Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 335

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣣त्राह꣢णं꣣ दा꣡धृ꣢षिं꣣ तु꣢म्र꣣मि꣡न्द्रं꣢ म꣣हा꣡म꣢पा꣣रं꣡ वृ꣢ष꣣भ꣢ꣳ सु꣣व꣡ज्र꣢म् । ह꣢न्ता꣣ यो꣢ वृ꣣त्र꣡ꣳ सनि꣢꣯तो꣣त꣢꣫ वाजं꣣ दा꣢ता꣢ म꣣घा꣡नि꣢ म꣣घ꣡वा꣢ सु꣣रा꣡धाः꣢ ॥३३५॥

स꣣त्राह꣡ण꣢म् । स꣣त्रा । ह꣡न꣢꣯म् । दा꣡धृ꣢꣯षिम् । तु꣡म्रम् । इ꣡न्द्र꣢꣯म् । म꣣हा꣢म् । अ꣣पार꣢म् । अ꣣ । पार꣢म् । वृ꣢षभम् । सु꣣व꣡ज्र꣢म् । सु꣣ । व꣡ज्र꣢꣯म् । ह꣡न्ता꣢꣯ । यः । वृ꣣त्र꣢म् । स꣡नि꣢꣯ता । उ꣣त꣢ । वा꣡ज꣢म् । दा꣡ता꣢꣯ । म꣣घा꣡नि꣢ । म꣣घ꣡वा꣢ । सु꣣रा꣡धाः꣢ । सु꣣ । रा꣡धाः꣢꣯ ॥३३५॥

Mantra without Swara
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभꣳ सुवज्रम् । हन्ता यो वृत्रꣳ सनितोत वाजं दाता मघानि मघवा सुराधाः ॥

सत्राहणम् । सत्रा । हनम् । दाधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । अ । पारम् । वृषभम् । सुवज्रम् । सु । वज्रम् । हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघवा । सुराधाः । सु । राधाः ॥३३५॥

Samveda - Mantra Number : 335
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् (सत्राहणम्२) सत्येन असत्यस्य हन्तारम्। सत्रा इति सत्यनाम। निघं० ३।१०। (दाधृषिम्) भृशं पापानां पापिनां च धर्षकम्, भृशं प्रगल्भं वा। अत्र धृष प्रसहने, ञिधृषा प्रागल्भ्ये इति वा धातोः ‘किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। अ० ३।२।१७१’ वा० इत्यनेन किन् प्रत्ययो लिड्वच्च। नित्त्वादाद्युदात्तत्वम्। (तुम्रम्३) शुभकर्मसु प्रेरकम्, (महाम्) महान्तम्, (अपारम्) अनन्तविद्यम् अनन्तपराक्रमं वा, (वृषभम्) सुखवर्षकम् (सुवज्रम्४) उत्कृष्टदण्डम् (इन्द्रम्) अधर्माविद्यादिविदारकं परमात्मानं राजानं वा (यजामहे) पूजयामः सत्कुर्मो वा। (मघवा) ऐश्वर्यवान्, (सुराधाः) उत्कृष्टन्यायधर्मधनः (यः) परमात्मा राजा वा (वृत्रम्) विघ्नभूतं शत्रुम् (हन्ता) हिंसिता, (उत) अपि च (वाजम्) अन्नबलविज्ञानादिकम् (सनिता) संविभक्ता, (मघानि) धनानि च, (दाता) दानकर्ता भवति। अत्र हन्ता, सनिता, दाता इत्येतेषां तृन्नन्तत्वात् वृत्रं, वाजं, मघानि इत्यत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्। अ० २।३।६९’ इति षष्ठ्यभावे द्वितीयैव भवति। नित्त्वादेवाद्युदात्तः स्वरः ॥४॥५ अत्र ‘यजामहे’ इति पूर्वस्मान्मन्त्रादाकृष्यते। अर्थश्लेषोऽलङ्कारः परिकरश्च। ‘न्ता, नितो’ ‘मघा, मघ’ इत्यत्र छेकानुप्रासः। मकारस्य तकारस्य चासकृदावृत्तौ वृत्त्यनुप्रासः ॥४॥
Essence
सर्वै राष्ट्रवासिभिः प्रजाजनैर्मन्त्रोक्तगुणविभूषितः परमात्मा पूजनीयो राजा च सत्कर्त्तव्यः ॥४॥
Subject
पुनः स परमेश्वरो राजा वा कीदृशोऽस्तीत्याह।
Footnote
१. ऋ० ४।१७।८। २. सत्राशब्दः सदाशब्दपर्यायः। सदा हन्तारं शत्रूणाम्। अथवा सत्रेति सत्यनाम। सत्येन असत्यानामसुराणां हन्तारम्—इति वि०। बहूनां हन्तारम्। सत्रेति बहुनाम—इति भ०। ३. तुम्रं प्रेरकम्। तुमिः प्रेरणकर्मा—इति भ०। शत्रूणां प्रेरकम्—इति सा०। तुम्रम्, लुप्तोपममिदं द्रष्टव्यम्। तुम्रसदृशम्, स्थूलमित्यर्थः—इति वि०। ४. (सुवज्रम्) शोभनशस्त्रास्त्राणां प्रयोक्तारमिति ऋ० ४।१७।८ भाष्ये द०। ५. ऋग्भाष्ये दयानन्दर्षिरिमं मन्त्रं राजपक्षे व्याख्यातवान्। एष च तत्र तत्कृतो भावार्थः—‘यः पूर्णविद्यः सत्यवादी प्रगल्भो बलिष्ठः शस्त्रास्त्रप्रयोगविदभयदाता पुरुषो भवेत्तमेव राज्यायाधिकुरुत’ इति।