Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 33

1875 Mantra
Devata- अग्निः Rishi- सिन्धुद्वीप आम्बरीषः, त्रित आप्त्यो वा Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
शं꣡ नो꣢ दे꣣वी꣢र꣣भि꣡ष्ट꣢ये꣣ शं꣡ नो꣢ भवन्तु पी꣣त꣡ये꣢ । शं꣢꣫ योर꣣भि꣡ स्र꣢वन्तु नः ॥३३॥

श꣢म् । नः꣢ । देवीः꣢ । अ꣣भि꣡ष्ट꣢ये । शम् । नः꣣ । भवन्तु । पीत꣡ये꣢ । शम् । योः । अ꣣भि꣢ । स्र꣣वन्तु । नः ॥३३॥

Mantra without Swara
शं नो देवीरभिष्टये शं नो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥

शम् । नः । देवीः । अभिष्टये । शम् । नः । भवन्तु । पीतये । शम् । योः । अभि । स्रवन्तु । नः ॥३३॥

Samveda - Mantra Number : 33
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवीः२) भौतिकाग्नेर्देदीप्यमाना ज्वाला इव परमात्माग्नेर्दिव्यशक्तयः। जसि देव्यः इति प्राप्ते वा छन्दसि।’ अ० ६।१।१०६ इति नियमेन वैकल्पिकः पूर्वसवर्णदीर्घः। (अभिष्टये) अभीष्टप्राप्तये। इष्टिः इच्छा, इषु इच्छायाम्, क्तिन्। अभि-इष्टि, एमन्नादिषु छन्दसि पररूपं वाच्यम्।’ अ० ६।१।९४ वा०, अनेन पररूपम्। (नः) अस्मभ्यम् (शम्) कल्याणकारिण्यः भवन्तु, (पीतये) प्राप्तस्य रक्षणाय च। पा रक्षणे भावे क्तिनि घुमास्थागापाजहातिसां हलि।’ अ० ६।४।६६ इतीत्वम्। (नः) अस्मभ्यम् (शम्) कल्याणकारिण्यः (भवन्तु) जायन्ताम्। किञ्च, (नः) अस्माकम् (शं योः) आगतानां कष्टानां शमनाय, अनागतानां च यावनाय दूरे रक्षणाय। शं योः शमनं च रोगाणां यावनं च भयानाम् इति निरुक्तम्। ४।२१। (अभिस्रवन्तु) सर्वतः प्रवहन्तु ॥१३॥
Essence
अभीष्टिपीतिभ्यां क्रमशो योगक्षेमौ गृह्येते। अप्राप्तस्य प्राप्तिरभीष्टिर्योगो वा, प्राप्तस्य रक्षणं पीतिः क्षेमो वा। परमेश्वरस्य दिव्यशक्तयोऽस्मभ्यं योगक्षेमं प्रयच्छन्त्विति भावः। अपि च याभिरापद्भिर्ग्रस्ता वयं पीड्यामहे, यासां चानागतानामापदां भयात् त्रस्यामस्ताः सर्वा आपदः पारमेश्वरीणां दिव्यशक्तीनां प्रभावादस्मत्पुरुषार्थेन च पूर्णतो निवारिता भवेयुः ॥१३॥
Subject
अग्नेर्ज्वाला इव परमेश्वरस्य दिव्यशक्तयोऽस्मभ्यं किं कुर्वन्त्वित्याह।
Footnote
१. ऋ० १०।९।४, य० ३६।१२ दध्यङ् आथर्वण ऋषिः अथ० १।६।१ सिन्धुद्वीपः अथर्वा कृतिर्वा ऋषिः। सर्वत्र अभिष्टये शन्नो इत्यत्र अभिष्टय आपो इति पाठः, आपश्च देवताः। २. यत्र आपो भवन्तु पीतये इति पाठः आपश्च देवताः, तत्र देवीः इति आपः इत्यस्य विशेषणम्। अत्र तु अग्निर्देवता। अतः देवीः इति पदेन भौतिकाग्निपक्षे दीप्तिमत्यो ज्वालाः, परमेश्वरपक्षे च दिव्यशक्तयः इत्यर्थो ग्राह्यः। इतरैर्भाष्यकारैस्तु आपः इति पदमध्याहृत्य व्याख्यातम्।