Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 320

1875 Mantra
Devata- वेनः Rishi- वेनो भार्गवः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ना꣡के꣢ सुप꣣र्ण꣢꣯मुप꣣ य꣡त्पत꣢꣯न्तꣳ हृ꣣दा꣡ वेन꣢꣯न्तो अ꣣भ्य꣡च꣢क्षत त्वा । हि꣡र꣢ण्यपक्षं꣣ व꣡रु꣢णस्य दू꣣तं꣢ य꣣म꣢स्य꣣ यो꣡नौ꣢ शकु꣣नं꣡ भु꣢र꣣ण्यु꣢म् ॥३२०॥

ना꣡के꣢꣯ । सु꣣पर्ण꣢म् । सु꣣ । पर्ण꣢म् । उ꣡प꣢꣯ । यत् । प꣡त꣢꣯न्तम् । हृ꣣दा꣢ । वे꣡न꣢꣯न्तः । अ꣣भ्य꣡च꣢क्षत । अ꣣भि । अ꣡च꣢꣯क्षत । त्वा꣣ । हि꣡र꣢꣯ण्यपक्ष꣣म् । हि꣡र꣢꣯ण्य । प꣣क्षम् । व꣡रु꣢꣯णस्य । दू꣣त꣢म् । य꣣म꣡स्य꣢ । यो꣡नौ꣢꣯ । श꣣कुन꣢म् । भु꣣रण्यु꣢म् ॥३२०॥

Mantra without Swara
नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥

नाके । सुपर्णम् । सु । पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभ्यचक्षत । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । हिरण्य । पक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥३२०॥

Samveda - Mantra Number : 320
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् ! (नाके) आत्मलोके (उप पतन्तम्) उपगच्छन्तम्, (हिरण्यपक्षम्) ज्योतीरूपपक्षोपेतं, ज्योतिष्मन्तमित्यर्थः, ज्योतिर्हि हिरण्यम्। श० ४।३।४।२१। (वरुणस्य) पापनिवारकस्य मनसः, (दूतम्) प्रेरकम्। यो दवति प्रेरयति स दूतः। दु गतौ, भ्वादिः। ‘दुतनिभ्यां दीर्घश्च। उ० ३।८८’ इति क्त प्रत्ययो दीर्घश्च। (यमस्य) शरीरेन्द्रियादीनां नियन्तुः जीवात्मनः (योनौ) हृदयरूपे गृहे, उदितम्। योनिरिति गृहनामसु पठितम्। निघं० ™३।४। (शकुनम्) शक्तिशालिनम्। शक्नोतीति शकुनः। शक्लृ शक्तौ धातोः ‘शकेः उन-उन्त-उन्ति-उनयः। उ० ३।४९’ इति उन प्रत्ययः। (भुरण्युम्) यो भुरण्यति सर्वान् धारयति पुष्णाति च, तादृशम्। भुरण धारणपोषणयोः इति धातोः कण्ड्वादित्वाद् यकि बाहुलकादौणादिक उ प्रत्ययः। (सुपर्णम्२) शुभपालनगुणोपेतम् (त्वा) त्वाम् (यत्) यदा, स्तोतारः (वेनन्तः) कामयमानाः भवन्ति। वेनतिः कान्तिकर्मा। निघं० २।६। तदा ते (हृदा) मनसा, त्वाम् (अभ्यचक्षत) साक्षात्कुर्वन्ति। अभिपूर्वः चष्टे पश्यतिकर्मा, निघं० ३।११। ततो लङ्। यथा (नाके) दिवि, मध्याह्नाकाशे इत्यर्थः (उपपतन्तम्) उपगच्छन्तम्, (हिरण्यपक्षम्३) किरणरूपसुवर्णपक्षम्, (वरुणस्य) रोगनिवारकस्य मध्यमस्थानीयस्य वायोः (दूतम्) दूतवदुपकारकम् (यमस्य) रथयन्त्रादीनां नियामकस्य वैद्युताग्नेः। अग्निर्वे यमः। श० ७।२।१।१०। (योनौ) गृहे अन्तरिक्षे इत्यर्थः। योनिरिति गृहनाम। निघं० ३।४। (शकुनम्) पक्षिवत् विद्यमानम्, (भुरण्युम्४) भ्रमणशीलम् (सुपर्णम्) सुपतनम् आदित्यम्, (जनाः) पश्यन्ति, तद्वत् ॥८॥ अत्र श्लेषालङ्कारः, उपमाध्वनिश्च ॥८॥
Essence
ये जना उत्कण्ठया परमात्मानं कामयन्ते ते तं मनसा तथैव साक्षात्कुर्वन्ति यथा चक्षुषा सूर्यं पश्यन्ति ॥८॥
Subject
अथ सूर्यदृष्टान्तेन परमात्मनो गुणान् वर्णयन् तद्दर्शनोपायमाह।
Footnote
१. ऋ० १०।१२३।६, देवता वेनः। साम० १८४६। अथ० १८।३।६६, ऋषिः अथर्वा, देवता यमः। २. (सुपर्णम्) शोभनं पर्णं पालनं यस्य तम् इति ऋ० ६।७५।११ भाष्ये द०। ३. हिरण्यपक्षम्। सर्वस्य लोकस्य हिद्यत्वाद् रमणीयत्वाच्च हिरण्यशब्देनात्र रश्मय उच्यन्ते। ते पक्षस्थानीया यस्य स हिरण्यपक्षः, तं हिरण्यपक्षम्। हितरमणीयैः रश्मिभिर्युक्तमित्यर्थः—इति वि०। ४. भुरण्युं भ्रमणशीलम्—इति वि०। यमस्य अग्नेः मध्यमस्थानस्य योनौ योनिस्थाने अन्तरिक्षे भुरण्युं गमनशीलम्—इति भ०। भुरण्युं भर्तारं वृष्टिदानादिना सर्वस्य जगतः पोषकम्। भुरण धारणपोषणयोः कण्ड्वादिः, अस्मादौणादिक उ प्रत्ययः—इति सा०।