Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 336

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यो꣡ नो꣢ वनु꣣ष्य꣡न्न꣢भिदा꣢ति꣣ म꣢र्त꣣ उ꣡ग꣢णा वा꣣ म꣡न्य꣢मानस्तु꣣रो꣡ वा꣢ । क्षि꣣धी꣢ यु꣣धा꣡ शव꣢꣯सा वा꣣ त꣡मि꣢न्द्रा꣣भी꣡ ष्या꣢म वृषमण꣣स्त्वो꣡ताः꣢ ॥३३६

यः꣢ । नः꣣ । वनुष्य꣢न् । अ꣣भिदा꣡ति꣢ । अ꣣भि । दा꣡ति꣢꣯ । म꣡र्तः꣢꣯ । उ꣡ग꣢꣯णा । उ । ग꣣णा । वा । म꣡न्य꣢꣯मानः । तु꣣रः꣢ । वा꣣ । क्षिधी꣢ । यु꣣धा꣢ । श꣡व꣢꣯सा । वा꣣ । त꣢म् । इ꣣न्द्र । अभि꣢ । स्या꣣म । वृषमणः । वृष । मनः । त्वो꣡ताः꣢꣯ । त्वा । ऊ꣣ताः ॥३३६॥

Mantra without Swara
यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा । क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः ॥३३६

यः । नः । वनुष्यन् । अभिदाति । अभि । दाति । मर्तः । उगणा । उ । गणा । वा । मन्यमानः । तुरः । वा । क्षिधी । युधा । शवसा । वा । तम् । इन्द्र । अभि । स्याम । वृषमणः । वृष । मनः । त्वोताः । त्वा । ऊताः ॥३३६॥

Samveda - Mantra Number : 336
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः मर्तः) यो मनुष्यः (वनुष्यन्) क्रुध्यन्। वनुष्यतिः क्रुध्यतिकर्मा। निघं० २।१२। अपि च (उगणा१ वा) उद्यतसैन्यो वा उद्यतायुधगणो वा। उगणा उद्यतगणः ? उ इति उत् इत्यर्थे वर्तते। पृषोदरादित्वान्मध्यमपदलोपः। ‘सुपां सुलुक्०। अ० ७।१।३९’ इति प्रथमैकवचनस्याकारादेशः। (मन्यमानः) अभिमन्यमानो वा। यद्वा (उगणा) स्वकीया उद्यतायुधगणाः सेनाः (मन्यमानः) बहु मन्यमानः इति व्याख्येयम्। याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त। ये स्ते॒ना ये च॒ तस्क॑रास्ताँस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये॑। य० ११।७७ इति प्रामाण्यात्।(तुरः२) सत्वरो यमोऽपि भूत्वा। तुर त्वरणे। तुर इति यमनाम, तरतेर्वा त्वरतेर्वा, त्वरया तूर्णगतिर्यमः। निरु० १२।१४। (नः) अस्मान् (अभिदाति३) हिनस्ति। दाप् लवने अदादिः। हे (इन्द्र) शत्रुविदारक परमात्मन् राजन् वा ! (तम्) मनुष्यम्, त्वम्, (युधा) युद्धेन (शवसा वा) बलेन वा। शव इति बलनाम। निघं० २।९। (क्षिधि) क्षपय।४ क्षि क्षये इत्यस्य छान्दसं रूपमिदम्। अङितश्च अ० ६।४।१०३ इति हेर्धिः। अन्येषामपि दृश्यते अ० ६।३।१३७ इति दीर्घः। पादादित्वान्निघाताभावः। हे (वृषमणः५) वृषं बलवद् मनो यस्य तादृश परमात्मन् राजन् वा ! (त्वोताः) त्वद्रक्षिताः वयम् तम् (अभिस्याम) अभिभवेम, पराजयेमहि। संहितायाम् अभी इत्यत्र ‘निपातस्य च। अ० ६।३।१३६’ इति दीर्घः। ‘ष्याम’ इत्यत्र ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः। अ० ८।३।८७’ इति षत्वम् ॥५॥
Essence
यो रिपुर्महतीं सेनामादाय स्वबलमभिमन्यमानः सन् सज्जनानुद्वेजयेत् तं ते परमात्मनः पुरुषार्थप्रेरणया नृपस्य साहाय्येन च युद्धे पराभवेयुः ॥५॥
Subject
अथ परमात्मनो नृपतेश्च साहाय्येन वयं किं कुर्यामेत्याह।
Footnote
१-३. उगणाः उरुगणाः। तुरः तुर्वतेर्वधकर्मण एतद् रूपम्, हिनस्ति—इति वि०। उगणा वा उद्गूर्णा वा । तुर इति तुर्वतेः हिंसाकर्मणो रूपम्। वृत्रतुरितिवत्। हन्त्री वा शत्रूणाम् अस्मदीयाः प्रजा अभिदासति—इति भ०। तुरः इति ‘तुर’ शब्दस्य शसि रूपं चेदङ्गीक्रियते तदा स्वरो न सङ्गच्छेत इत्यस्माभिरकारान्तस्य तुर शब्दस्य प्रथमैकवचनत्वेन व्याख्यातम्। ४. क्षिधी। क्षि क्षये इत्यस्येदं रूपम्। उपक्षपय इत्यर्थः—इति वि०। क्षिधिः क्षयस्य निधिः। क्षिधि शब्दात् तृतीयैकवचने पूर्वसवर्णदीर्घः। क्षयकरेण युधा संप्रहारेण—इति भ०। क्षिः क्षयो धीयते म्रियते अनेनेति क्षिधिः। तृतीयैकवचनस्य पूर्वसवर्णदीर्घः। क्षयकरेण युधा संप्रहारेण—इति भ०। क्षिः क्षयो धीयते भ्रियते अनेनेति क्षिधिः। तृतीयैकवचनस्य पूर्वसवर्णः। क्षयकरेण युधा आयुधेन—इति सा०। ५. सायणस्तु ‘वृषमणः वृषा इवाचरन्तो वयम्’ इत्याह। तत्र स्वरो न सङ्गच्छते।