Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 317

1875 Mantra
Devata- इन्द्रः Rishi- सप्तगुराङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ज꣣गृह्मा꣢ ते꣣ द꣡क्षि꣢णमिन्द्र꣣ ह꣡स्तं꣢ वसू꣣य꣡वो꣢ वसुपते꣣ व꣡सू꣢नाम् । वि꣣द्मा꣢꣫ हि त्वा꣣ गो꣡प꣢तिꣳ शूर꣣ गो꣡ना꣢म꣣स्म꣡भ्यं꣢ चि꣣त्रं꣡ वृष꣢꣯णꣳ र꣣यिं꣡ दाः꣢ ॥३१७॥

ज꣣गृह्म꣢ । ते꣣ । द꣡क्षि꣢꣯णम् । इ꣣न्द्र । ह꣡स्त꣢꣯म् । व꣣सूय꣡वः꣢ । व꣣सुपते । वसु । पते । व꣡सू꣢꣯नाम् । वि꣣द्म꣢ । हि । त्वा꣣ । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । शूर । गो꣡ना꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । चि꣣त्र꣢म् । वृ꣡ष꣢꣯णम् । र꣣यि꣢म् । दाः꣣ ॥३१७॥

Mantra without Swara
जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिꣳ शूर गोनामस्मभ्यं चित्रं वृषणꣳ रयिं दाः ॥

जगृह्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसूयवः । वसुपते । वसु । पते । वसूनाम् । विद्म । हि । त्वा । गोपतिम् । गो । पतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥३१७॥

Samveda - Mantra Number : 317
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वसूनां वसुपते) समस्तभौतिकाध्यात्मिकैश्वर्याणाम् अधिपते (इन्द्र) परमात्मन् राजन् आचार्य वा ! (वसूयवः) धनधान्यराज्यविद्याशमदमवैराग्यप्रभृतीनि वसूनि कामयमानाः वयम्। अत्र वसुशब्दात् क्यच्प्रत्यये, ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उ प्रत्ययः, ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (ते) तव (दक्षिणम्) सव्येतरम् (हस्तम्) पाणिं, पाण्युपलक्षितं शरणम् (जगृह्म) गृहणीमः। हे (शूर) दानवीर परमात्मन् राजन् आचार्य वा ! वयम् (त्वा) त्वाम् (गोनाम् गोपतिम्) समस्तानां वागिन्द्रियधेनुपृथिव्यादीनाम् अधिपतिम् (विद्म) जानीमः। संहितायां ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३५’ इति दीर्घः। त्वम् (अस्मभ्यम्) नः (चित्रम्) गुणादिभिः अद्भुतम्, (वृषणम्) व्यक्तौ, समाजे, राष्ट्रे, जगति वा सुखवर्षकम् (रयिम्) धनम् (दाः) देहि। डुदाञ् दाने धातोः लोडर्थे लुङ्। अडभावश्छान्दसः। यद्यपि वसुपते, गोपतिम् इत्यनेनैव गतार्थता, तथापि ‘वसूनां वसुपते’, ‘गोनां गोपतिम्’ इति वचनं सर्वेषां वसूनां सर्वासां गवां चेति सूचयति। सेयं वैदिकी शैली२। ‘गवाम्’ इति प्राप्ते ‘गोनाम्’ इत्यत्र ‘गोः पादान्ते। अ० ७।१।५७’ इति पादान्तत्वान्नुट् ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥
Essence
परमात्मा नृपतिराचार्यश्च यथायोग्यं विविधानां भौतिकाध्यात्मिकानां धनधान्यविद्यारोग्यसत्याहिंसाशमदमयोगसिद्धिचक्रवर्तिराज्या-पवर्गादीनामै-श्वर्याणामीशते। तेषां शरणावलम्बनेन वयमपि तानि प्राप्नुयाम ॥५॥
Subject
अथेन्द्रनाम्ना परमात्मा नृपतिराचार्यश्च प्रार्थ्यते।
Footnote
१. ऋ० १०।४७।१ देवता इन्द्रो वैकुण्ठः। ‘जगृह्मा’ इत्यत्र ‘जगृम्भा’ इति पाठः। २. वसुपतिशब्दः यद्यपि वसूनां पतिः वसुपतिरित्येवं व्युत्पाद्यते तथापि यथा प्रवीणशब्दः प्रकृष्टो वीणायामित्येवमपि व्युत्पाद्यमानो न वीणागतमेव प्रकर्षं प्रतिपादयति, किं तर्हि ? सर्वगतम्। तद्वद् वसुपतिशब्दोऽपि न वसुगतमेव आधिपत्यं प्रतिपादयति। किं तर्हि ? सर्वगतमाधिपत्यमित्यर्थः—इति वि०।