Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 326

1875 Mantra
Devata- इन्द्रः Rishi- द्युतानो मारुतः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्व꣢ꣳ ह꣣ त्य꣢त्स꣣प्त꣢भ्यो꣣ जा꣡य꣢मानोऽश꣣त्रु꣡भ्यो꣢ अभवः꣣ श꣡त्रु꣢रिन्द्र । गू꣣ढे꣡ द्यावा꣢꣯पृथि꣣वी꣡ अन्व꣢꣯विन्दो विभु꣣म꣢द्भ्यो꣣ भु꣡व꣢नेभ्यो꣣ र꣡णं꣢ धाः ॥३२६॥

त्व꣢म् । ह꣣ । त्य꣢त् । स꣣प्त꣡भ्यः꣢ । जा꣡य꣢꣯मानः । अशत्रु꣡भ्यः꣢ । अ꣣ । शत्रु꣡भ्यः꣢ । अ꣣भवः । श꣡त्रुः꣢꣯ । इ꣣न्द्र । गूढे꣡इति꣢ । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । अ꣡नु꣢꣯ । अविन्दः । विभुम꣡द्भ्यः꣢ । वि꣣ । भुम꣡द्भ्यः꣢ । भु꣡व꣢꣯नेभ्यः । र꣡ण꣢꣯म् । धाः꣣ ॥३२६॥

Mantra without Swara
त्वꣳ ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥

त्वम् । ह । त्यत् । सप्तभ्यः । जायमानः । अशत्रुभ्यः । अ । शत्रुभ्यः । अभवः । शत्रुः । इन्द्र । गूढेइति । द्यावा । पृथिवीइति । अनु । अविन्दः । विभुमद्भ्यः । वि । भुमद्भ्यः । भुवनेभ्यः । रणम् । धाः ॥३२६॥

Samveda - Mantra Number : 326
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) शूर परमात्मन् ! (त्वम् ह) त्वं खलु (त्यत्) तत्, अग्रे प्रोच्यमानं महत् कर्म कृतवानिति शेषः। किं तत् कर्म इत्युच्यते। (जायमानः) उपासकस्य हृदये प्रकटीभवन् त्वम् (अशत्रुभ्यः) न विद्यते त्वद्भिन्नः कोऽपि शत्रुः शातयिता येषां तेभ्यः (सप्तभ्यः) कामक्रोधलोभमोहमदमत्सरदुर्वचनरूपेभ्यः सप्तसंख्यकेभ्यः२ असुरेभ्यः, तान् हन्तुमित्यर्थः, तेषाम् (शत्रुः) रिपुः (अभवः) अजायथाः। किं च, त्वमेव (गूढे) कारणावस्थायां निलीने (द्यावापृथिवी) द्युलोकं पृथिवीलोकं च (अन्वविन्दः) कार्यावस्थायाम् अलभथाः। एवम् (विभुमद्भ्यः भुवनेभ्यः) वैभवयुक्तानि भुवनानि जनयितुमित्यर्थः ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ अ० २।३।१४ इति चतुर्थी। (रणं) संङ्ग्रामं (धाः) कृतवानसि। यथा संग्रामे शौर्यं प्रयुज्यते तथैव शौर्यं प्रयुज्य त्वं प्रकृतेर्महत्तत्वं, महतोऽहङ्कारम्, अहङ्कारात् पञ्चतन्मात्राणि मनःसहितानि दशेन्द्रियाणि च, पञ्चतन्मात्रेभ्यः पञ्चभूतानि, पञ्चभूतेभ्यश्च द्यावापृथिव्यादीनि लोकलोकान्तराणि प्रजाश्च जनयामासिथेति विज्ञेयम्। उत्तरोत्तरं सृष्ट्यर्थँ महदाद्युत्पादयितुं प्रकृत्यादौ परमात्मद्वारा यो विक्षोभः क्रियते स एवात्र रणसंज्ञायाऽभिहितः ॥४॥
Essence
परमात्मैव कामक्रोधादीन् अन्तःशत्रून् हिनस्ति, तेनैव प्रकृतेर्गर्भान्महदादिक्रमेण विविधवैचित्र्ययुक्ता सूर्यनक्षत्रग्रहोपग्रहादिलोक- लोकान्तरविभक्ता, स्वेदजाण्डजोद्भिज्जजरायुजजीवजन्तुवृक्षवनस्पत्यादि- समृद्धा गिरिनिर्झरसरित्सरोवरसागराद्यलंकृता सृष्टिजनितेति तद्गौरवं मुक्तकण्ठेनास्माभिर्गेयम् ॥४॥
Subject
अथ परमात्मनो महान्ति कर्माणि वर्ण्यन्ते।
Footnote
१. ऋ० ८।९६।१६, अथ० २०।१३७।१०, उभयत्र ऋषिः तिरश्चीर्द्युतान आङ्गिरसो वा। २. इन्द्रेण क्रियमाणः सप्तासुराणां वधः ऋग्वेदे एवं प्रोक्तः—उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्। सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥—ऋ० ७।१०४।२२, समिन्द्र गर्दभं मृण नुवन्तं पापयामुया ॥—ऋ० १।२९।५ इति।