Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 316

1875 Mantra
Devata- इन्द्रः Rishi- पृथुर्वैन्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
सु꣣ष्वाणा꣡स꣢ इन्द्र स्तु꣣म꣡सि꣢ त्वा सनि꣣ष्य꣡न्त꣢श्चित्तुविनृम्ण꣣ वा꣡ज꣢म् । आ꣡ नो꣢ भर सुवि꣣तं꣡ यस्य꣢꣯ को꣣ना꣢꣫ तना꣣ त्म꣡ना꣢ सह्यामा꣣त्वो꣡ताः꣢ ॥३१६॥

सु꣣ष्वाणा꣡सः꣢ । इ꣣न्द्र । स्तुम꣡सि꣢ । त्वा꣣ । सनिष्य꣡न्तः꣢ । चि꣣त् । तुविनृम्ण । तुवि । नृम्ण । वा꣡ज꣢꣯म् । आ । नः꣣ । भर । सुवित꣢म् । य꣡स्य꣢꣯ । को꣣ना꣢ । त꣡ना꣢꣯ । त्म꣡ना꣢꣯ । स꣣ह्याम । त्वो꣡ताः꣢꣯ । त्वा । उ꣣ताः ॥३१६॥

Mantra without Swara
सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् । आ नो भर सुवितं यस्य कोना तना त्मना सह्यामात्वोताः ॥

सुष्वाणासः । इन्द्र । स्तुमसि । त्वा । सनिष्यन्तः । चित् । तुविनृम्ण । तुवि । नृम्ण । वाजम् । आ । नः । भर । सुवितम् । यस्य । कोना । तना । त्मना । सह्याम । त्वोताः । त्वा । उताः ॥३१६॥

Samveda - Mantra Number : 316
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (तुविनृम्ण) बहुबल बहुधन वा। तुवि इति बहुनाम। निघं० ३।१। नृम्णमिति बलनाम धननाम च। निघं० २।९, २।१०। (इन्द्र) परमात्मन् ! (सुष्वाणासः) श्रद्धारसम् अभिषुतवन्तः वयम्। षुञ् अभिषवे धातोः लिटः कानजादेशः। ‘आज्जसेरसुक्’ अ० ७।१।५० इति जसोऽसुगागमः। (वाजम्) आत्मबलं अध्यात्मधनं च (सनिष्यन्तः२) प्राप्तुमिच्छन्तः (चित्) एव (त्वा) त्वाम् (स्तुमसि) स्तुमः। ष्टुञ् स्तुतौ, ‘इदन्तो मसि’ अ० ७।१।४६ इति मसः इदन्तत्वम्। त्वम् (नः) अस्मभ्यम् (सुवितम्३) सद्गतिम् सुप्रजां वा। सुपूर्वात् इण् गतौ धातोः, षूङ् प्राणिगर्भविमोचने धातोर्वा क्त प्रत्यये रूपम्। तथा च निरुक्तम् ‘सुविते सु इते, सूते। सुगते सुप्रजायामिति वा’। निरु० ४।१७। (आभर) आहर, (यस्य) यस्याः सद्गतेः सुप्रजायाः वा (नः) अस्माकम् (कोना४) कामना वर्तते। (त्वोताः) त्वया उताः रक्षिताः। उताः इति अव रक्षणे धातोः क्त प्रत्यये रूपम्। वयम् (त्मना) आत्मना, आत्मबलेन। ‘मन्त्रेष्वाङ्यादेरात्मनः’ अ० ६।४।१४१ इत्याकारलोपः। (तना५) तनान् इतस्ततो विस्तीर्णान् शत्रून्। तनु विस्तारे। द्वितीयाबहुवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्याकारादेशः। (सह्याम) पराभवेम। षह मर्षणे, संहितायाम् ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ वा० इति छान्दसं दीर्घत्वम् ॥४॥
Essence
आत्ममनः प्राणशरीरादीनां बलस्य, आत्मिकलौकिकधनस्य च प्राप्त्यर्थम् अनन्तबलोऽपारधनश्च परमेश्वर एवास्माभिः प्रार्थनीयः। तस्यैव कृपया वयं सुगतिं सुप्रजां वा लब्धुं शत्रुपराजयं च कर्तुं प्रभवामः ॥४॥
Subject
अथ परमात्मानं प्रार्थयते।
Footnote
१. ऋ० १०।१४८।१ ‘सनिष्यन्तश्चित्’ ‘कोना तना त्मना सह्याम’ इत्येतयोः स्थाने क्रमशः ‘ससवांसश्च’, ‘चाकन्त्मना तना सनुयाम’ इति पाठः। २. सनिष्यन्तः लप्स्यन्तः लिप्सन्तः—इति वि०। षण सम्भक्तौ, अयमाप्नोति कर्मापि दृश्यते। ३. सुवितम् आत्मनः सकाशात् प्रेरितं पुत्रमित्यर्थः—इति वि०। सुवितं भद्रं धनम्—इति भ०। सुष्ठु प्राप्तव्यं शोभनं धनम्—इति सा०। ४. कोना। कनेः कान्तिकर्मण इदं रूपम्। पचाद्यच्। अकारस्य व्यत्ययात् ओकारः। प्रथमैकवचनस्य आकारादेशः। यस्य धनमाच्छिद्य दातुं कामयसे तस्य सुवितम् अस्मभ्यम् आभर—इति भ०। कोना शब्दस्य व्याख्याने सायणोऽपि भरतमनुकरोति। ‘किं पुनरभिभवेम ? उच्यते। कोना। कुत्सिताश्च ते ऊनाश्च कोनाः। छान्दसत्वात् कुशब्दस्य का भावः। द्वितीयाबहुवचनस्य स्थाने छान्दसत्वात् आ इत्यादेशः। कुत्सितान् ऊनान् च शत्रूनित्यर्थः’—इति वि०। कुण शब्दे इति धातोरपि ‘कोना’ इति व्युत्पादयितुं शक्यम्। कोना शब्दमयी प्रार्थनेत्यर्थः। ५. तना धनेन—इति वि०। तना, तनोतेस्तनयः, तनयेन—इति भ०। तना धननामैतत्। विस्तृतानि धनानि....सह्याम, षह अभिभवे, धातूनामनेकार्थत्वात् त्वत्प्रसादाल्लभेमहि—इति सा०।