Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 332

1875 Mantra
Devata- इन्द्रः Rishi- अरिष्टनेमिस्तार्क्ष्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्य꣢मू꣣ षु꣢ वा꣣जि꣡नं꣢ दे꣣व꣡जू꣢तꣳ सहो꣣वा꣡नं꣢ तरु꣢ता꣢रं꣣ र꣡था꣢नाम् । अ꣡रि꣢ष्टनेमिं पृत꣣ना꣡ज꣢मा꣢शु꣣ꣳ स्व꣣स्त꣢ये꣣ ता꣡र्क्ष्य꣢मि꣣हा꣡ हु꣢वेम ॥३३२॥

त्य꣢म् । उ꣣ । सु꣢ । वा꣣जि꣡न꣢म् । दे꣣व꣡जू꣢तम् । दे꣣व꣢ । जू꣣तम् । सहोवा꣡न꣢म् । त꣣रुता꣡र꣢म् । र꣡था꣢꣯नाम् । अ꣡रि꣢꣯ष्टनेमिम् । अ꣡रि꣢꣯ष्ट । ने꣣मिम् । पृतना꣡ज꣢म् । आ꣣शु꣢म् । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । ता꣡र्क्ष्य꣢꣯म् । इ꣣ह꣢ । हु꣣वेम ॥३३२॥

Mantra without Swara
त्यमू षु वाजिनं देवजूतꣳ सहोवानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुꣳ स्वस्तये तार्क्ष्यमिहा हुवेम ॥

त्यम् । उ । सु । वाजिनम् । देवजूतम् । देव । जूतम् । सहोवानम् । तरुतारम् । रथानाम् । अरिष्टनेमिम् । अरिष्ट । नेमिम् । पृतनाजम् । आशुम् । स्वस्तये । सु । अस्तये । तार्क्ष्यम् । इह । हुवेम ॥३३२॥

Samveda - Mantra Number : 332
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। वयम् (त्यम् उ) तम् (वाजिनम्) सर्वेषामन्नानां धनानां वा स्वामिनम्, (देवजूतम्२) देवैर्विद्वद्भिः योगिभिः जूतं प्राप्तम्, यद्वा देवान् प्रकाशकान् सूर्यचन्द्रादीन् मनश्चक्षुःश्रोत्रादीन् वा जूतं गतम्, (सहोवानम्) सहस्वन्तम् बलवन्तमित्यर्थः। सहस् शब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’। अ० ५।२।१०९ वा० इत्यनेन मत्वर्थीयो वनिप्। (रथानाम्) शरीररथानाम् यद्वा रंहणशीलानां पृथिवीसूर्यचन्द्रादीनां लोकानाम्। रथो रंहतेर्गतिकर्मणः। निरु० ८।११। (तरुतारम्३) गमयितारम्। तॄ प्लवनसंतरणयोः। ‘ग्रसितस्कभित०’ अ० ७।२।३४ इति उडागमो निपात्यते। (अरिष्टनेमिम्) अप्रतिहतदण्डम्। नेमिरिति वज्रनाम। निघं० २।२०। (पृतनाजम्)४ पृतनानां कामक्रोधादिसेनानाम् अजितारं प्रक्षेप्तारं जेतारं वा, यद्वा पृतनाः सत्यदयादाक्षिण्यादिसद्गुणानां सेनाः अजति प्रापयतीति तम् (आशुम्) शीघ्रकारिणम् (तार्क्ष्यम्) सकलभुवनव्यापिनम् अभिगमनीयं वा परमात्मानम्। तीर्णे विस्तीर्णे जगति क्षियति निवसतीति तार्क्ष्यः। यद्वा गत्यर्थात् तृक्षतेर्ण्यति तार्क्ष्यः, अभिगमनीयः परमात्मा। (इह) अस्माकम् अस्मिन् जीवने। संहितायां ‘निपातस्य च’ इति दीर्घः। (स्वस्तये) कल्याणार्थम् (सु हुवेम) सम्यग् आह्वयेम। तमूषु इत्यत्र ‘इकः सुञि’ अ० ६।३।१३४ इति दीर्घः। ‘सुञः अ० ८।३।१०७’ इति षत्वम् ॥ अथ द्वितीयः—सेनापतिपरः। वयम् (त्यम् उ) तम् (वाजिनम्) अन्नादिसात्त्विकाहारम्, बलवन्तम्, संग्रामकारिणं वा, (देवजूतम्) देवेन राज्ञा जूतं युद्धार्थं प्रेरितम्, (सहोवानम्) सहः शत्रुपराजयशीलं क्षात्रं तेजः तद्वन्तम्, (रथानाम्) युद्धे उपयुज्यमानानां विमानानाम् (तरुतारम्) प्लवयितारम्, (अरिष्टनेमिम्) अक्षतरथचक्रम्, (पृतनाजम्) संग्रामे स्वसेनानाम् प्रेरकम्, शत्रुसेनानां प्रक्षेप्तारं वा, (आशुम्) क्षिप्रकारिणम्, न त्वलसम्, (तार्क्ष्यम्) गरुडपक्षिवदाक्रान्तारम्, वायुवत् स्वपक्षीयाणां जीवनदायिनम् परपक्षीयाणां भञ्जकं वा सेनापतिम् (इह) अस्मिन् संग्रामकाले (स्वस्तये) राष्ट्रस्य पूजितास्तित्वाय। स्वस्तीत्यविनाशिनाम। अस्तिरभिपूजितः स्वस्तीति। निरु० ३।२०। (सु हुवेम) सम्यगाह्वयेम, सम्यगुत्साहयेम वा ॥ अथ तृतीयः—वायुविद्युत्परः। वयम् (त्यम् उ) तम् (वाजिनम्) तीव्रवेगम्, (देवजूतम्) देवैः शिल्पविद्यावेत्तृभिः कुशलैः शिल्पिभिः यानादिषु प्रेरितम्, (सहोवानम्) अतिशयबलयुक्तम्, (रथानाम्) समुद्रपृथिव्यन्तरिक्षयायिनां वायुरथानां विद्युद्यानानां वा (तरुतारम्) तरणसाधनभूतं प्लवनसाधनभूतं वा, (पृतनाजम्) सांग्रामिकसेनानां देशान्तरप्रापणे निमित्तभूतम्, संग्रामजयसाधनभूतं वा। पृतना इति संग्रामनाम। निघं० २।१७। सेनार्थे तु प्रसिद्धमेव। (आशुम्) यानानां क्षिप्रगमनहेतुभूतम् (तार्क्ष्यम्) अन्तरिक्षशायिनं वायुं विद्युदग्निं वा (इह) अस्मिन् शिल्पयज्ञे (स्वस्तये) सुखाय (हुवेम) यानादिषु प्रयुञ्जीमहि ॥१॥ यास्काचार्य इमामृचमेवं व्याचष्टे—तार्क्ष्यस्त्वष्ट्रा व्याख्यातः। तीर्णे अन्तरिक्षे क्षियति, तूर्णमर्थं रक्षति अश्नोतेर्वा। तं भृशमन्नवन्तम्। जूतिर्गतिः प्रीतिर्वा। देवजूतं देवगतं देवप्रीतं वा। सहस्वन्तम्। तारयितारं रथानाम्। अरिष्टनेमिम् पृतनाजितम्, आशुं स्वस्तये तार्क्ष्यमिह ह्वयेमेति कमन्यं मध्यमादेवमवक्ष्यत्—इति। निरु० १०।२७ ॥ अत्र श्लेषालङ्कारः। ‘तरु-तारं’ इत्यत्र छेकानुप्रासः। वकाररेफाद्यावृत्तौ च वृत्त्यनुप्रासः ॥१॥
Essence
सर्वैर्जनैरुपासनायज्ञे सकलजगद्व्यापी तार्क्ष्यः परमेश्वरो, राष्ट्रयज्ञे गरुडवत् परपक्षाक्रान्ता सेनापतिः, शिल्पयज्ञे च कलाकौशलसाधको वायुर्विद्युदग्निर्वा ग्राह्य उपयोक्तव्यश्च ॥१॥
Subject
अथ परमात्मस्तुतिसैनापत्यशिल्पविषयमाह।
Footnote
१. ऋ० १०।१७८।१ ‘सहावानं’ इति पाठः। अथ० ७।८५।१, ऋषिः अथर्वा, ‘पृतनाजि’ इति पाठः। २. देवजूतम्। देवैर्मरुदादिभिरनुगतम्—इति वि०। देवैः स्तोतृभिः प्रेरितम्—इति भ०। देवैः सोमाहरणाय प्रेरितम्। जु इति गत्यर्थः सौत्रो धातुः, अस्मात् क्तः, पूर्वपदप्रकृतिस्वरत्वम्। यद्वा देवैः प्रीयमाणं तर्प्यमाणम्—इति सा०। ३. तरुतारम् हन्तारम् रथानां शत्रूणां स्वभूतानाम्—इति वि०। हिंसितारं रथानां प्रतिरथानाम्। अथवा रथानां गन्तॄणां तरुतारं गन्तृतमम्। तरतिर्गतिकर्माणि—इति भ०। रथानाम् अन्यदीयानां तरुतारं संग्रामे तारकम्। यद्वा रंहणशीला अमी इमे लोका रथाः, तान् सोमाहरणसमये शीघ्रं तरीतारम्—इति सा०। ४. पृतनाजम्। पृतनेति संग्रामनाम। तस्मादुत्तरस्य जयतेर्ड प्रत्ययः। पृतनाजं संग्रामाणां जेतारमित्यर्थः—इति वि०। पृतनानाम् अजितारम् क्षेप्तारम्। अज गतिक्षेपणयोः—इति भ०। पृतनानां शत्रुसेनानाम् आजितारं प्रगमयितारं जेतारं वा। अज गतिक्षेपणयोः अस्मात् क्विप्—इति सा०।