Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 325

1875 Mantra
Devata- इन्द्रः Rishi- बृहदुक्थ्यो वामदेव्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वि꣣धुं꣡ द꣢द्रा꣣ण꣡ꣳ सम꣢꣯ने बहू꣣ना꣡ꣳ युवा꣢꣯न꣣ꣳ स꣡न्तं꣢ पलि꣣तो꣡ ज꣢गार । दे꣣व꣡स्य꣢ पश्य꣣ का꣡व्यं꣢ महि꣣त्वा꣢꣫द्या म꣣मा꣢र꣣ स꣡ ह्यः समा꣢꣯न ॥३२५॥

वि꣣धु꣢म् । वि꣣ । धु꣢म् । द꣣द्राण꣢म् । स꣡म꣢꣯ने । सम् । अ꣣ने । बहूना꣢म् । यु꣡वा꣢꣯नम् । स꣡न्त꣢꣯म् । प꣣लितः꣢ । ज꣣गार । देव꣡स्य꣢ । प꣣श्य । का꣡व्य꣢꣯म् । म꣣हित्वा꣢ । अ꣣द्या꣢ । अ꣣ । द्य꣢ । म꣣मा꣡र꣢ । सः । ह्यः । सम् । आ꣣न ॥३२५॥

Mantra without Swara
विधुं दद्राणꣳ समने बहूनाꣳ युवानꣳ सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥

विधुम् । वि । धुम् । दद्राणम् । समने । सम् । अने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार । देवस्य । पश्य । काव्यम् । महित्वा । अद्या । अ । द्य । ममार । सः । ह्यः । सम् । आन ॥३२५॥

Samveda - Mantra Number : 325
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—चन्द्रसूर्यपरः। (समने) तमोभिः सह संग्रामे। समनम् इति संग्राम- नाम। निघं० २।१७। समनं समननाद् वा संमाननाद् वा। निरु० ७।१७। (बहूनाम्) अनेकेषां तमोरूपाणाम् शत्रूणाम् (दद्राणम्) विदारकम्।  विदारणे धातोः लिटः कानच्। यद्वा (बहूनाम्) अनेकेषां नक्षत्राणाम् (समने) समूहे स्थितम् (दद्राणम्) पृथिवीं परितः स्वधुरि च भ्रमन्तम् (विधुम्) चन्द्रमसम् (युवानं सन्तम्) तरुणमपि सन्तम्, पूर्णिमायां पूर्णप्रकाशयुक्तं जायमानम् अपि (पलितः) वृद्धः पलितकिरणकेशः सूर्यः (जगार) निगीर्णवान् अस्ति, पूर्णिमायां व्यतीतायां प्रतिपत्तिथित आरभ्य शनैः शनैरनुदिनमेकैकां कलां निगिरन्नमावस्यायां पूर्णतो निगीर्णवानिति भावः। गॄ निगरणे, लडर्थे लिट्। (देवस्य) क्रीडाकर्तुः इन्द्रस्य परमेश्वरस्य। दीव्यति क्रीडतीति देवः। दिवु क्रीडाद्यर्थः। (महित्वा) महत् अत्र महद्वाचिनो महि शब्दात् स्वार्थे त्व प्रत्ययः। ततः ‘सुपां सुलुक्०’ इति द्वितीयैकवचनस्य आकारादेशः। (काव्यम्) जगद्रूपं दृश्यकाव्यम् (पश्य) निभालय, यः (ह्यः) गतदिवसे (समान) सम्यक् प्राणिति स्म, (सः) असौ (अद्य) अस्मिन् दिने। संहितायां निपातत्वाद् दीर्घः। (ममार) मृतः शेते२ ॥ चन्द्रमा हि सूर्यप्रकाशेन प्रकाशते। पृथिवीं परितश्चन्द्रस्य परिभ्रमणाद्धेतोस्तस्य यावान् भागः पृथिव्यन्तर्हितस्तावति सूर्यस्य प्रकाशो न निपतति। अतः सोऽप्रकाशित एव तिष्ठति। अमावस्यायां चन्द्रसूर्ययोर्मध्ये पृथिव्यागमनात् सूर्यरश्मयश्चन्द्रमसं सर्वथा न स्पृशन्तीति चन्द्रस्तस्यां रात्रौ सर्वथा न दृश्यते। तदेव वेदकाव्यस्य कविरेवं वर्णयति यत्सूर्यश्चन्द्रमसं निरितीति ॥ अथ द्वितीयः—अध्यात्मपरः। (समने) सम्यग् अनिति प्राणिति इति समनं शरीरं तस्मिन् (बहूनाम्) अनेकेषां ज्ञानेन्द्रियाणाम् (दद्राणम्) स्वेषु स्वेषु विषयेषु प्रवर्तकम्। द्रातिः गतिकर्मा। निघ० २।१४। (विधुम्) ज्ञानसाधनं मनः। विदधाति ज्ञानमिति विधुश्चन्द्रः। चन्द्रमा मनः ऐ० आ० २।१।५ इति प्रामाण्यात्। (युवानं सन्तम्) जाग्रदवस्थायां तरुणवत् पूर्णशक्तिमन्तमपि वर्तमानम् (पलितः) अनादित्वाद् वृद्धः आत्मा (जगार) निगिरति रात्रौ सुषुप्त्यवस्थायाम्, सुषुप्तौ सर्वस्यापि मनोव्यापारविजृम्भणस्य शान्तत्वात्। उक्तं च प्रश्नोपनिषदि—स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते’ इति। ४।७। (देवस्य) प्रकाशकस्य इन्द्रस्य जीवात्मनः (महित्वा) महत् (काव्यम्) जननजीवनमरणाद्यात्मकम् (पश्य) अवलोकय। (अद्य) अस्मिन् दिने, यः (ममार) मृतोऽस्ति (सः) असौ (ह्यः) पूर्वेद्युः (समान) प्राणिति स्म। सर्वमिदं जीवात्मन एव क्रीडाविलसितम्। एवमेवाग्रेऽपि जीवात्मा पुनर्जन्म प्राप्य सदेहः सन् देहेन प्राणिष्यति मरिष्यति च ॥३॥ ऋचमिमां यास्काचार्य एवं व्याख्यातवान्—विधुं विधमनशीलं दद्राणं दमनशीलं युवानं चन्द्रमसं पलित आदित्यो जगार गिरति, स ह्यो म्रियते, स दिवा समुदितेत्यधिदैवतम्। अथाध्यात्मम्—विधुं विधमनशीलं दद्राणं दमनशीलं युवानम् महान्तम् पलित आत्मा गिरति रात्रौ म्रियते रात्रिः समुदितेत्यात्मगतिमाचष्टे। निरु० १४।१८ ॥ अत्र ‘अद्या ममार स ह्यः समान’ इति सामान्यस्य विशेषेण विधुनिगरणेन समर्थनादर्थान्तरन्यासोऽलङ्कारः। ‘युवानं सन्तं पलितो जगार’ इति विरूपसंघटनारूपो विषमालंकारः ॥३॥३
Essence
जगत्यस्मिन् शक्तिमतामपि मृत्युर्निश्चित इति मत्वा सर्वैर्धर्मकर्मसु मनो निवशनीयम् ॥३॥
Subject
अथ जन्मधारिणां मृत्युर्ध्रुव इत्याह।
Footnote
१. ऋ० १०।५५।५। साम० १७८२। अथ० ९।१०।९, ऋषिः ब्रह्मा, देवता गौः, विराट्, अध्यात्मम्, ‘समने बहूनां’ इत्यत्र ‘सलिलस्य पृष्ठे’ इति पाठः। २. विधुम् वृष्टिप्रदानादिना उपकरणेन सर्वजगतः धारयितारम् इन्द्रम् दद्राणं दारयितारम्, समने संग्रामे, बहूनां शत्रूणाम्, युवानं सन्तं पलितः वृद्धः अहं जगार, गॄ स्तुतौ इत्यस्य उत्तमपुरुषैकवचनमिदम्, स्तौमीत्यर्थः—इति वि०। विधुं विधातारं कर्मणाम्। दद्राणं द्रावकं बहूनां शत्रूणाम्, समने संग्रामे, युवानं सन्तं पलितः पलितं जरा, जगार गिरति ग्रसति। अपर आह—विधुं चन्द्रमसं दद्राणं द्रावकं गच्छन्तं समने समूहे बहूनां स्थितं तं युवानं पूर्णं सन्तं पलितो वृद्धो राहुः जगार ग्रसति—इति भ०। विधुं विधातारं सर्वस्य युद्धादेः कर्तारं, विपूर्वो दधातिः करोत्यर्थे, तथा समने, अननम् अनः प्राणनं सम्यगननोपेते संग्रामे, बहूनां शत्रूणां, दद्राणं द्रावकम् ईदृक्सामर्थ्योपेतमपि युवानं सन्तम् पलितो जगार निगिरति इन्द्रकृपया। ....यो जरां प्राप्तोऽद्य ममार म्रियते स ह्यः परेद्युः समानः सम्यग् जीवति पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थः—इति सा०। ३. विरूपयोः संघटना या च तद्विषमं मतम्। सा० द० १०।७० इति तल्लक्षणात्।