Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 321

1875 Mantra
Devata- इन्द्रः Rishi- बुहस्पतिर्नकुलो वा Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ब्र꣡ह्म꣢ जज्ञा꣣नं꣡ प्र꣢थ꣣मं꣢ पु꣣र꣢स्ता꣣द्वि꣡ सी꣢म꣣तः꣢ सु꣣रु꣡चो꣢ वे꣣न꣡ आ꣢वः । स꣢ बु꣣꣬ध्न्या꣢꣯ उप꣣मा꣡ अ꣢स्य वि꣣ष्ठाः꣢ स꣣त꣢श्च꣣ यो꣢नि꣣म꣡स꣢तश्च꣣ वि꣡वः꣢ ॥३२१॥

ब्र꣡ह्म꣢꣯ । ज꣣ज्ञान꣢म् । प्र꣢थम꣢म् । पु꣣र꣡स्ता꣢त् । वि । सी꣣मतः꣢ । सु꣣रु꣡चः꣢ । सु꣣ । रु꣡चः꣢꣯ । वे꣣नः꣢ । अ꣣वरि꣡ति꣢ । सः । बु꣣ध्न्याः꣡ । उ꣣पमाः । उ꣣प । माः꣢ । अ꣣स्य । विष्ठाः꣢ । वि꣣ । स्थाः꣢ । स꣣तः꣢ । च꣣ । यो꣡नि꣢꣯म् । अ꣡स꣢꣯तः । अ । स꣣तः । च । वि꣢ । व꣣रि꣡ति꣢ ॥३२१॥

Mantra without Swara
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥

ब्रह्म । जज्ञानम् । प्रथमम् । पुरस्तात् । वि । सीमतः । सुरुचः । सु । रुचः । वेनः । अवरिति । सः । बुध्न्याः । उपमाः । उप । माः । अस्य । विष्ठाः । वि । स्थाः । सतः । च । योनिम् । असतः । अ । सतः । च । वि । वरिति ॥३२१॥

Samveda - Mantra Number : 321
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—आदित्यपक्षे। (प्रथमम्) श्रेष्ठम् (ब्रह्म२) महद् आदित्यलक्षणं ज्योतिः। बृहि वृद्धौ धातोः, ‘बृंहेर्नोऽच्च। उ० ४।१४६’ इति मनिन्, नकारस्य च आकारादेशः। (पुरस्तात्) पूर्वस्यां दिशि (जज्ञानम्) जायमानं वर्तते। जनी प्रादुर्भावे दिवादिः, शानचि छान्दसः शपः श्लुः, तेन द्वित्वम्। (वेनः) कान्तिमान् आदित्यरूपः इन्द्रः। वेनो वेनतेः कान्तिकर्मणः। निरु० १०।३७। असौ आदित्यो वेनः, श० ७।४।१।१४। (सीमतः) सर्वतः मर्यादातो वा (सुरुचः) सुरोचनान् रश्मीन् (वि अवः) रात्रेस्तमसोऽभ्यन्तरात् विवृणोति। संहितायाम् आवः इति दीर्घत्वं छान्दसम्। (सः) असौ आदित्यः (उपमाः) सर्वेषाम् अन्तिकस्थाः। उपमे इत्यन्तिकनाम। निघं० २।१६। (अस्य) एतस्य जगतः (विष्ठाः३) विशेषेण स्थितिसाधिकाः (बुध्न्याः४) बुध्नम् अन्तरिक्षं, (तत्र) भवाः बुध्न्याः दिशः (विवः) स्वप्रकाशेन विवृणोति। किञ्च (सतः च) व्यक्तस्य, कार्यात्मना परिणतस्य (असतः च) अव्यक्तस्य, कारणे निलीनस्य च वस्तुजातस्य (योनिम्) गृहं, भूमण्डलमित्यर्थः। योनिरिति गृहनाम। निघं० ३।४। (विवः) विवृणोति प्रकाशयति। ‘वि अवः, विवः’ इत्यत्र वि पूर्वाद् वृञ् वरणे धातोर्लुङि ‘मन्त्रे घसह्वरणशवृ०। अ० २।४।८०’ इति च्लेर्लुक्, पक्षे छान्दसः अडभावः। लडर्थे लुङ्प्रयोगः ॥ अत्र यास्काचार्यः ‘सीम्’ इत्येतस्य निपातस्य प्रकरणे ब्रूते—सीम् इति परिग्रहार्थीयो वा पदपूरणो वा। ‘विसीमतः सुरुचो वेन आवः’ इति च। व्यवृणोत् सर्वत आदित्यः। सुरुच आदित्यरश्मयः सुरोचनात्। अपि वा सीम् इत्येतद् अनर्थकम् उपबन्धमाददीत पञ्चमीकर्माणम्। सीम्नः सीमतः मर्यादातः। सीमा मर्यादा विसीव्यति देशाविति। निरु० १।६ ॥ अथ द्वितीयः—परमात्मपक्षे। (प्रथमम्) श्रेष्ठम् (ब्रह्म) जगदादिकारणं परं ब्रह्म (पुरस्ताद्) पूर्वं सृष्ट्यादौ (जज्ञानम्५) प्रकृतिगर्भाद् महदादिजगत्प्रपञ्चस्य जनकम् अभवत्। यो जनयामास तद् जज्ञानम्, णेर्लुक्। (वेनः) मेधावी स इन्द्रः परमेश्वरः। वेनः इति मेधाविनाम। निघं० ३।१५। (सीमतः) मर्यादातः व्यवस्थापूर्वकं महदादिक्रमेण (सुरुचः) सुरोचमानान् पदार्थान् (वि अवः) व्यवृणोत्, उत्पादितवान्। (सः) असौ परमेश्वरः (उपमाः) उपेत्य मान्ति धारणाकर्षणशक्तिभिः परस्परं स्थिरीकुर्वन्ति तान्, अपि च (अस्य) एतस्य जगतः (विष्ठाः) विशेषेण स्थितिनिमित्तान् (बुध्न्याः६) बुध्ने अन्तरिक्षे भवान् सूर्यचन्द्रपृथिवीतारकादीन् लोकान् (विवः) व्यवृणोत् प्रकाशितवानस्ति। स एव (सतः च) व्यक्तस्य भूजलाग्निपवनादेः (असतः च) अव्यक्तस्य महदहंकारपञ्चतन्मात्रादेश्च (योनिम्) कारणं प्रकृतिम् (विवः) कार्यात्मना व्यवृणोत् ॥९॥७ अत्र श्लेषालङ्कारः। ‘सतश्च-सतश्च’ इत्यावृत्तौ यमकम् ॥९॥
Essence
कान्तिमान् आदित्यः पूर्वस्यां दिशि जायमानः सन् स्वकीयान् सुप्रदीप्तान् रश्मीन् दिवि भुवि च प्रसारयन् सर्वा दिशः सौरं जगच्च प्रकाशयति। कान्तिमान् मेधावी परमेश्वरश्च प्रकृतेर्मध्यात् सुरोचमानान् पदार्थान् सूर्यचन्द्रपृथिवीतारकादीन् लोकांश्चाविष्कृणोति। तस्यादित्यस्य सम्यगुपयोगः, तस्य परमेश्वरस्य स्तुतिप्रार्थनोपासनानि च सर्वैः कर्तव्यानि ॥९॥
Subject
अथ सूर्यस्य परमेश्वरस्य च महत् कृत्यं वर्णयति।
Footnote
१. य० १३।३ ऋषिः वत्सारः, देवता आदित्यः। अथ० ४।१।४ ऋषिः वेनः, देवता बृहस्पतिः, आदित्यः। अथ० ५।६।५ ऋषिः अथर्वा, देवता ब्रह्म। २. ब्रह्मेति बृहेर्वृद्ध्यर्थस्य बिभर्तेः भरणार्थस्य वा रूपम्। परिवृद्धत्वात् सर्वस्य वा भरणाद्, ब्रह्मशब्देन आदित्यमण्डलम् उच्यते—इति वि०। ३. विष्ठाः स्थितिसाधिकाः—इति य० २३।५८ भाष्ये द०। विष्टभ्य स्थात्रीः—इति वि०। वितिष्ठन्ते प्रतिष्ठन्ते इति विष्ठाः आपः—इति भ०। विष्ठाः विशेषेण स्थापितवान्—इति सा०। ४. बुध्नम् अन्तरिक्षम्, तस्मिन् भवाः बुध्न्याः दिशः—इति वि०। ५. (जज्ञानम्) सर्वस्य जनकं, विज्ञातृ—इति य० १३।३ भाष्ये द०। ‘सर्वत्र जज्ञानस्य जनक एवार्थ उच्यते। तद्यथा ऋ० ३।१।४, ऋ० ६।२१।७, ऋ० ३।४४।४ द० भाष्ये’ इति तत्रैव ब्रह्मदत्तजिज्ञासुसंस्करणे टिप्पणी। ६. (बुध्न्याः) बुध्ने जलसंबद्धेऽन्तरिक्षे भवाः सूर्यचन्द्रपृथिवीतारकादयो लोकाः—इति य० १३।३ भाष्ये द०। ७. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘किंस्वरूपं ब्रह्म जनैरुपास्यमिति’ विषये व्याख्यातवान्।