Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 330

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣢दु꣣ ब्र꣡ह्मा꣢ण्यैरत श्रव꣣स्ये꣡न्द्र꣢ꣳ सम꣣र्ये꣡ म꣢हया वसिष्ठ । आ꣡ यो विश्वा꣢꣯नि꣣ श्र꣡व꣢सा त꣣ता꣡नो꣢पश्रो꣣ता꣢ म꣣ ई꣡व꣢तो꣣ व꣡चा꣢ꣳसि ॥३३०॥

उ꣢त् । उ꣣ । ब्र꣡ह्मा꣢꣯णि । ऐ꣣रत । श्रवस्य꣢ । इ꣡न्द्र꣢꣯म् । स꣣मर्ये꣢ । स꣣ । मर्ये꣢ । म꣣हय । वसिष्ठ । आ꣢ । यः । वि꣡श्वा꣢꣯नि । श्र꣡व꣢꣯सा । त꣣ता꣡न꣢ । उ꣣पश्रोता꣢ । उ꣣प । श्रोता꣢ । मे꣣ । ई꣡व꣢꣯तः । व꣡चां꣢꣯ऽसि ॥३३०॥

Mantra without Swara
उदु ब्रह्माण्यैरत श्रवस्येन्द्रꣳ समर्ये महया वसिष्ठ । आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचाꣳसि ॥

उत् । उ । ब्रह्माणि । ऐरत । श्रवस्य । इन्द्रम् । समर्ये । स । मर्ये । महय । वसिष्ठ । आ । यः । विश्वानि । श्रवसा । ततान । उपश्रोता । उप । श्रोता । मे । ईवतः । वचांऽसि ॥३३०॥

Samveda - Mantra Number : 330
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
उपासका जनाः (श्रवस्या२) यशःप्राप्तीच्छया। श्रवः श्रवणीयं यशः इति निरुक्तम्। (११।९)। तस्येच्छा श्रवस्या। क्यचि ‘अ प्रत्ययात्’। अ० ३।३।१०२ इति अ प्रत्यये टाप्। ततस्तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। श्रवस्याशब्दश्चित्त्वादन्तोदात्तः, उदात्तेन सह विभक्तेरेकादेशोऽप्युदात्त एव। इन्द्रं प्रति (ब्रह्माणि) स्तोत्राणि (उद् ऐरत उ) उदीरयन्ति खलु। ईर गतौ कम्पने च, लडर्थे लुङ्। हे (वसिष्ठ३) अतिशयेन सद्गुणकर्मसु विद्यासु च कृतनिवास विद्वन् ! अतिशयेन वस्ता इति वसिष्ठः। वस्तृ शब्दाद् इष्ठनि ‘तुरिष्ठेमेयस्सु’ अ० ६।४।१५४ इति तृचो लोपः। ‘यद्वै नु श्रेष्ठस्तेन वसिष्ठोऽथो यद् वस्तृतमो भवति तेनो एव वसिष्ठः’। श० ८।१।१।६। त्वमपि (समर्ये४) जीवन-संग्रामे यज्ञे वा। संगता भवन्ति मर्याः शत्रवो मनुष्या यत्र स समर्यः संग्रामः। समर्ये इति संग्रामनामसु पठितम्। निघं० २।१७। संग्रामवाचिनः शब्दा यज्ञवाचिनोऽपि दृश्यन्ते इति यज्ञोऽपि समर्यः। तत्रापि यज्ञेच्छया जनाः समवेता भवन्ति। (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (महय) पूजय। (मह) पूजायाम्। संहितायाम् ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। (यः) इन्द्रः (विश्वानि) सर्वाणि भुवनानि (श्रवसा) यशसा (आ ततान) वितस्तार सः (ईवतः५) गमनवतः कर्मण्यस्य पुरुषार्थिनः। अयनम् ईः, ई गतिप्रजनकान्त्यसनखादनेषु, क्विपि रूपम् तद्वतः। (मे) मम (वचांसि) प्रार्थनावचनानि (उपश्रोता) सामीप्येन आकर्णयिता, भवत्विति शेषः ॥८॥६
Essence
परमेश्वरः पुरुषार्थिन एव वचांसि शृणोति, न पौरुषहीनस्य केवलं स्तुतिं कुर्वतः। यः सर्वाणि सूर्यचन्द्रपृथिव्यादीनि भुवनानि यशसा प्रख्यापयति, स मामपि यशस्विनं विदध्यादिति सर्वैराकाङ्क्षणीयं तदर्थं प्रयतनीयं च ॥८॥
Subject
अथ विद्वांसो जनाः किं कुर्युरित्याह।
Footnote
१. ऋ० ७।२३।१, अथ० २०।१२।१, उभयत्र ‘श्रवसा’ इत्यत्र ‘शवसा’ इति पाठः। २. श्रवस्या श्रवणीयानि उत्कृष्टानीत्यर्थः—इति वि०। अस्मिन् पक्षे स्वरो न सङ्गच्छते, यति स्वरितान्तत्वापत्तेः। ‘श्रवस्या’ श्रवस्यया अन्नेच्छया—इति भ०। तदेव सायणस्याभिप्रेतम्। ३. (वसिष्ठम्) यो वसति धर्मादिकर्मसु सोऽतिशयितस्तम् इति ऋ० १।११२।९ भाष्ये, (वसिष्ठाः) अतिशयेन सद्गुणकर्मसु निवासिनः इति ऋ० ७।३७।४ भाष्ये, (वसिष्ठः) अतिशयेन विद्यासु कृतवासः इति च ऋ० ७।२६।५ भाष्ये द०। ४. समर्ये संग्रामस्थानीययज्ञे—इति वि०। भरतसायणावपि ‘यज्ञे’ इत्येव व्याचक्षाते। ५. ईवतः। इवतेर्व्याप्तिकर्मण एतद्रूपम्। व्याप्तिमत—इति वि०। उपगमनवतः—इति भ०, सा०। ६. ऋग्भाष्ये दयानन्दर्षिणा ऋगियम् ‘उपस्थिते संग्रामे प्रबन्धकर्तारः किं किं कुर्युरिति’ विषये व्याख्याता।