Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 32

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
क꣣वि꣢म꣣ग्नि꣡मुप꣢꣯ स्तुहि स꣣त्य꣡ध꣢र्माणमध्व꣣रे꣢ । दे꣣व꣡म꣢मीव꣣चा꣡त꣢नम् ॥३२॥

क꣣वि꣢म् । अ꣣ग्नि꣢म् । उ꣡प꣢꣯ । स्तु꣣हि । स꣣त्य꣡ध꣢र्माणम् । स꣣त्य꣢ । ध꣣र्माणम् । अध्वरे꣢ । दे꣣व꣢म् । अ꣣मीवचा꣡त꣢नम् । अ꣣मीव । चा꣡त꣢꣯नम् ॥३२॥

Mantra without Swara
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनम् ॥

कविम् । अग्निम् । उप । स्तुहि । सत्यधर्माणम् । सत्य । धर्माणम् । अध्वरे । देवम् । अमीवचातनम् । अमीव । चातनम् ॥३२॥

Samveda - Mantra Number : 32
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। हे मनुष्य, त्वम् (अध्वरे) हिंसादिरहिते जीवनयज्ञे (कविम्) वेदकाव्यस्य कर्तारम्, क्रान्तदर्शिनम्, (सत्यधर्माणम्) सत्या अवितथा धर्मा गुणकर्मस्वभावा यस्य तम्, (देवम्) सुखादीनां दातारम्, (अमीवचातनम्) अमीवान् अज्ञानादीन् व्याधिस्त्यानसंशयप्रमादालस्यादीन् वा योगविघ्नकरान् मानसान् रोगान् चातयति हिनस्ति यस्तम्।२ अम रोगे, बाहुलकादौणादिक ईवप्रत्ययः। चातयतिर्नाशने, निरु० ६।३०। (अग्निम्) तेजस्विनं परमेश्वरम् (उप स्तुहि) उपास्स्व ॥ अथ द्वितीयः—भौतिकाग्निपरः। हे मनुष्य, त्वम् (अध्वरे) शिल्पयज्ञे (कविम्) गतिमन्तम्, (सत्यधर्माणम्) सत्यगुणकर्मस्वभावम्, (देवम्) प्रकाशमानं प्रकाशकं व्यवहारसाधकं च, (अमीवचातनम्) ज्वरादिरोगनाशकम् (अग्निम्) पार्थिवाग्निं विद्युतं सूर्यं वा (उप स्तुहि) गुणैर्वर्णय ॥१२॥ अत्र श्लेषालङ्कारः ॥१२॥
Essence
मनुष्यैः शिल्पविद्यासिद्धये यथा भौतिकोऽग्निर्विद्युत् सूर्यो वा गुणज्ञानपूर्वकं सेवनीयस्तथा धर्मप्राप्तये परमेश्वरस्य गुणकर्मस्वभावा ज्ञेया वर्णनीया अनुकरणीयाश्च ॥१२॥
Subject
अथ भौतिकाग्निवत् परमेश्वरस्यापि गुणाः सर्वैर्वेदितव्या इत्याह।
Footnote
१. ऋ० १।१२।७। ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरविषये भौतिकाग्निविषये च व्याख्यातवान्। २. अमीवान् अज्ञानादीन् ज्वरादींश्च रोगान् चातयति हिनस्ति तम् इति ऋ० १।१२।७ भाष्ये द०।