Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 328

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣡ वो꣢ म꣣हे꣡ म꣢हे꣣वृ꣡धे꣢ भरध्वं꣣ प्र꣡चे꣢तसे꣣ प्र꣡ सु꣢म꣣तिं꣡ कृ꣢णुध्वम् । वि꣡शः꣢ पू꣣र्वीः꣡ प्र च꣢꣯र चर्षणि꣣प्राः꣢ ॥३२८॥

प्र꣢ । वः꣣ । महे꣢ । म꣣हेवृ꣡धे꣢ । म꣣हे । वृ꣡धे꣢꣯ । भ꣣रध्वम् । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । प्र꣢ । सु꣣मति꣢म् । सु꣣ । मति꣢म् । कृ꣣णुध्वम् । वि꣡शः꣢꣯ । पू꣣र्वीः꣢ । प्र । च꣣र । चर्षणिप्राः꣢ । चर्षणि । प्राः꣢ ॥३२८॥

Mantra without Swara
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । विशः पूर्वीः प्र चर चर्षणिप्राः ॥

प्र । वः । महे । महेवृधे । महे । वृधे । भरध्वम् । प्रचेतसे । प्र । चेतसे । प्र । सुमतिम् । सु । मतिम् । कृणुध्वम् । विशः । पूर्वीः । प्र । चर । चर्षणिप्राः । चर्षणि । प्राः ॥३२८॥

Samveda - Mantra Number : 328
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः (वः) यूयम् (महेवृधे२) महे तेजसे वर्धयति जनान् यः सः महेवृत् तस्मै। अत्र मह-उपपदात् वृध धातोर्णिजन्तात् क्विप् प्रत्ययः। बाहुलकात् चतुर्थ्या अलुक्। कृदुत्तरपदप्रकृतिस्वरः। (महे) पूजनीयाय इन्द्राय जगदीश्वराय। मह पूजायाम् धातोः क्विपि चतुर्थ्येकवचने रूपम्। (प्र भरध्वम्) पूजोपहारम् आनयत। (प्रचेतसे) प्रकृष्टज्ञानाय तस्मै (सुमतिम्३) शोभनां स्तुतिम् (प्र कृणुध्वम् प्रकुरुत। अथ प्रत्यक्षस्तुतिः। हे इन्द्र परमात्मन् ! (चर्षणिप्राः४) चर्षणयो मनुष्यास्तान् प्राति पूरयति यस्तादृशः त्वम्। चर्षणिरिति मनुष्यनाम। निघं० २।३। प्रा पूरणे अदादिः, कृदुत्तरपदप्रकृतिस्वरः। (पूर्वाः) श्रेष्ठाः (विशः) प्रजाः (प्रचर) धनधान्यगुणगणादिभिः पूरयितुं प्राप्नुहि। चर गतिभक्षणयोः, भ्वादिः ॥६॥ अत्र ‘महे, महे’ इत्यत्र यमकम्। प्र इत्यस्य पञ्चकृत्व आवृत्तेर्वृत्त्यनुप्रासः, ‘ध्वम्, ध्वम्’, ‘चर, चर्’ इत्यत्र च छेकानुप्रासः ॥६॥
Essence
महार्घपूजोपहारेण सत्कृतो महामहिमशाली जगदीश्वरः स्तोतॄन् विविधैराध्यात्मिकैर्भौतिकैश्चैश्वर्यैः प्रपूरयति ॥६॥
Subject
अथ पुनः परमात्मस्तुतिविषयमाह।
Footnote
१. ऋ० ७।३१।१०, अथ० २०।७३।३ उभयत्र ‘महेवृधे’ ‘चर’ इत्यस्य स्थाने महिवृधे ‘चरा’ इति पाठः। २. महेवृधे महतां यजमानानां वर्धयितुरिन्द्रस्यार्थाय—इति वि०। महतां धनानां वर्धयित्रे—इति भ०, सा०। ३. मन्यते इत्यर्चतिकर्मा—शोभनां स्तुतिम्—इति वि०। ४. चर्षणयो मनुष्याः तेषां पूरयिता चर्षणिप्राः। इन्द्रविशेषणमेतत् सम्बुद्ध्यन्तम्। धनेन मनुष्याणां पूरयितः। छान्दसत्वान्निघाताभावः—इति वि०।