Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 334

1875 Mantra
Devata- इन्द्रः Rishi- विमद ऐन्द्रः, वसुकृद्वा वासुक्रः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡जा꣢मह꣣ इ꣢न्द्रं꣣ व꣡ज्र꣢दक्षिण꣣ꣳ ह꣡री꣢णाꣳ र꣣थ्यां꣢३꣱वि꣡व्र꣢तानाम् । प्र꣡ श्मश्रु꣢꣯भि꣣र्दो꣡धु꣢वदू꣣र्ध्व꣡धा꣢ भुव꣣द्वि꣡ सेना꣢꣯भि꣣र्भ꣡य꣢मानो꣣ वि꣡ राध꣢꣯सा ॥३३४॥

य꣡जा꣢꣯महे । इ꣡न्द्र꣢꣯म् । व꣡ज्र꣢꣯दक्षिणम् । व꣡ज्र꣢꣯ । द꣣क्षिणम् । ह꣡री꣢꣯णाम् । र꣣थ्या꣢꣯म् । वि꣡व्र꣢꣯तानाम् । वि । व्र꣣तानाम् । प्र꣢ । श्म꣡श्रु꣢꣯भिः । दो꣡धु꣢꣯वत् । ऊ꣣र्ध्व꣡धा꣢ । भु꣣वत् । वि꣢ । से꣡ना꣢꣯भिः । भ꣡य꣢꣯मानः । वि । रा꣡ध꣢꣯सा ॥३३४॥

Mantra without Swara
यजामह इन्द्रं वज्रदक्षिणꣳ हरीणाꣳ रथ्यां३विव्रतानाम् । प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा ॥

यजामहे । इन्द्रम् । वज्रदक्षिणम् । वज्र । दक्षिणम् । हरीणाम् । रथ्याम् । विव्रतानाम् । वि । व्रतानाम् । प्र । श्मश्रुभिः । दोधुवत् । ऊर्ध्वधा । भुवत् । वि । सेनाभिः । भयमानः । वि । राधसा ॥३३४॥

Samveda - Mantra Number : 334
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। वयम् (वज्रदक्षिणम्) वज्रः न्यायदण्डः दक्षिणः सततजागरूको यस्य तम्, (विव्रतानाम्) विविधकर्मणाम्। व्रतमिति कर्मनाम। निघं० २।१। (हरीणाम्) आकर्षणशक्तियुक्तानां गतिमतां सूर्यचन्द्रनक्षत्रपृथिव्यादिलोकानाम् (रथ्यम्) वोढारम्। रथं वहतीति रथ्यः। ‘तद्वहति रथयुगप्रासङ्गम्। अ० ४।४।७६’ इति यत्। (इन्द्रम्) सर्वद्रष्टारं परमात्मानम् (यजामहे) पूजयामः। सः (श्मश्रुभिः२) सूर्यकिरणैः। श्मश्रु लोम श्मनि श्रितं भवति इति निरुक्तम् ३।५। यथा श्मनि शरीरे श्रितत्वान्मुखलोमानि श्मश्रूण्युच्यन्ते, तथैव आदित्यशरीरे श्रितत्वात् तद्रश्मयोऽपि श्मश्रूणीत्यध्यवसेयम्। (प्र दोधुवत्) रोगादीन् भृशं पुनः पुनः प्रकम्पयन्। धूञ् कम्पने धातोर्यङ्लुगन्ताच्छतरि रूपम्। (ऊर्ध्वधा) सर्वत ऊर्ध्वः सः (सेनाभिः) चमूभिरिव विद्यमानाभिः स्वशक्तिभिः (भयमानः) दुर्जनान् भीषयन् बिभेतेरन्तर्णीतण्यर्थः प्रयोगोऽयं ज्ञेयः। (वि भुवत्) विभवति सर्वोत्कर्षेण वर्तते, किञ्च (राधसा) ऐश्वर्येण। राध इति धननाम, निघं० २।१०। (वि) विभुवत्, सर्वोत्कर्षेण वर्तते ॥ अथ द्वितीयः—राजप्रजापरः। (वयम्) राष्ट्रवासिनः प्रजाजनाः (वज्रदक्षिणम्) वज्रः वज्रवद् दृढानि शस्त्रास्त्राणि दक्षिणे हस्ते यस्य तम्। दक्षिणो हस्तो दक्षतेरुत्साहकर्मणः, निरु० १।७। वज्रशब्दो रन्प्रत्ययान्तत्वाद् नित्स्वरेणाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (विव्रतानाम्) विविधकर्मणाम् (हरीणाम्) अग्निवायुविद्युतां सूर्यरश्मीनां च (रथ्यम्) अग्नियानेषु वायुयानेषु विद्युद्यानेषु सौरयानेषु च प्रयोक्तारम् (इन्द्रम्) शूरं राजानं सेनाध्यक्षं वा (यजामहे) सत्कुर्महे। शत्रून् (श्मश्रुभिः३ दोधुवत्) मुखलोमभिः प्रकम्पयन्, शत्रून् पराजित्य तेषां मुखलोमानि अधः कुर्वन्, तद्गर्वं चूर्णयन्नित्यर्थः ‘अक्ष्णा काणयन्’ ‘पादेन खञ्जयन्’ इतिवत् प्रयोगोऽयम्। (ऊर्ध्वधा) ऊर्ध्वः (भुवत्) भवति। किञ्च (सेनाभिः) स्वकीयाभिर्दुर्दान्ताभिः चमूभिः (भयमानः) शत्रून् भीषयन् (वि भुवत्) विजयते, (राधसा) ऐश्वर्येण च (वि) विभुवत् वैभवयुक्तो जायते ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
दुष्टेषु पापेषु चोद्यतदण्डो, न्यायकारी, सर्वेषां लोकानां नियमेन स्वस्वपरिधौ सूर्यं परितश्च भ्रमयिता, शौर्यादिषु सर्वातिशायी परमेश्वरो यथा सर्वैर्जनैः पूजनीयस्तथैव बहुभिः शस्त्रास्त्रैर्युक्तो, राष्ट्रे विमानादियानानां प्रबन्धकर्ता, सेनाभिः शत्रूणां पराजेता सेनाध्यक्षो नृपतिश्चापि प्रजाभिः संमाननीयः ॥३॥
Subject
अथ कीदृशं परमेश्वरं राजानं वा वयं यजामहे इत्याह।
Footnote
१. ऋ० १०।२३।१, ‘प्र श्मश्रु दोधुवदूर्ध्वथा भूद् वि सेनाभिर्दयमानो विराधसा’ इत्युत्तरार्द्धपाठः। २. श्मश्रुभिः तेजोभिः। ऊर्ध्वधा उर्ध्व इत्यर्थः। भुवत् भवति, उद्युक्तो भवतीत्यर्थः—इति भ०। ३. श्मश्रूणि श्मश्रुग्रहणं चात्र प्रदर्शनार्थम्। सर्वरोमाणि शत्रूणाम्। प्र दोधुवत्, धू विधूनने इत्यस्येदं रूपम्, पुनः पुनः प्रकर्षेण धुवति। उद्धूपितरोमकूपान् शत्रून् करोतीत्यर्थः—इति वि०।