Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 313

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡सा꣢वि दे꣣वं꣡ गोऋ꣢꣯जीक꣣म꣢न्धो꣣꣬ न्य꣢꣯स्मि꣢न्नि꣡न्द्रो꣢ ज꣣नु꣡षे꣢मुवोच । बो꣡धा꣢मसि त्वा हर्यश्व यज्ञै꣣र्बो꣡धा꣢꣯ न꣣ स्तो꣢म꣣म꣡न्ध꣢सो꣣ म꣡दे꣢षु ॥३१३॥

अ꣡सा꣢꣯वि । दे꣣व꣢म् । गो꣡ऋजी꣢꣯कम् । गो । ऋ꣣जीकम् । अ꣡न्धः꣢꣯ । नि । अ꣣स्मिन् । इ꣡न्द्रः꣢꣯ । ज꣣नु꣡षा꣢ । ई꣣म् । उवोच । बो꣡धा꣢꣯मसि । त्वा꣣ । हर्यश्व । हरि । अश्व । यज्ञैः꣢ । बो꣡ध꣢꣯ । नः꣣ । स्तो꣡म꣢꣯म् । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯षु ॥३१३॥

Mantra without Swara
असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥

असावि । देवम् । गोऋजीकम् । गो । ऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच । बोधामसि । त्वा । हर्यश्व । हरि । अश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥३१३॥

Samveda - Mantra Number : 313
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अस्माभिः (देवम्) दीप्तियुक्तम्, तेजस्वि (गोऋजीकम्२) इन्द्रियरूपाणां गवाम् ऋजुमार्गगामित्वे हेतुभूतम् (अन्धः) श्रद्धारसरूपं सोमसलिलम् (असावि) अभिषुतम्। (अस्मिन्) अन्धसि श्रद्धारसे (इन्द्रः) परमेश्वरः (जनुषा ईम्) स्वभावतः खलु (नि उवोच३) नितरां सम्बद्धो जातः। उच समवाये दिवादिः, लिटि रूपम्। हे (हर्यश्व) हरयो वेगवन्तः अश्वाः व्याप्ता भूमिचन्द्रविद्युदादयो यस्य तादृश परमात्मन् ! वयम् (यज्ञैः) योगाभ्यासरूपैः (त्वा) त्वाम् (बोधामसि) जानीमः। बुध अवगमने भ्वादिः, ‘इदन्तो मसि’ अ० ७।१।४६ इति मस इकारागमः। त्वम् (अन्धसः) आनन्दरसस्य (मदेषु) तृप्तिषु (नः) अस्माकम् (स्तोमम्) स्तोत्रम् (बोध) जानीहि। संहितायाम् ‘द्व्यचोऽतस्तिङः’। अ० ६।३।१३५ इति दीर्घः ॥१॥ अत्र इन्द्रस्य तत्स्तोतॄणां च मिथः बोधनरूपैकक्रियाकरणाद् अन्योन्यालङ्कारः४। ‘बोधा’ इत्यस्य सकृदावृत्तौ यमकम्, ‘मन्धो, मन्ध’ इत्यत्र च छेकानुप्रासः ॥१॥
Essence
परमेश्वरोपासनेन योगाभ्यासिनो जनस्येन्द्रियाणि ऋजुमार्गगामीनि संजायन्ते। अतः सर्वैः परमेश्वरो भक्त्याऽर्चनीयः ॥१॥५
Subject
वयं परमेश्वराय श्रद्धारसमर्पयाम इत्याह।
Footnote
१. ऋ० ७।२१।१। २. ‘गोऋजीकम्’—गावः इन्द्रियाणि ऋजीकानि सरलानि येन तम् इति ऋ० ६।२३।७ भाष्ये द०। गोविकारैः पयआदिभिर्मिश्रितम्—इति वि०। गोभिः संस्कृतं गव्येन मिश्रितम्—इति भ०, सा०। ३. उवाच उक्तवान्—इति वि०। नि उवोच नितरां सङ्गतो भवति। उच समवाये—इति भ०, सा०। ४. अन्योन्यमुभयोरेकक्रियायाः कारणं मिथः। सा० द० १०।७२ इति तल्लक्षणात्। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् ‘विद्वान् किं कुर्या’दिति विषये व्याख्यातवान्।