Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 333

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्रा꣣ता꣢र꣣मि꣡न्द्र꣢मवि꣣ता꣢र꣣मि꣢न्द्र꣣ꣳ ह꣡वे꣢हवे सु꣣ह꣢व꣣ꣳ शू꣢र꣣मि꣡न्द्र꣢म् । हु꣣वे꣢꣫ नु श꣣क्रं꣡ पु꣢रुहू꣣त꣡मिन्द्र꣢꣯मि꣣द꣢ꣳ ह꣣वि꣢र्म꣣घ꣡वा꣢ वे꣣त्वि꣡न्द्रः꣢ ॥३३३॥

त्रा꣣ता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । अ꣣विता꣡र꣢म् । इ꣡न्द्र꣢꣯म् । ह꣡वे꣢꣯हवे । ह꣡वे꣢꣯ । ह꣣वे । सुह꣡व꣢म् । सु꣣ । हव꣢꣯म् । शू꣡र꣢꣯म् । इ꣡न्द्र꣢꣯म् । हु꣣वे꣢ । नु । श꣣क्र꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । इ꣡न्द्र꣢꣯म् । इ꣣द꣢म् । ह꣣विः꣢ । म꣣घ꣡वा꣢ । वे꣣तु । इ꣡न्द्रः꣢꣯ ॥३३३॥

Mantra without Swara
त्रातारमिन्द्रमवितारमिन्द्रꣳ हवेहवे सुहवꣳ शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रमिदꣳ हविर्मघवा वेत्विन्द्रः ॥

त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेहवे । हवे । हवे । सुहवम् । सु । हवम् । शूरम् । इन्द्रम् । हुवे । नु । शक्रम् । पुरुहूतम् । पुरु । हूतम् । इन्द्रम् । इदम् । हविः । मघवा । वेतु । इन्द्रः ॥३३३॥

Samveda - Mantra Number : 333
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (त्रातारम्२) आपद्भ्यस्त्राणकर्तारम् (इन्द्रम्) शत्रुविदारकं जगदीश्वरं राजानं वा, (अवितारम्) सुखादिप्रदानेन पालयितारम् (इन्द्रम्) ऐश्वर्यशालिनं जगदीश्वरं राजानं वा, (हवेहवे) संग्रामे-संग्रामे संकटे-संकटे (सुहवम्) आह्वातुं सुशकम्, (शूरम्) शूरवीरम् (इन्द्रम्) सहायकं जगदीश्वरं राजानं वा, (शक्रम्) शक्तिशालिनम् (पुरुहूतम्) बहुस्तुतं बहुभिराहूतं वा (इन्द्रम्) अविद्यादिदुःखभञ्जकं जगदीश्वरं राजानंवा, (नु) क्षिप्रम् (हुवे) आह्वयामि। ह्वेञ् धातोश्छान्दसं सम्प्रसारणजं रूपम्। सः (मघवा) प्रशस्तधनः (इन्द्रः) जगदीश्वरो राजा वा (इदम्) मया दीयमानम् (हविः) आत्मसमर्पणरूपं राजदेयकररूपं वा हव्यम् (वेतु) व्याप्नोतु स्वीकरोतु। वी गतिव्याप्त्यादिषु पठितः। तस्येदं लोटि रूपम् ॥२॥३ अत्र अर्थश्लेषालङ्कारः। विशेषणानां साभिप्रायत्वात् परिकरालङ्कारोऽपि। ‘इन्द्रम्’ इत्यस्य चतुष्कृत्वः पुनरुक्तिरिन्द्रस्य बहुक्षमत्वम् अन्यविलक्षणतयाऽऽह्वानयोग्यत्वं च द्योतयति। निरर्थकस्य ‘तारमिन्द्रं’ इत्यस्य द्विशः, ‘रमिन्द्रं’ इत्यस्य त्रिशः, ‘मिन्द्र’ इत्यस्य चतुश्श आवृत्तेर्यमकालङ्कारः। ‘हवे, हवे, हवं, हवं, हुवे, हवि’ इति वृत्त्यनुप्रासः। ‘त्रातारम्, अवितारम्’, ‘इन्द्रम्, शक्रम्, पुरुहूतम्’ इत्यत्र च पुनरुक्तवदाभासः ॥२॥
Essence
सर्वैर्विपत्त्राता सुपालकः सुखाह्वानो बहुजनवन्दितः शूरः परमेश्वरो नृपतिश्चात्मकल्याणाय जनकल्याणाय च वरणीयः। परमेश्वरायात्मसमर्पणं नृपतये च करप्रदानमपि नियमतो विधेयम् ॥२॥
Subject
अथेन्द्रनाम्ना परमात्मनो नृपतेश्चाह्वानयोग्यत्वं दर्शयति।
Footnote
१. ऋ० ६।४७।११, य० २०।५० उभयत्र ऋषिः गर्गः, ‘ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः’ इति चोत्तरार्धपाठः। अथ० ७।८६।१, ऋषिः अथर्वा स्वस्त्ययनकामः, ‘स्वस्ति न इन्द्रो मघवान् कृणोतु’ इति चतुर्थः पादः। २. त्रातारमिन्द्रम् अवितारमिन्द्रमिति पुनरुक्तिः स्तोतृतमत्वख्यापनाय। त्राणं नाम उपस्थितेभ्यो भयेभ्यो रक्षणम्, अवनं तु द्वेष्यतानिरोध इति विशेषः। अथवा कामैस्तर्पणम् अवनम्—इति भ०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये यजुर्भाष्ये च राजप्रजापक्षे व्याख्यातः।