Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 318

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢ । शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥३१८॥

इ꣡न्द्र꣢꣯म् । न꣡रः꣢꣯ । ने꣣म꣡धि꣢ता । ने꣣म꣢ । धि꣣ता । हवन्ते । य꣢त् । पा꣡र्याः꣢ । यु꣣न꣡ज꣢ते । धि꣡यः꣢꣯ । ताः । शू꣡रः꣢꣯ । नृ꣡षा꣢꣯ता । नृ । सा꣣ता । श्र꣡व꣢꣯सः । च । ꣣ का꣡मे꣢꣯ । आ । गो꣡म꣢꣯ति । व्र꣣जे꣢ । भ꣣ज । त्व꣢म् । नः꣣ ॥३१८॥

Mantra without Swara
इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः ॥

इन्द्रम् । नरः । नेमधिता । नेम । धिता । हवन्ते । यत् । पार्याः । युनजते । धियः । ताः । शूरः । नृषाता । नृ । साता । श्रवसः । च । कामे । आ । गोमति । व्रजे । भज । त्वम् । नः ॥३१८॥

Samveda - Mantra Number : 318
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रम्) वीरं परमात्मानं राजानं वा (नरः) प्रजाजनाः (नेमधिता२) नेमधितौ आन्तरिके बाह्ये च संग्रामे यज्ञे वा। नेमधितिरिति संग्रामनाम। निघं० २।१७। ततः सप्तम्येकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्डादेशे तस्य डित्वात् टेर्लोपे रूपम्। (हवन्ते) आह्वयन्ति। (पार्याः३) पारयितव्याः ते, आन्तरिकान् बाह्याँश्च विघ्नान् पारयितुं (यत्) यत् साधनम् (युनजते) उपयुञ्जते ‘श्नसोरल्लोपः। अ० ६।४।१११’ इत्यल्लोपो न भवति छान्दसत्वात्। (ताः धियः) तत् प्रज्ञाः क्रियाश्च भवन्ति। ताः प्रज्ञाः क्रियाश्चावलम्ब्य ते समस्तान् शत्रून् विघ्नादींश्च पारयन्तीत्यर्थः। धीरिति प्रज्ञानामसु कर्मनामसु च पठितम्। निघं० ३।९, २।१। साम्प्रतं प्रत्यक्षकृतमाह। हे परमात्मन् राजन् वा ! (शूरः) पराक्रमशीलः (त्वम् नृषाता४) नृणां पौरुषवतां वीराणां सातिः विजयो यस्मिन् तस्मिन् नृषातौ संग्रामे, तत्र सहायतार्थमिति भावः। नृषातिशब्दात् सप्तम्येकवचने विभक्तेर्डाऽऽदेशः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। (श्रवसः च) यशसः च (कामे५) अभिलाषपूर्तौ (गोमति) गावः प्रशस्ताः पृथिवी-वाग्-इन्द्रिय-धेन्वादयः तद्वति तद्युक्ते (व्रजे) समूहे गोष्ठे वा (नः) अस्मान् (आ भज) भागिनः कुरु। अस्माकं यशःकामनां प्रपूरय, अस्मान् पृथिवीराज्यवाग्बलेन्द्रियबलप्रशस्तधेन्वादींश्च प्रापयेत्यर्थः ॥६॥६ अत्र अर्थश्लेषालङ्कारः ॥६॥
Essence
परमात्मनः कृपया, नृपतेः साहाय्येन, स्वकीयबुद्धिकौशलेन, पुरुषार्थेन च शत्रुविजयः, परा कीर्तिः, भूमण्डलसाम्राज्यादिकं च सर्वमपि समीहितं वस्तु प्राप्तुं शक्यम् ॥६॥
Subject
अथ परमात्मा राजा च प्रार्थ्यते।
Footnote
१. ऋ० ७।२७।१ ‘श्रवसश्च काम’ इत्यत्र ‘शवसश्चकान’ इति पाठः। २. नेमधिता नेमधितौ संग्रामे यज्ञे वा—इति भ०। ३. पार्याः पालयितव्याः प्राप्तव्याः—इति वि०। पार्याः पारप्राप्तिनिमित्तभूताः—इति भ०। पार्याः युद्धे भरणनिमित्तभूताः—इति सा०। पार्याः पालनीयाः इति ऋ० ७।२७।१ भाष्ये द०। सर्वैरेव पार्याः इति धियः इत्यस्य विशेषणं स्वीकृतम्। ४. नृषाता, नरो मनुष्याः ऋत्विग्लक्षणाः ते सन्यन्ते संभज्यन्ते यत्र स नृषातिर्यज्ञः। वन षण सम्भक्तौ इत्यस्येदं रूपम्—इति वि०। नृषाता नृसातौ नृणां सातौ लाभे—इति भ०। नृषाता, नृणां सम्भक्ता—इति सा०। नरः सीदन्ति यस्मिंस्तस्मिन् नृसातौ—इति ऋ० ७।२७।१ भाष्ये द०। ५. सायणः ‘च कामे’ इत्यस्य स्थाने ‘चकाने’ इत्येकं पदं मत्वा व्याख्याति—‘चकाने चकामे काम्यमाने सति’ इति। ६. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रः ‘कीदृशो राजा कमनीयोऽस्तीति’ विषये व्याख्यातः।