Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 323

1875 Mantra
Devata- इन्द्रः Rishi- द्युतानो मारुतः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡व꣢ द्र꣣प्सो꣡ अ꣢ꣳशु꣣म꣡ती꣢मतिष्ठदीया꣣नः꣢ कृ꣣ष्णो꣢ द꣣श꣡भिः꣢ स꣣ह꣡स्रैः꣢ । आ꣢व꣣त्त꣢꣫मिन्द्रः꣣ श꣢च्या꣣ ध꣡म꣢न्त꣣म꣢प꣣ स्नी꣡हि꣢तिं नृ꣣म꣡णा꣢ अध꣣द्राः꣢ ॥३२३॥

अ꣡व꣢꣯ । द्र꣣प्सः꣢ । अ꣣ऽशुम꣡ती꣢म् । अ꣣तिष्ठत् । ईयानः꣢ । कृ꣣ष्णः꣢ । द꣣श꣡भिः꣢ । स꣣ह꣡स्रैः꣢ । आ꣡व꣢꣯त् । तम् । इ꣡न्द्रः꣢꣯ । श꣡च्या꣢꣯ । ध꣡म꣢꣯न्तम् । अ꣡प꣢꣯ । स्नी꣡हि꣢꣯तिम् । नृ꣣म꣡णाः꣢ । नृ꣣ । म꣡नाः꣢꣯ । अ꣣धत् । राः꣢ ॥३२३॥

Mantra without Swara
अव द्रप्सो अꣳशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः । आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः ॥

अव । द्रप्सः । अऽशुमतीम् । अतिष्ठत् । ईयानः । कृष्णः । दशभिः । सहस्रैः । आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नीहितिम् । नृमणाः । नृ । मनाः । अधत् । राः ॥३२३॥

Samveda - Mantra Number : 323
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(द्रप्सः) जलबिन्दुः, जलबिन्दुवद् अणुरूपो जीवात्मा इत्यर्थः (अंशुमतीम्२) अंशवः चक्षुरादीन्द्रियाणि प्राणो मनश्च तद्वतीं देहपुरीम्। प्राण एवांशुः, चक्षुरेवांशुः। मनो ह वांशुः। श० ११।५।९।२। (अव-अतिष्ठत्) प्राप्नोति, संचितकर्मणां फलानि भोक्तुं, नूतनानि कर्माणि च कर्तुं परमात्मना प्रेरितः देहपुरीम् आगच्छतीति भावः। (कृष्णः) कृष्णवर्णसूचितः तमोगुणः (दशभिः सहस्रैः) दशसहस्रसंख्यकैः योद्धृभिः बहुभिः सगणैः कामक्रोधलोभमोहमदमत्सरादिरिपुभिरित्यर्थः, तम् देहाधिष्ठितम् आत्मानम् (इयानः) आक्रामन् भवति। ईङ् गतौ इत्यस्माल्लिटि ‘लिटः कानज् वा’ अ० ३।२।१०६ इति कानचि रूपम्। ततः (धमन्तम्) विविधां गतिं हिंसां वा कुर्वाणं, बहुविधम् उच्छ्वसन्तं वा। धमतिः गतिकर्मा वधकर्मा च। निघं० २।१४, २।१९। यद्वा ध्मा शब्दाग्निसंयोगयोः इति धातोः ‘पाघ्राध्मा०’ अ० ७।३।७८ इत्यनेन धमादेशे रूपम्। (तम्) ससैन्यं कृष्णं तमोगुणम् (इन्द्रः) जीवात्मनः सहायकः परमैश्वर्यवान् परमात्मा (शच्या) प्रज्ञया कर्मणा च। शचीति प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (आवत्) प्राप्नोति। अवतेर्गत्यर्थस्य लङि रूपम्। ततः (नृमणाः) नृषु सत्पुरुषेषु मनः ध्यानं प्रेम वा यस्य तादृशः स इन्द्रः परमात्मा (स्नीहितिम्) तस्य कृष्णाख्यस्य तमोगुणस्य हिंसित्रीं शत्रुसेनाम्। स्नेहयतिः वधकर्मा। निघं० २।१९। (अप) अपगमय्य। उपसर्गमात्रप्रयोगे योग्यक्रियाध्याहारो भवतीति वैदिकी शैली। तस्मिन्नात्मनि (राः३) रायः सद्गुणरूपसम्पत्तीः (अधत्) दधाति। दधातेर्लुङि, आकारस्य ह्रस्वत्वम् छान्दसम्। अस्मिन् मन्त्रे अवातिष्ठत्, आवत्, अधत् इति भूतकालप्रयोगः ‘छन्दसि लुङ्लङ्लिटः’ अ० ३।४।६ इति नियमेन सार्वकालिको ज्ञेयः। यदा यदा देहधारिणं जीवात्मानं तमोगुणरूपः कृष्णासुरः आक्रामति, तदा तदा इन्द्रः परमात्मा तं तस्मादुद्धरतीत्यर्थः ॥१॥
Essence
देहाधिष्ठितं जीवात्मानं कामक्रोधादयोऽनेके दानवाः पीडयितुमागच्छन्ति, येषां पराभवस्तेन स्वपुरुषार्थद्वारा परमात्मसाहाय्येन च कर्त्तव्यः, तदैव स आध्यात्मिकानि भौतिकानि चैश्वर्याणि प्राप्तुमर्हति ॥१॥ अस्मिन् मन्त्रे ऐतिहासिकमर्थमाविष्कुर्वन् सायण एवमाह—“अत्रेतिहासमाचक्षते। पुरा किल कृष्णो नामासुरो दशसहस्रसंख्यकैरसुरैः परिवृतः सन् अंशुमतीनामधेयाया नद्यास्तीरे अतिष्ठत्। तत्र तं कृष्णम् उदकमध्ये स्थितम् इन्द्रो बृहस्पतिना सहागच्छत्। आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायो जघानेति४।” तत्सर्वं वृत्तमप्रामाणिकमेव, वेदेषु लौकिकेतिहासस्यासद्भावात्। अस्येतिहासस्याध्यात्मिकम् आधिदैविकम् अधियज्ञम् अधिभूतं वा व्याख्यानं चेत् क्रियते तदा तु समञ्जसमेव, यथास्माभिः स्वव्याख्यानेऽध्यात्मदिक् प्रपञ्चिता ॥ चतुर्णां वेदानाम् स्वमत्याऽऽङ्ग्लभाषायां सटिप्पणमनुवादको ग्रिफिथमहोदयस्तु टिप्पण्यामेव लिखति यदत्र ‘कृष्णः द्रप्सः’ अन्धकारावृतश्चन्द्रमा वर्तते, अंशुमती चान्तरिक्षस्था काचिद् रहस्यमयी नदी। दशसहस्रसंख्यका असुराः सन्ति अन्धकारदानवाः, येषां वधमनु चन्द्रमा अन्धकारमुक्तो जायते।५ एतत्तस्य व्याहरणम् आधिदैविकीं व्याख्यां संकेतयति ॥
Subject
अथ पापादिरूपैरसुरैराक्रान्तस्य जीवात्मनः कथमुद्धारो भवतीत्याह।
Footnote
१. ऋ० ८।९६।१३, ऋषिः तिरश्चीराङ्गिरसो द्युतानो वा मारुतः। ‘अप स्नेहितीर्नृमणा अधत्तं इति पाठः। २. अंशुमती नाम नदी—इति वि०, भ०। ३. अस्माभिः ‘अधत् राः’ इति पदपाठमनुसृत्य व्याख्यातम्। सायणस्तु ‘अधद्राः’ इत्यस्य स्थाने ‘अपद्राः’ इति मत्वा व्याचष्टे—‘अपद्राः’ द्रातिः कुत्सितगतिकर्मा, सर्वस्य हिंसित्रीं तस्य सेनाम् स इन्द्रः अपगमयत् अवधीदित्यर्थः। विवरणकारस्तु ‘अव’ इत्युपसर्गम् ‘अधत्’ इत्यनेन योजयन् ‘अव अधत् आधत्ते, दधातेर्धारणार्थस्येदं रूपम्, अवरुद्धवानित्यर्थः’ इति व्याख्यातवान्। तेन ‘राः’ इति पदस्य किमपि व्याख्यानं न कृतम्। भरतस्तु ‘अध, द्राः’ इति विच्छिद्य ‘अथ तदानीम् द्राः द्रातिः कुत्सितगतिकर्मा, लुङि रूपम्’, ‘द्राः’ इति। सिप् अन्तर्गतण्यर्थः अपगमयतीत्यर्थः—इति व्याचख्यौ। ४. भरतोऽप्याह—कृष्णनामानम् असुरं च इन्द्रः जघान, तत्प्रकारोऽत्र कीर्त्यते—इति। ५. The Black Drop: the darkened Moon. Ansumatic: A mystical river of the air into which the Moon dips to recover its vanished light. Ten thousand: probably, demons of darkness; the numbers are without a substantive—Griffith.