Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 322

1875 Mantra
Devata- इन्द्रः Rishi- सुहोत्रो भारद्वाजः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡पू꣢र्व्या पुरु꣣त꣡मा꣢न्यस्मै म꣣हे꣢ वी꣣रा꣡य꣢ त꣣व꣡से꣢ तु꣣रा꣡य꣢ । वि꣣रप्शि꣡ने꣢ व꣣ज्रि꣢णे꣣ श꣡न्त꣢मानि꣣ व꣡चा꣢ꣳस्यस्मै꣣ स्थ꣡वि꣢राय तक्षुः ॥३२२॥

अ꣡पू꣢꣯र्व्या । अ । पू꣣र्व्या । पुरुत꣡मा꣢नि । अ꣣स्मै । महे꣢ । वी꣣रा꣡य꣢ । त꣣व꣡से꣢ । तु꣣रा꣡य꣢ । वि꣣रप्शि꣡ने । वि꣣ । रप्शि꣡ने꣢ । व꣣ज्रि꣡णे꣣ । श꣡न्त꣢꣯मानि । व꣡चां꣢꣯ऽसि । अ꣣स्मै । स्थ꣡वि꣢꣯राय । स्थ । वि꣣राय । तक्षुः ॥३२२॥

Mantra without Swara
अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय । विरप्शिने वज्रिणे शन्तमानि वचाꣳस्यस्मै स्थविराय तक्षुः ॥

अपूर्व्या । अ । पूर्व्या । पुरुतमानि । अस्मै । महे । वीराय । तवसे । तुराय । विरप्शिने । वि । रप्शिने । वज्रिणे । शन्तमानि । वचांऽसि । अस्मै । स्थविराय । स्थ । विराय । तक्षुः ॥३२२॥

Samveda - Mantra Number : 322
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्मै) एतस्मै (महे) महते (वीराय) विक्रान्ताय कामादिशत्रुप्रकम्पकाय वा। वीर विक्रान्तौ, यद्वा वि-पूर्वः ईर गतौ कम्पने च। ‘वीरो वीरयत्यमित्रान्, वेतेर्वा स्याद् गतिकर्मणो, वीरयतेर्वा’ इति निरुक्तम् १।७। (तवसे२) बलवते। तवस् इति बलनाम। निघं० २।९। (तुराय३) क्षिप्रकारिणे इन्द्राय परमेश्वराय, किञ्च (अस्मै४) एतस्मै (विरप्शिने५) विशेषेण स्तुत्याय, विशेषेण वेदानां प्रवक्त्रे वा। वि-पूर्वाद् रप व्यक्तायां वाचि इति धातोरिदं रूपम्। (वज्रिणे) वज्रधरायेव दुराचारिणां दण्डयित्रे, (स्थविराय) प्रवृद्धाय चिरन्तनाय पुराणपुरुषाय इन्द्राय परमेश्वराय, स्तोतारः (अपूर्व्या) अपूर्वाणि। अपूर्वशब्दात्, स्वार्थे यत्, ततो द्वितीयाबहुवचने ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लुक्। (पुरुतमानि) अतिशयेन बहूनि, (शन्तमानि) अतिशयेन शान्तिकराणि (वचांसि) स्तोत्राणि (तक्षुः) कुर्वन्ति, रचयन्ति, प्रयुञ्जते वा। तक्षतिः करोतिकर्मा। निरु० ४।१९। लडर्थे लिट्, ततक्षुः इति प्राप्ते द्वित्वाभावश्छान्दसः ॥१०॥ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः। ‘तमान्-तमानि’ ‘वीराय-विराय’, इत्यादौ छेकानुप्रासः। ‘राय’ इत्यस्य त्रिश आवृत्तौ, ‘वीरा-विर-विरा’ इत्यत्र च वृत्त्यनुप्रासः ॥१०॥
Essence
पुराणपुरुषः परमेश्वरो महत्तमो वीरतमो बलवत्तमः क्षिप्रतमः स्तुत्यतमो दुर्जनानां दण्डयितृतमो वयोवृद्धतमो ज्ञानवृद्धतमश्चिरन्तनतमश्चास्ति। बहुभिर्वैदिकैः स्वरचितैरितरमहाकविरचितैश्च स्तोत्रैस्तस्य सपर्या सर्वैर्विधेया ॥१०॥६ अत्रेन्द्रस्य प्रबोधनात्, तद्गुणकर्मवर्णनात्, तद्द्वारा सृष्ट्युत्पत्त्यादिवर्णनात्, तस्य स्तुतिवर्णनाद्, इन्द्रनाम्ना सूर्यनृपत्याचार्यादीनां चापि कर्मवर्णनाद् एतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति ज्ञेयम् ॥ इति चतुर्थे प्रपाठके प्रथमार्द्धे तृतीया दशतिः ॥ इति तृतीयाध्याये नवमः खण्डः ॥
Subject
अथ कीदृशाय परमात्मने के कीदृशानि स्तुतिवचांसि व्याहरेयुरित्याह।
Footnote
१. ऋ० ६।३२।१, ‘वचांस्यासा स्थविराय तक्षम्’ इति पाठः। २. अन्तर्णीतमत्वर्थं च द्रष्टव्यम्। तवसे बलवते इत्यर्थः। इति वि०। ३. तुराय। तुर्वतिर्हिंसार्थः। हिंसित्रे—इति वि०। तुराय त्वरिताय—इति भ०। क्षिप्रकारिणे—इति ऋ० ६।३२।१ भाष्ये द०। ४. अस्मै इति पुनरुक्तिः अर्धर्चभेदादिति भरतः। ५. विरप्शिने विशेषेण स्तुत्याय—इति भ०, सा०। विरप्शिन्निति पदं महन्नामसु पठितम्। निघं० ३।३। ६. ऋग्वेदे दयानन्दर्षिर्मन्त्रमिमं ‘विद्वांसः किं कुर्युः’ इति विषये व्याख्यातवान्।