Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 315

1875 Mantra
Devata- इन्द्रः Rishi- गातुरात्रेयः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡द꣢र्द꣣रु꣢त्स꣣म꣡सृ꣢जो꣣ वि꣢꣫ खानि꣣ त्व꣡म꣢र्ण꣣वा꣡न्ब꣢द्बधा꣣ना꣡ꣳ अ꣢रम्णाः । म꣣हा꣡न्त꣢मिन्द्र꣣ प꣡र्व꣢तं꣣ वि꣢꣫ यद्वः सृ꣣ज꣢꣫द्धा꣣रा अ꣢व꣣ य꣡द्दा꣢न꣣वा꣢न्हन् ॥३१५॥

अ꣡द꣢꣯र्दः । उ꣡त्स꣢꣯म् । उत् । स꣣म् । अ꣡सृ꣢꣯जः । वि । खा꣡नि꣢꣯ । त्वम् । अ꣣र्णवा꣢न् । ब꣣द्बधा꣣नान् । अ꣢रम्णाः । महा꣡न्त꣢म् । इ꣣न्द्र प꣡र्व꣢꣯तम् । वि । यत् । व꣡रिति꣢ । सृ꣣ज꣢त् । धा꣡राः꣢꣯ । अ꣡व꣢꣯ । यत् । दा꣣नवा꣢न् । ह꣣न् ॥३१५॥

Mantra without Swara
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाꣳ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् ॥

अदर्दः । उत्सम् । उत् । सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः । महान्तम् । इन्द्र पर्वतम् । वि । यत् । वरिति । सृजत् । धाराः । अव । यत् । दानवान् । हन् ॥३१५॥

Samveda - Mantra Number : 315
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—हे (इन्द्र) परमेश्वर ! (त्वम्) सकलसृष्टिव्यवस्थापकः त्वम्, स्वरचितं सूर्यमुपकरणीकृत्य (उत्सम्) जलाधारं मेघम् (अदर्दः) भृशं विदारयसि। दॄ विदारणे धातोर्यङ्लुगन्ताल्लङि सिपि छान्दसं रूपम्। (खानि) पिहितानि छिद्राणि (वि असृजः) उद्घाटयसि। (बद्बधानान्) अवर्षके मेघे दृढं बद्धान्। बध बन्धने धातोः क्र्यादेः चानश्, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुः, हलादिशेषाभावः। (अर्णवान्) पयसः पारावारान् (अरम्णाः) विसृजसि। रम्णातिः संयमनकर्मा विसर्जनकर्मा वा। निरु० १०।९। एवं वृष्टिकर्म वर्णयित्वा पर्वतेभ्यो जलधाराप्रवाहं वर्णयति। (यत्) यदा (महान्तम्) विशालम् (पर्वतम्) पर्वताकारं हिमीभूतं जलसंघातम् (विवः२) विवृणोषि विशेषेण द्रावयसि। वः इति ‘वृञ्’ वरणे धातोर्लुङि सिपि, ‘मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः’ अ० २।४।८० इति च्लेर्लुकि अडागमाभावे रूपम्। यद्योगाद् ‘यद्वृत्तान्नित्यम्’ इति निघातप्रतिषेधाद् धातुस्वरेणोदात्तत्वम्। (यत्) यदा च (दानवान्) जलप्रवाहप्रतिबन्धकान् शिलाखण्डादीन् (हन्) हंसि चूर्णयसि। हन हिंसागत्योः, लङि अडागमाभावश्छान्दसः। तदा (धाराः) नदीः (अवसृजत्) अवासृजः। सृज विसर्गे धातोर्लङि छान्दसः पुरुषव्यत्ययः अडागमाभावश्च ॥ एतेन राजविषयोऽपि सूच्यते। यथा परमेश्वरः सूर्यो वा वृष्टिप्रतिबन्धकं मेघं विदार्य तत्रावरुद्धा जलधाराः प्रवाहयति, तथैव राजापि राष्ट्रोन्नतिप्रतिबन्धकान् शत्रून् विदार्य तैरवरुद्धा ऐश्वर्यधारा राष्ट्रे प्रवाहयेत् ॥३ एतं मन्त्रं यास्काचार्य एवं व्याचष्टे—अदृणा उत्सम्। उत्स उत्सरणाद् वा उत्सदनाद् वा उत्स्यन्दनाद् वा, उनत्तेर्वा। व्यसृजोऽस्य खानि। त्वमर्णवान् अर्णस्वत एतान् माध्यमिकान् संस्त्यानान् बाबध्यमानान् अरम्णाः, रम्णातिः, संयमनकर्मा विसर्जनकर्मा वा। महान्तम् इन्द्र पर्वतं मेघं यद् व्यवृणोः, व्यसृजोऽस्य धाराः। अवहन्नेनं दानवं दानकर्माणम्। निरु० १०।९ ॥ अथ द्वितीयः—हे (इन्द्र) परमेश्वर ! (त्वम् उत्सम्) अवरुद्धं ज्ञानस्रोतः (अदर्दः) विदार्य उद्घाटयसि, (खानि) अन्तरात्मनः पराङ्मुखानि बहिर्मुखानि इन्द्रियाणि। ‘पराञ्चि खानि व्यतृणत् स्वयम्भूः’। कठ० ४।१ इति प्रामाण्यात् खानि इन्द्रियाण्युच्यन्ते। (वि असृजः) बाह्यविषयेभ्यः पृथक् करोषि। (बद्बधानान्) आनन्दमयकोशेषु बद्धान् (अर्णवान्) आनन्दपारावारान् (अरम्णाः) मनोमयादिकोशेषु विसृजसि। (यत्) यदा (महान्तम्) विशालम् (पर्वतम्) योगमार्गे विघ्नभूतानां व्याधिस्त्यानसंशयप्रमादालस्यादीनां शैलम् (विवः) विदारयसि, (यत्) यदा च (दानवान्) अविद्यास्मितारागद्वेषाभिनिवेशरूपान् दैत्यान् (हन्) हंसि, तदा (धाराः) कैवल्यप्रापिकाः धर्ममेघसमाधिधाराः४ (अव सृजत्) प्रवाहयसि ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
परमेश्वरो यथा वृष्टिप्रदाननदीप्रवाहादिरूपं प्राकृतिकं कर्म सम्पादयति तथैव योगमभ्यस्यतो मुमुक्षुजनस्य मार्गे समागतान् विघ्नान् निवार्य तदात्मन्यानन्दवृष्टिं कृत्वा तस्मै मोक्षमपि प्रयच्छति ॥३॥
Subject
अथ परमेश्वरस्य वृष्ट्यादिकं कैवल्यप्रदानरूपं च कर्म वर्णयति।
Footnote
१. ऋ० ५।३२।१ ‘सृजो वि धारा अव दानवान् हन्’ इति पाठः। २. विवः विवृतवानसि—इति वि०, भ०, सा०। केचित्तु ‘वः’ इति पदं युष्मदादेशरूपेण व्याचख्युः, तदसमञ्जसं स्वरविरोधात् पदपाठविरोधाच्च। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजापक्षे व्याख्यातवान्। ४. द्रष्टव्यम्—योग० १।३०, ३१; २।३; ४।२९।