Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 312

1875 Mantra
Devata- इन्द्रः Rishi- नोधा गौतमः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣡ यो रि꣢꣯रि꣣क्ष꣡ ओज꣢꣯सा दि꣣वः꣡ सदो꣢꣯भ्य꣣स्प꣡रि꣢ । न꣡ त्वा꣢ विव्याच꣣ र꣡ज꣢ इन्द्र꣣ पा꣡र्थि꣢व꣣म꣢ति꣣ वि꣡श्वं꣢ ववक्षिथ ॥३१२॥

प्र꣢ । यः । रि꣣रिक्षे꣢ । ओ꣡ज꣢꣯सा । दि꣣वः꣢ । स꣡दो꣢꣯भ्यः । प꣡रि꣢꣯ । न । त्वा꣣ । विव्याच । र꣡जः꣢꣯ । इ꣣न्द्र । पा꣡र्थिव꣢꣯म् । अ꣡ति꣢ । वि꣡श्व꣢꣯म् । व꣣वक्षिथ ॥३१२॥

Mantra without Swara
प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि । न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ ॥

प्र । यः । रिरिक्षे । ओजसा । दिवः । सदोभ्यः । परि । न । त्वा । विव्याच । रजः । इन्द्र । पार्थिवम् । अति । विश्वम् । ववक्षिथ ॥३१२॥

Samveda - Mantra Number : 312
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (यः) यः त्वम् (ओजसा) बलेन प्रतापेन च (दिवः) द्युलोकस्य (सदोभ्यः) सदनेभ्यः सूर्यतारामण्डलादिभ्यः (परि) उपरि उत्थाय (प्र रिरिक्षे२) प्र रिरिचिषे, महिम्ना तान्यतिशेषे। प्र पूर्वाद् रिचिर् विरेचने, स्वादेर्लडर्थे लिटि मध्यमैकवचने रूपम्, इडभावश्छान्दसः। तादृशम् (त्वा) त्वाम् (पार्थिवं रजः) पार्थिवो लोकोऽपि। लोका रजांसि उच्यन्ते। निरु० ४।१९ (न विव्याच३) न छलयति, न पराजयते, पार्थिवं रजोऽपि त्वामतिशयितुं नालमित्यर्थः। व्यच व्याजीकरणे तुदादिः, लिटि रूपम्। सत्यं त्वम् (विश्वम् अति) समस्तं ब्रह्माण्डम् अतिक्रम्य (ववक्षिथ४) महान् असि। ववक्षिथ इति महन्नामसु पठितम्। निघं० ३।३। वह प्रापणे धातोः सन्नन्तस्य लडर्थे लिटि रूपम्। वोढुमिच्छसीति शब्दार्थः। यो यं वहति स तदपेक्षया महत्तरो भवतीति कृत्वा ‘महानसि’ इत्यर्थः सम्पद्यते ॥१०॥
Essence
परमात्मनो बलं महिमा प्रतापः प्रभावश्च द्यावापृथिव्यादिकात् सकलादपि ब्रह्माण्डादतिरिच्यते ॥१०॥ अत्र प्राकृतिक्या उषसो वर्णनमुखेनाध्यात्मिक्या उषस आविर्भावं संसूच्य, अश्विनाम्ना परमात्मजीवात्मानौ, आत्ममनसी, अध्यापकोपदेशकौ च संस्तूय, इन्द्रनाम्ना जगदीश्वरं स्तुत्वा धनशत्रुविनाशादिकं च सम्प्रार्थ्य तन्महिमवर्णनाद्, इन्द्रनाम्ना नृपतिसेनापत्यादीनां चापि कर्तव्यबोधनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोद्धव्यम् ॥ इति चतुर्थे प्रपाठके प्रथमार्द्धे द्वितीया दशतिः। इति तृतीयाध्यायेऽष्टमः खण्डः ॥
Subject
अथेन्द्रस्य महिमानमाह।
Footnote
१. ऋ० ८।८८।५, ‘यो’, ‘दिवः सदोभ्यस्परि’, ‘पार्थिवमति विश्वं’ एतेषां स्थाने क्रमेण ‘हि’, ‘दिवो अन्तेभ्यस्परि’, ‘पार्थिवमनु स्वधां’ इति पाठः। २. रुष रिष हिंसायाम् इत्यस्य मध्यमपुरुषैकवचने एतद्रूपम्, यस्त्वं प्रकर्षेण हिनस्सीत्यर्थः—इति वि०। प्रकर्षेण अतिरिच्यसे—इति भ०। रिचेर्लटि ‘बहुलं छन्दसि (अ० २।४।७६)’ इति श्लुः। प्रत्ययस्वरः—इति सा०। ३. न तं त्वा विव्याच न व्याप्नोति माहात्म्येन—इति वि०। न व्याप्नोति—इति भ०। पार्थिवं पृथिव्यां भवं रजो लोकः त्वा त्वां महता स्वशरीरेण न विव्याच न व्याप्नोति। द्यावापृथिव्योरपि स्वतः स त्वं बलेन समर्थोऽसीत्यर्थः—इति सा०। विव्याच छलयति—इति ऋ० ३।३६।४ भाष्ये द०। ४. वहेः सन्नन्तस्य छान्दसे लिटि रूपम्। मन्त्रत्वादामभावः—इति सा०। वोढुमिच्छसि। अत्र लडर्थे लिट्, सन्नन्तस्य वह धातोरयं प्रयोगः, ‘बहुलं छन्दसि’ इत्यनेन अभ्यासस्येत्त्वाभावः—इति ऋ० १।१०२।८ भाष्ये द०।