Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 337

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यं꣢ वृ꣣त्रे꣡षु꣢ क्षि꣣त꣢य꣣ स्प꣡र्ध꣢माना꣣ यं꣢ यु꣣क्ते꣡षु꣢ तु꣣र꣡य꣢न्तो ह꣡व꣢न्ते । य꣡ꣳ शूर꣢꣯सातौ꣣ य꣢म꣣पा꣡मुप꣢꣯ज्म꣣न्यं꣡ विप्रा꣢꣯सो वा꣣ज꣡य꣢न्ते꣣ स꣡ इन्द्रः꣢꣯ ॥३३७

य꣢म् । वृ꣣त्रे꣡षु꣢ । क्षि꣣त꣡यः꣣ । स्प꣡र्ध꣢꣯मानाः । यम् । यु꣣क्ते꣡षु꣢ । तु꣣र꣡य꣢न्तः । ह꣡व꣢꣯न्ते । यम् । शू꣡र꣢꣯सातौ । शू꣡र꣢꣯ । सा꣣तौ । य꣢म् । अ꣣पा꣢म् । उ꣡प꣢꣯ज्मन् । उ꣡प꣢꣯ । ज्म꣣न् । य꣢म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । वाज꣡य꣢न्ते । सः । इ꣡न्द्रः꣢꣯ ॥३३७॥

Mantra without Swara
यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते । यꣳ शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥३३७

यम् । वृत्रेषु । क्षितयः । स्पर्धमानाः । यम् । युक्तेषु । तुरयन्तः । हवन्ते । यम् । शूरसातौ । शूर । सातौ । यम् । अपाम् । उपज्मन् । उप । ज्मन् । यम् । विप्रासः । वि । प्रासः । वाजयन्ते । सः । इन्द्रः ॥३३७॥

Samveda - Mantra Number : 337
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—राजपरः। (वृत्रेषु) अविद्याभ्रष्टाचारादिषु व्याप्तेषु (स्पर्द्धमानाः) विजिगीषमाणाः (क्षितयः) प्रजाजनाः। क्षितय इति मनुष्यनामसु पठितम्। निघं० २।३। (यं हवन्ते) यं जननायकम् आह्वयन्ति, (युक्तेषु) आरब्धेषु केषुचिन्महत्सु कर्मसु (तुरयन्तः१) कार्यसिद्ध्यर्थं त्वरमाणाः प्रजाजनाः (यं हवन्ते) यं कार्यसाधकम् आह्वयन्ति, (शूरसातौ) शूराणां वीरक्षत्रियाणां सातिः विजयप्राप्तिर्यस्मिन् तस्मिन् संग्रामे उपस्थिते सति। शूरसातौ इति संग्रामनामसु पठितम्। निघं० २।१७। (यम् हवन्ते) यं वीरम् आह्वयन्ति, (अपाम्) कुल्यासरोवरादीनाम् (उपज्मन्२) उपज्मनि उपप्राप्तौ। उप पूर्वाज्जमतेर्गतिकर्मण एतद् रूपम्। निमित्तार्थे सप्तमी। ‘सुपां सुलुक्। अ० ७।१।३९’ इति सप्तम्या लुक्। (यं हवन्ते) यं राष्ट्रनिर्मातारम् आह्वयन्ति, (विप्रासः) ज्ञानिनो ब्राह्मणाः (यं वाजयन्ते) यं स्वपरामर्शदानेन बलिनं कुर्वन्ति। (सः) असौ दुःखविदारकः सुखप्रदो राजा (इन्द्रः) इन्द्रः प्रोच्यते ॥ अथ द्वितीयः—परमात्मपरः। (वृत्रेषु) योगमार्गे व्याधिस्त्यानसंशय- प्रमादालस्यादिषु विघ्नेषु उपस्थितेषु (स्पर्द्धमानाः) तान् विजिगीषमाणाः योगिजनाः (यं हवन्ते) यं सहायकम् आह्वयन्ति, (युक्तेषु) इन्द्रियमनः—प्राणादिषु योगयुक्तेषु सत्सु (तुरयन्तः) योगसिद्ध्यर्थं त्वरमाणाः योगिनः (यं हवन्ते) यं सिद्धिप्रदातारम् आह्वयन्ति, (शूरसातौ) आभ्यन्तरे देवासुरसंग्रामे उपस्थिते (यं हवन्ते) यं विजयप्रदातारम् आह्वयन्ति, (अपाम्) प्राणानाम्। प्राणा वा आपः। तै० ३।२।५।२, तां ब्रा० ९।९।४। आपो वै प्राणाः। श० ब्रा० ३।८।२।४ इति प्रामाण्यात्। (उपज्मन्) ऊर्ध्वोर्ध्वचक्रचङ्क्रमणनिमित्ताय (यं हवन्ते) यं योगक्रियासु सहायकम् आह्वयन्ति, (यम्) यं च (विप्रासः) ज्ञानिनो योगिजनाः (वाजयन्ते) अर्चन्ति। वाजयतिः अर्चतिकर्मा। निघं० ३।१४। (सः) असौ धारणाध्यानसमाधिलभ्यः परमेश्वरः (इन्द्रः) इन्द्रः उच्यते ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
Essence
वेदेष्विन्द्रनाम्ना यस्य बहुशो वर्णनं वर्वर्ति स खलु विघ्नविदारकः, प्रारब्धकार्येषु सिद्धिप्रदायको, देवासुरसंग्रामेषु विजयप्रदाता, जलधाराणां प्रवाहयिता, विप्राणां स्तुतिपात्रभूतो ब्रह्माण्डे परमेश्वरो राष्ट्रे वा राजा विद्यते। तयोर्यथायोग्यमुपासनया प्रार्थनया सत्कारेण चाभीष्टलाभाः सर्वैः ताभ्यां प्राप्तव्याः ॥६॥ अत्र इन्द्रस्यातिभक्ततया इन्द्ररूपमास्थितः असुरैर्गृहीतो हन्यमानः वामदेवः आह इति विवरणकृत् स्वकल्पनाप्रसूतमितिवृत्तं प्रोवाच। तादृशमेवेतिवृत्तं गृत्समदेन ऋषिणा दृष्टस्य ऋग्वेदीयस्य ‘स जनास इन्द्रः’ इतीन्द्रपरिचयं प्रस्तुवानस्य द्वितीयमण्डलस्थद्वादशसूक्तस्य विषये गृत्समदनाम्मा कैश्चित् कल्पितमस्ति, यत् सायणीये ऋग्वेदभाष्ये समुद्धृतं विलोक्यते। तत्सर्वं न प्रामाणिकं, किन्तु कथाकाराणां लीलाविलसितमेवेति मन्तव्यम् ॥
Subject
अथेन्द्रस्य परिचयः प्रस्तूयते।
Footnote
१. तुरयन्तः त्वरमाणाः हिंसन्तो वा शत्रून्—इति वि०। २. अपाम् उपज्मन्। उप पूर्वस्य अज गतिक्षेपणयोरित्यस्येदं रूपम्। आपः समीपे यस्मिन् काले आगच्छन्ति सः अपामुपज्मा वर्षाकालः तस्मिन् अपाम् उपज्मे। उदकार्थं वर्षाकाले यमाह्वयन्तीत्यभिप्रायः—इति वि०। अपाम् उपज्मन् उपगमने प्राप्तौ, वृष्ट्यर्थमित्यर्थः—इति भ०।