Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 329

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
शु꣣न꣡ꣳ हु꣢वेम म꣣घ꣡वा꣢न꣣मि꣡न्द्र꣢मस्मि꣢꣫न्भरे꣣ नृ꣡त꣢मं꣣ वा꣡ज꣢सातौ । शृ꣣ण्व꣡न्त꣢मु꣣ग्र꣢मू꣣त꣡ये꣢ स꣣म꣢त्सु꣣ घ्न꣡न्तं꣢ वृ꣣त्रा꣡णि꣢ स꣣ञ्जि꣢तं꣣ ध꣡ना꣢नि ॥३२९॥

शु꣣न꣢म् । हु꣣वेम । मघ꣡वा꣢नम् । इ꣡न्द्र꣢꣯म् । अ꣣स्मि꣢न् । भ꣡रे꣢꣯ । नृ꣡तम꣢꣯म् । वा꣡ज꣢꣯सातौ । वा꣡ज꣢꣯ । सा꣣तौ । शृण्व꣡न्त꣢म्꣢ । उ꣣ग्र꣢म् । ऊ꣣त꣡ये꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । घ्न꣡न्त꣢꣯म् । वृ꣣त्रा꣡णि꣢ । स꣣ञ्जि꣡त꣢म् । स꣣म् । जि꣡त꣢꣯म् । ध꣡ना꣢꣯नि ॥३२९॥

Mantra without Swara
शुनꣳ हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानि ॥

शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृतमम् । वाजसातौ । वाज । सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्सु । स । मत्सु । घ्नन्तम् । वृत्राणि । सञ्जितम् । सम् । जितम् । धनानि ॥३२९॥

Samveda - Mantra Number : 329
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्मिन्) एतस्मिन् (वाजसातौ) वाजानाम् अन्नधनबलविज्ञानादीनां सातिः प्राप्तिर्येन तत्र। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (भरे) संसारसमरे, जीवनसंग्रामे, देवासुरसंग्रामे वा, वयम् (शुनम्) नित्यसुखिनम्। शुनमिति सुखनाम। निघं० ३।६। शुनं सुखमस्यास्तीति शुनः, अर्शआदीनाम् आकृतिगणत्वात् ‘अर्शआदिभ्योऽच्’ अ० ५।२।१२७ इति मत्वर्थे अच्। यद्वा शुनं सुखयितारम्, यद्वा वृद्धिकरम्। टुओश्वि गतिवृद्ध्योः। (मघवानम्) प्रशस्तैश्वर्यम्, (नृतमम्) अतिशयेन नायकम्, (शृण्वन्तम्) दीनानां प्रार्थनामाकर्णयन्तम्, (उग्रम्) ओजस्विनम्, (ऊतये) सज्जनानां रक्षणाय (समत्सु) आभ्यन्तरेषु बाह्येषु वा देवासुरसंग्रामेषु। भरे, वाजसातौ, समत्सु इति संग्रामनामसु पठितानि। निघं० २।१७। (वृत्राणि) कामक्रोधादीन् षड्रिपून्, मानवान् शत्रून् वा (घ्नन्तम्) नाशयन्तम्, (धनानि) आध्यात्मिकानि भौतिकानि च ऐश्वर्याणि (सञ्जितम्) सम्यग् जेतारम् जापयितारं वा। सम्यग् जयतीति सञ्जित् तम्। (इन्द्रम्) विश्वस्य सम्राजं परमेश्वरं, राष्ट्रोन्नायकं राजानं वा (हुवेम) आह्वयेम। इदं ह्वेञ् धातोः ‘बहुलं छन्दसि’ अ० ६।१।६४ इति सम्प्रसारणे छान्दसं रूपम् ॥७॥ अत्र श्लेषालङ्कारः परिकरश्च ॥७॥
Essence
जीवनसंग्रामे जनैः सहायतार्थमाहूतो ब्रह्माण्डाधिपतिः परमेश्वरस्तान् पुरुषार्थिनो विधाय तेषां नेतृत्वं कुर्वस्तान् सर्वेभ्यः संकटेभ्यः पारं नीत्वा सुखयति। तथैव राष्ट्राधिपतिः सम्राट् शत्रुभिराक्रान्ते राष्ट्रे प्रजानामाह्वानमुपश्रुत्य दुर्दान्तान् शत्रून् विजित्य तद्धनान्याच्छिद्य प्रजा रक्षेत् ॥७॥
Subject
अथ कीदृशमिन्द्रं वयमाह्वयेम इत्याह।
Footnote
१. ऋ० ३।३०।२२; ३१।२२; ३२।१७; ३४।११; ३५।११; ३६।११; ३८।१०; ३९।९; ४३।८; ४८।५; ४९।५; ५०।५; १०।८९।१८ ऋषिः रेणुः, १०४।११ ऋषिः अष्टको वैश्वामित्रः। अथ० २०।११।११। सर्वत्र ‘धनानि’ इत्यत्र ‘धनानाम्’ इति पाठः।