Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 338

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣡न्द्रा꣢पर्वता बृह꣣ता꣡ रथे꣢꣯न वा꣣मी꣢꣫रिष꣣ आ꣡ व꣢हतꣳ सु꣣वी꣡राः꣢ । वी꣣त꣢ꣳ ह꣣व्या꣡न्य꣢ध्व꣣रे꣡षु꣢ देवा꣣ व꣡र्धे꣢थां गी꣣र्भी꣡रिड꣢꣯या꣣ म꣡द꣢न्ता ॥३३८॥

इ꣡न्द्रा꣢꣯पर्वता । बृ꣣हता꣢ । र꣡थे꣢꣯न । वा꣣मीः꣢ । इ꣡षः꣢ । आ । व꣣हतम् । सुवी꣡राः꣢ । सु꣣ । वी꣡राः꣢꣯ । वी꣣त꣢म् । ह꣣व्या꣡नि꣢ । अ꣣ध्वरे꣡षु꣢ । दे꣣वा । व꣡र्धे꣢꣯थाम् । गी꣣र्भिः꣢ । इ꣡ड꣢꣯या । म꣡द꣢꣯न्ता ॥३३८॥

Mantra without Swara
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतꣳ सुवीराः । वीतꣳ हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ॥

इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सुवीराः । सु । वीराः । वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीर्भिः । इडया । मदन्ता ॥३३८॥

Samveda - Mantra Number : 338
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्रापर्वता२) जीवात्मप्राणौ ! इन्द्रो ज्ञानाद्यैश्वर्यवान् जीवात्मा, पर्वतः पर्ववान् प्राणः, स हि अपानव्यानादिभिः इन्द्रियरूपैश्च पर्वभिः सह देहे तिष्ठति। ‘पर्ववान् पर्वतः’ इति निरुक्तम् १।२०। ‘इन्द्रापर्वता’ इत्यत्र ‘देवताद्वन्द्वे च।’ अ० ६।३।२६ इति पूर्वपदस्यानङ्। युवाम् (बृहता) महता (रथेन) शरीररथेन। ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’ इति प्रामाण्यात् (कठ० १।३।३)(सुवीराः) शोभना वीराः वीरभावा वीरसन्ताना वा यासु ताः (वामीः) प्रशस्ताः संभजनीयाः वा। वाम इति प्रशस्यनामसु पठितम्। निघं० ३।८। (वामस्य) वननीयस्य इति निरुक्तम् ४।२६। (इषः) अभीष्टा आध्यात्मिकभौतिकसम्पदः। इषु इच्छायाम्। इष्यन्ते इति इषः। (आवहतम्) प्रापयतम्। हे (देवा) देवौ दिव्यगुणकर्मवन्तौ ! युवाम् (अध्वरेषु) शरीरधारणरूपयज्ञेषु (हव्यानि) समर्पितानि हवींषि भोज्यपेयादीनि (वीतम्) आस्वादयतम्। वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु। (गीर्भिः) वाग्भिः, (इडया) अन्नेन गोदुग्धादिना च। इडेति अन्ननाम गोनाम च, निघं० २।७, २।११। (मदन्ता) तृप्यन्तौ (वर्द्धेथाम्) उत्कर्षं प्राप्नुतम्। इन्द्रापर्वता, देवा, मदन्ता इति सर्वत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इत्यौकारस्याऽऽकारादेशः ॥७॥३
Essence
जीवात्मा सञ्चितकर्मफलभोगाय नूतनकर्मकरणाय च मनइन्द्रियादियुक्तेन प्राणेन सह श्रेष्ठं शरीररथमारोहति। तौ जीवात्मप्राणौ शरीरमाध्यमेन श्रेष्ठां सन्ततिं विविधामभीष्टां दिव्यां च भौतिकीं च सम्पदं प्रापयितुमर्हतः। यथायोग्यखाद्यपेयज्ञानकर्मप्राणायामादिहविरर्पणेन तयोः शक्तिः सर्वैर्वर्धनीया ॥७॥
Subject
इन्द्रापर्वतौ देवते। इन्द्रपर्वतनाम्ना जीवात्मप्राणयोर्युगलं स्तौति।
Footnote
१. ऋ० ३।५३।१। २. इन्द्रापर्वतौ। पर्वतो नाम देवर्षिः इन्द्रस्य सखा—इति भ०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजाध्याक्षसेनाध्यक्षविषये व्याख्यातः। (इन्द्रापर्वता) विद्युन्मेघाविव राज्यसेनाधीशौ इत्यादि। तेन सूच्यते यन्मन्त्रोऽयं विद्युन्मेघपक्षेऽपि व्याख्यातुं शक्यत इति। विद्युन्मेघावपि मरुद्रूपेण बृहता रथेन वृष्टिद्वारा प्रशस्ता इषः अन्नानि प्रापयतः, येषां भक्षणेन सन्ततिर्वीरा जायते। किं च शिल्पिनावपि इन्द्रापर्वतौ उच्येते। यानचालकः शिल्पी इन्द्रः, याननिर्माता शिल्पी पर्वतः, स हि पर्वाणि संयोज्य पर्ववन्ति विविधयन्त्रकलासहितानि यानानि रचयतीति। तावपि बृहता रथेन भूजलान्तरिक्षगमनसमर्थेन विमानादियानेन बहुवीरजनसहितान् प्रशस्तान् अन्नादिपदार्थान् वहतः देशान्तरं प्रापयत इति दिक्।