Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 314

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यो꣡नि꣢ष्ट इन्द्र꣣ स꣡द꣢ने अकारि꣣ त꣡मा नृभिः꣢꣯ पुरूहूत꣣ प्र꣡ या꣢हि । अ꣢सो꣣ य꣡था꣢ नोऽवि꣣ता꣢ वृ꣣ध꣢श्चि꣣द्द꣢दो꣣ व꣡सू꣢नि म꣣म꣡द꣢श्च꣣ सो꣡मैः꣢ ॥३१४॥

यो꣡निः꣢꣯ । ते꣣ । इन्द्र । स꣡द꣢꣯ने । अ꣣कारि । त꣢म् । आ । नृ꣡भिः꣢꣯ । पु꣣रूहूत । पुरु । हूत । प्र꣢ । या꣢हि । अ꣡सः꣢꣯ । य꣡था꣢꣯ । नः꣣ । अविता꣢ । वृ꣣धः꣢ । चि꣣त् । द꣡दः꣢꣯ । व꣡सू꣢꣯नि । म꣣म꣡दः꣢ । च꣣ । सो꣡मैः꣢꣯ ॥३१४॥

Mantra without Swara
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि । असो यथा नोऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः ॥

योनिः । ते । इन्द्र । सदने । अकारि । तम् । आ । नृभिः । पुरूहूत । पुरु । हूत । प्र । याहि । असः । यथा । नः । अविता । वृधः । चित् । ददः । वसूनि । ममदः । च । सोमैः ॥३१४॥

Samveda - Mantra Number : 314
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) दुःखविदारक सुखप्रद परमेश्वर, शत्रुविदारक शान्तिप्रद राजन् वा ! (ते) तव (सदने) उपवेशनार्थम्। अत्र निमित्तार्थे सप्तमी। (ते) तुभ्यम् (योनिः) हृदयरूपं गृहम् सिंहासनं वा। योनिरिति गृहनाम। निघं० ३।४। (अकारि) संस्कृतम् रचितं वा अस्माभिः। हे (पुरुहूत) बहुस्तुत, बहुभिः प्रजाजनैः निर्वाचित वा ! (तम्) हृदयगृहं सिंहासनं वा (नृभिः) उन्नायकैः सत्याहिंसादानदक्षिणादिभिः गुणैः नेतृभिः राज्याधिकारिभिर्वा सह (आ प्रयाहि) प्रकर्षेण आगच्छ, (यथा) येन तत्र स्थितस्त्वम् (नः) अस्माकम् (अविता) रक्षकः (वृधः चित्) वर्धकश्चापि। अत्र वृधु वृद्धौ धातोः ‘इगुपधज्ञाप्रीकिरः कः’ अ० ३।१।१३५ इति कः प्रत्ययः। (असः) भवेः। अस भुवि धातोर्लेटि मध्यमैकवचने रूपम्। (वसूनि) आध्यात्मिकानि भौतिकानि च धनानि (ददः) प्रयच्छेः। डुदाञ् दाने धातोर्लेटि रूपम्। (सोमैः च) शान्तिभिश्च (ममदः) तर्पयेः। मद तृप्तियोगे इति धातोः ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लौ, द्वित्वे लेटि रूपम् ॥२॥२ अत्र श्लेषालङ्कारः ॥२॥
Essence
परमेश्वरो हृदयासनं नृपतिश्च सिंहासनमधिष्ठाय सर्वेभ्य आध्यात्मिकीं भौतिकीं च रक्षां, वृद्धिं, सम्पदं, शान्तिं च प्रदातुमर्हति ॥२॥
Subject
अथेन्द्रनाम्ना परमेश्वरो राजा च सम्बोध्यते।
Footnote
१. ऋ० ७।२४।१, ‘वृधश्चिद् ददो’ इत्यत्र ‘वृधे च ददो’ इति पाठः। २. ऋग्वेदे दयानन्दर्षिणा मन्त्रोऽयं राजप्रजापक्षे व्याख्यातः।