वि-सु-उपपदात् अञ्चतेः क्विपि रूपम्, यद्वा यो विशेषेण स्वजते आलिङ्गति सर्वान् पदार्थान् स विष्वक् सर्वान्तर्यामी, ष्वज परिष्वङ्गे। (यः) यश्च (शचीभिः) प्रज्ञाभिः जगद्धारणक्रियाभिश्च। शचीति प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) द्युलोकम् (तस्तम्भ) स्तभ्नाति, परस्परं सन्तुलिते करोति। (अक्षेण इव) मध्यकीलकेन यथा (चक्रियौ४) उभे रथचक्रे रथचालकः स्तभ्नाति तद्वत्। चक्रवाचिनः चक्रिशब्दस्य द्वितीयाद्विवचने चक्री इति प्राप्ते छान्दस इयङादेशः ॥८॥ अत्रोपमालङ्कारः ॥८॥
Essence
परमात्मन एवैष विलक्षणो महिमा यत् सोऽन्तरिक्षाद् वृष्टिं करोति, द्यावापृथिव्योश्च परस्परं सामञ्जस्यं स्थापयति ॥८॥
Subject
अथेन्द्रस्य परमात्मनो महिमानं वर्णयति।
Footnote
१. ऋ० १०।८९।४, ‘प्रैरयत्’, ‘चक्रियौ’ इत्यत्र क्रमेण ‘प्रैरयं’, ‘चक्रिया’ इति पाठः। २. अनिशितसर्गाः। शो तनूकरणे इत्यस्येदं रूपम्। निष्ठाप्रत्यये ‘निष्ठाशीङ्स्विदि० (पा० १।२।१९)’ इत्येतद् भवति। सर्गः संसर्गः सङ्घातः। निशितः सङ्घातो यासां ताः निशितसर्गाः तनूकृतसङ्घाताः। अनिशितसर्गाः अतनूकृतसङ्घाताः। बह्वीरित्यर्थः—इति वि०। अतनूकृतप्रयोगाः—इति भ०। अतनूकृतविसर्गाः उपर्युपरि वर्तमानाः—इति सा०। ३. प्रायशः ‘विषु शब्दाद् अञ्चेः क्विप्’ इति साधुत्वप्रकारमाहुर्व्याख्यातारः। किन्तु ‘वि-स्वक्’ इति पदपाठात् पदकारस्य वि-सु-पूर्वोऽञ्चतिरत्राभिप्रेत इत्यस्माभिस्तथा व्याख्यातम्। यद्वा ‘स्वक्’ इत्यस्य ‘सु-अक्’ इति रूपेण विभागाकरणात् विपूर्वः स्वञ्ज परिष्वङ्गे धातुरत्राभिप्रेतः स्यात्। ४. चक्रियौ चक्रे, यथा कश्चिद् रथकारः अक्षेण चक्रे स्तम्भयति तद्वत्—इति वि०। य इन्द्रः अक्षेणेव चक्र्यौ रथचक्रे। ‘ऋणोरक्षं न चक्र्योः’ ऋ० १।३०।१४ इत्यत्र चक्रिशब्दः चक्रे दृष्टः—इति भ०। चक्रियौ रथचक्राणि—इति सा०। ‘इयाडियाजीकाराणामुपसंख्यानम् ७।१।३९’ वा० इति इय्भावे, लिङ्गव्यत्यये च (३।१।८५) रूपं चक्रियौ इति सत्यव्रतसामश्रमी।