Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 327

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गोतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
मे꣣डिं꣡ न त्वा꣢꣯ व꣣ज्रि꣡णं꣢ भृष्टि꣣म꣡न्तं꣢ पुरुध꣣स्मा꣡नं꣢ वृष꣣भ꣢ꣳ स्थि꣣र꣡प्स्नु꣢म् । क꣣रो꣢꣯ष्यर्य꣣स्त꣡रु꣢षीर्दुव꣣स्यु꣡रिन्द्र꣢꣯ द्यु꣣क्षं꣡ वृ꣢त्र꣣ह꣡णं꣢ गृणीषे ॥३२७

मे꣣डि꣢म् । न । त्वा꣣ । वज्रि꣡ण꣢म् । भृ꣣ष्टिम꣡न्त꣢म् । पु꣣रुधस्मा꣡न꣢म् । पु꣣रु । धस्मा꣡न꣢म् । वृ꣣षभ꣢म् । स्थि꣣र꣡प्स्नु꣢म् । स्थि꣣र꣢ । प्स्नु꣣म् । करो꣡षि꣢ । अ꣡र्यः꣢꣯ । त꣡रु꣢꣯षीः । दु꣣वस्युः꣢ । इ꣡न्द्र꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । वृ꣣त्रह꣡ण꣢म् । वृ꣣त्र । ह꣡न꣢꣯म् । गृ꣣णीषे ॥३२७॥

Mantra without Swara
मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभꣳ स्थिरप्स्नुम् । करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे ॥३२७

मेडिम् । न । त्वा । वज्रिणम् । भृष्टिमन्तम् । पुरुधस्मानम् । पुरु । धस्मानम् । वृषभम् । स्थिरप्स्नुम् । स्थिर । प्स्नुम् । करोषि । अर्यः । तरुषीः । दुवस्युः । इन्द्र । द्युक्षम् । द्यु । क्षम् । वृत्रहणम् । वृत्र । हनम् । गृणीषे ॥३२७॥

Samveda - Mantra Number : 327
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (दुवस्युः) परिचरणेच्छुः। दुवस्यतिः परिचरणकर्मा। निघं० ३।५। अहम् (वज्रिणम्) दुष्टानामुपरि उद्यतदण्डम्, (भृष्टिमन्तम्१) दीप्तिमन्तम्, शत्रुभर्जकतेजोयुक्तमित्यर्थः। भृष्टिः भर्जकं तेजः। भृजी भर्जने धातोः क्तिनि रूपम्। तद्वन्तम्। (पुरुधस्मानम्२) बहूनां धारकम्। दधातेरौणादिको मन् प्रत्ययः धातोश्च धसादेशः। (वृषभम्) सुखादीनां वर्षितारम्, (स्थिरप्स्नुम्३) स्थिररूपम्, स्थिरगुणकर्मस्वभावम् इत्यर्थः। प्सु इति रूपनाम निघं० ३।७। नकारोपजनश्छान्दसः। (द्युक्षम्) द्यां प्रकाशं क्षाययति विवासयति यस्तम् कर्तव्याकर्तव्यप्रकाशप्रदातारमित्यर्थः, (वृत्रहणम्) पापानां हन्तारम् (त्वा) त्वाम् (मेडिं न४) सेचकं, माध्यमिक्या वाच आश्रयभूतं पर्जन्यमिव। मेहति सिञ्चतीति मेडिः पर्जन्यः, मिह सेचने। यद्वा, मेडिरिति वाङ्नामसु पठितम्। निघं० १।१०। इह लक्षणया माध्यमिक्या वाच आश्रयभूतः पर्जन्यो गृह्यते। यथा वर्षार्थी कश्चित् पर्जन्यं भूयो भूयः स्तौति तथेत्यर्थः। (गृणीषे) स्तौमि। गृणातिः अर्चतिकर्मा। निघं० ३।१४। ‘सिब्बहुलं लेटि। अ० ३।१।३४’ इति सिबागमः। लेटि उत्तमैकवचने रूपम्। हे परमात्मन् ! त्वम् (अर्यः५) अरीः प्रजाः। प्रजा वा अरी। श० ३।९।४।२१। प्रजावाचिनः अरीशब्दात् शसि, ‘वा छन्दसि। अ० ६।१।१०६’ इति विकल्पतया पूर्वसवर्णस्य निषेधे तदभावे यणादेशे रूपम्। (तरुषीः) आपत्तरणसमर्थाः शत्रुविनाशसमर्था वा। तॄ प्लवनसंतरणयोरिति धातोर्बाहुलकादौणादिकः उषच् प्रत्ययः, ततो ङीप्। यद्वा तरुष्यतिः हन्तिकर्मा निरु० ५।२। (करोषि) विधत्से ॥५॥ अत्रोपमालङ्कारः। ‘करोष्यर्यस्तरुषीः’ इति कारणवाक्येन स्तवनरूपस्य कार्यस्य समर्थनादर्थान्तरन्यासोऽपि ॥५॥
Essence
यथा वर्षार्थिनः कृषीवला वृष्टिप्रदायकं मेघं पुनः पुनः प्रशंसन्ति, तथैव श्रेष्ठगुणकर्मस्वभावः सुखसमृद्धिवर्षकः परमेश्वरः सर्वैः प्रशंसनीय उपासनीयश्च ॥५॥
Subject
अथ कीदृशं परमात्मानमहं कमिव स्तौमीत्याह।
Footnote
१. भृष्टिः भ्राजतेः दीप्तिकर्मणो रूपम्। दीप्तिमन्तम्—इति भ०। शत्रूणां भर्जनवन्तम्—इति सा०। २. पूर्विति धननाम। धस्मानमिति धसि सहने इत्यस्येदं रूपम्। धनानां सहनशीलम्—इति वि०। दधातेर्धस्मा। पुरूणां बहूनां विश्वेषां धारकम्—इति भ०। बहूनाम् उदकानां धारकम्। यद्वा वर्णव्यत्ययः। पुरूणां बहूनां दासयितारं शत्रूणां क्षपयितारम्—इति सा०। ३. स्थिरः चिरन्तनः स्थविरश्चासौ प्स्नुश्च, तं स्थिरप्स्नुम्, चिरन्तनं हविषां भक्षयितारमित्यर्थः—इति वि०। प्सु इति रूपनाम। तत्र नकार उपजनः। स्थिरदेहम्—इति भ०। स्थिररूपम्—इति सा०। ४. मेडिरिति वाङ्नाम। अन्तर्णीतमत्वर्थं द्रष्टव्यम्। मेडिमन्तम् वाग्मिनमित्यर्थः—इति वि०। मेडिं न वाचमिव। यथा वाचं सरस्वतीं स्तुवन्ति तथा—इति भ०। माध्यमिकीं वृष्टिप्रदां वाचमिव, तां यथा वृष्ट्यर्थं स्तुवन्ति तद्वत्—इति सा०। ५. यस्त्वं करोषि अर्यः ईश्वरः, तरुषीः, तरुष्यतिः वधकर्मा, वधेन सङ्ग्रामो लक्ष्यते, सङ्ग्राममित्यर्थः—इति वि०। अर्यः अरीः, आर्यकर्मसु स्थिताः यज्वानः, तत्सम्बन्धिनीः प्रजाः तरुषीः आपदां तारिकाः करोषि—इति भ०। अर्यः अरीन् अस्मद्विरोधिनः तरुषीः तारकान् जेतॄनस्मान् करोषि। यद्वा तरुषीः तरणस्वभावान्। पक्षद्वयेऽपि लिङ्गव्यत्ययः। अर्यः अरीनस्माकं शत्रून् करोषि, उपक्षीणानिति शेषः—इति सा०।