Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 324

1875 Mantra
Devata- इन्द्रः Rishi- द्युतानो मारुतः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
वृ꣣त्र꣡स्य꣢ त्वा श्व꣣स꣢था꣣दी꣡ष꣢माणा꣣ वि꣡श्वे꣢ दे꣣वा꣡ अ꣢जहु꣣र्ये꣡ सखा꣢꣯यः । म꣣रु꣡द्भि꣢रिन्द्र स꣣ख्यं꣡ ते꣢ अ꣣स्त्व꣢थे꣣मा꣢꣫ विश्वा꣣: पृ꣡त꣢ना जयासि ॥३२४॥

वृ꣣त्र꣡स्य꣢ । त्वा꣣ । श्वस꣡था꣢त् । ई꣡ष꣢꣯माणाः । वि꣡श्वे꣢꣯ । दे꣣वाः꣢ । अ꣣जहुः । ये꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । मरु꣡द्भिः꣢ । इ꣣न्द्र । सख्य꣢म् । स꣣ । ख्य꣢म् । ते꣣ । अस्तु । अ꣡थ꣢꣯ । इ꣣माः꣢ । वि꣡श्वाः꣢꣯ । पृ꣡त꣢꣯नाः । ज꣣यासि ॥३२४॥

Mantra without Swara
वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वा: पृतना जयासि ॥

वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः । स । खायः । मरुद्भिः । इन्द्र । सख्यम् । स । ख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥३२४॥

Samveda - Mantra Number : 324
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—अध्यात्मपरः। देवासुरसंग्रामे स्वकीयमात्मानं विश्वैः परित्यक्तसख्यमेकाकिनं दृष्ट्वा ब्रूते—(वृत्रस्य) तमोगुणप्रधानतया जनितस्य कामक्रोधादिरूपस्य वृत्रासुरस्य (श्वसथात्) प्रश्वासात् फुंकारात्; प्राबल्यादित्यर्थः। श्वस प्राणने इति धातोर्बाहुलकादौणादिकः अथप्रत्ययः। (ईषमाणाः) भयात् पलायमानाः। ईषते भीतः पलायते। निरु० ४।२। (विश्वेदेवाः२) प्रकाशकानि सर्वाणि चक्षुःश्रोत्रादीनि इन्द्रियाणि (त्वा) त्वां जीवात्मानम् (अजहुः) अत्यजन्, (ये) यानि इन्द्रियाणि, पूर्वं तव (सखायः) मित्रभूतानि आसन्। हे (इन्द्र) जीवात्मन् ! (मरुद्भिः) प्राणैः (ते) तव (सख्यम्) सखित्वम् (अस्तु) भवतु। (अथ) मरुद्भिः सख्यस्थापनानन्तरम्, त्वम् (इमाः) एताः पुरो दृश्यमानाः (विश्वाः) समस्ताः (पृतनाः) कामक्रोधादिरिपूणां सेनाः (जयासि) जय। जि जये धातोर्लेटि रूपम् ॥ अत्र वृत्रवधाख्याने ऐतरेयब्राह्मणमाह—तं हनिष्यन्त आद्रवन्। सोऽवेन्मां वै हनिष्यन्त आद्रवन्ति। हन्त इमान् भीषया इति। तानभि प्राश्वसीत्। तस्य श्वसथादीषमाणा। विश्वेदेवा अद्रवन्। मरुतो हैनं नाजहुः। प्रहर भगवो जहि वीरयस्व इत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त। तदेतद् ऋषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा इति (ऐ० ब्रा० ३।२०) ॥ एतन्मन्त्रार्थं छान्दोग्योपनिषत्कथापि विवृणोति। तथाहि—“देवासुरा ह वै यत्र संयेतिरे, उभये प्राजापत्याः। तद्ध देवा उद्गीथमाजह्रुः अनेन एनान् अभिभविष्याम इति। ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे। ते हासुराः पाप्मना विविधुः, तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च, पाप्मना ह्येष विद्धः। अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे। तां हासुराः पाप्मना विविधुः। तस्मात् तया उभयं वदति सत्यं चानृतं च। पाप्मना ह्येषा विद्धा। अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे। तद्धासुराः पाप्मना विविधुः। तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च। पाप्मना ह्येतद् विद्धम्। अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे। तद्धासुराः पाप्मना विविधुः। तस्मात् तेनोभयं शृणोति, श्रवणीयं चाश्रवणीयं च। पाप्मना ह्येतद् विद्धम्। अथ ह मन उद्गीथमुपासाञ्चक्रिरे। तद्धासुराः पाप्मना विविधुः। तस्मात् तेनोभयं संकल्पयते, संकल्पनीयं चासंकल्पनीयं च। पाप्मना ह्येतद् विद्धम्। अथ य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे। तं ह्यसुरा ऋत्वा विदध्वंसुः यथाश्मानमाखणम् ऋत्वा विध्वंसेत्। एवं यथाश्मानमाखणम् ऋत्वा विध्वंसते। एवं हैव स विध्वंसेत य एवंविदि पापं कामयते, यश्चैनमभिदासति। स एषोऽश्माखणः। छा० उ० १।२।१-८ इति। अनया कथया ज्ञायते यत् चक्षुःश्रोत्रादीनि इन्द्रियाणि आत्मनो वस्तुतः सहायकानि न सन्ति, मुख्यस्य प्राणस्यैव साहाय्येन स कामक्रोधाद्यसुरान् पराजेतुं क्षमते ॥ अथ द्वितीयः—राष्ट्रपरः। संग्रामे प्रजाजनैः परित्यक्तम् एकाकिनं राजानं राजमन्त्री ब्रूते—(वृत्रस्य) अत्याचारिणः शत्रोः (श्वसथात्) विनाशकात् शस्त्रास्त्रसमूहात्। श्वसितिः हन्तिकर्मा। निघं० २।१९। (ईषमाणाः) भयात् पलायमानाः (विश्वे देवाः) सर्वे प्रजाजनाः (त्वा) त्वां राजानम् (अजहुः) पर्यत्याक्षुः, (ये) प्रजाजनाः पूर्वं युद्धेऽनुपस्थिते (सखायः) तव मित्रभूताः अभूवन्। हे (इन्द्र) राजन् ! (मरुद्भिः) वीरैः क्षत्रियसैनिकैः (ते) तव (सख्यम्) सखित्वम् (अस्तु) भवतु, (अथ) तदनन्तरम्, त्वम् (इमाः) पुरतः उपस्थिताः (विश्वाः) सर्वाः (पृतनाः) सङ्ग्रामकारिणीः शत्रुसेनाः (जयासि) विजयस्व ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
उपस्थिते संङ्ग्रामकाले सङ्ग्रामकुशलाः शूराः क्षत्रिया योद्धार एव रिपुदलेन संघर्षं कर्तु पारयन्ति। तथैवाभ्यन्तरे देवासुरसंग्रामे प्राणा जीवात्मनः सहायका भवन्ति ॥२॥
Subject
अथेन्द्रो वृत्रस्य सेनाः कथं जयेदित्याह।
Footnote
१. ऋ० ८।९६।७, ऋषिः तिरश्चीराङ्गिरसः द्युतानो वा मारुतः। २. ‘नैनद्देवा आप्नुवन् पूर्वमर्षत्। य० ४०।४ अत्र देवशब्देन मनःषष्ठानि श्रोत्रादीनीन्द्रियाणि गृह्यन्ते। तेषां शब्दस्पर्शरूपरसगन्धानां सत्यासत्ययोश्चार्थानां द्योतकत्वात् तान्यपि देवाः’ इति ऋ० भा० भूमिकायां वेदविषयविचारे दयानन्दः।