Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 311

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्व꣡मि꣢न्द्र꣣ प्र꣡तू꣢र्तिष्व꣣भि꣡ विश्वा꣢꣯ असि꣣ स्पृ꣡धः꣢ । अ꣣शस्तिहा꣡ ज꣢नि꣣ता꣡ वृ꣢त्र꣣तू꣡र꣢सि꣣ त्वं꣡ तू꣢र्य तरुष्य꣣तः꣢ ॥३११॥

त्व꣢म् । इ꣣न्द्र । प्र꣡तू꣢꣯र्तिषु । प्र । तू꣣र्त्तिषु । अभि꣢ । वि꣡श्वाः꣢꣯ । अ꣣सि । स्पृ꣡धः꣢꣯ । अ꣣शस्तिहा꣢ । अ꣣शस्ति । हा꣢ । ज꣣निता꣢ । वृ꣣त्रतूः꣢ । वृ꣣त्र । तूः꣢ । अ꣣सि । त्व꣢म् । तू꣣र्य । तरुष्य꣢तः ॥३११॥

Mantra without Swara
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥

त्वम् । इन्द्र । प्रतूर्तिषु । प्र । तूर्त्तिषु । अभि । विश्वाः । असि । स्पृधः । अशस्तिहा । अशस्ति । हा । जनिता । वृत्रतूः । वृत्र । तूः । असि । त्वम् । तूर्य । तरुष्यतः ॥३११॥

Samveda - Mantra Number : 311
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) शूर परमात्मन् राजन् वा ! (त्वम् प्रतूर्तिषु) त्वरामयेषु देवासुरसंग्रामेषु। ञित्वरा संभ्रमे, स्त्रियां क्तिन् ‘ज्वरत्वर०। अ० ६।४।२०’ इति वकारस्योपधायाश्च ऊठ्। (विश्वाः) सर्वाः (स्पृधः) स्पर्धाशीलाः शत्रुसेनाः (अभि असि) अभि भवसि। त्वम् (अशस्तिहा) अप्रशस्तीनां हन्ता, (जनिता) प्रशस्तिहेतूनां सद्गुणानां सच्चारित्र्याणां च हृदये राष्ट्रे वा जनयिता। ‘जनिता मन्त्रे। अ० ६।४।५३’ इति णिलोपो निपात्यते। (वृत्रतूः२) वृत्राणि पापानि पापिनो दुर्जनान् वा तूर्वति हिनस्ति सः। वृत्रोपपदात् तुर्वी हिंसायाम् धातोः क्विपि रूपम्, क्विपि परे ‘राल्लोपः। अ० ६।४।२१’ इति वकारलोपः। (असि) विद्यसे। (त्वम् तरुष्यतः) हिंसकान्। तरुष्यतिः हन्तिकर्मा। निरु० ५।२। (तूर्य) विनाशय। तूरी गतित्वरणहिंसनयोः दिवादिः, परस्मैपदं छान्दसम् ॥९॥३ अत्रार्थश्लेषः, ‘त्वं तूर्यं तरुष्यतः’ इति कार्यस्य कारणरूपेण शिष्टवाक्येन समर्थनात् कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः। ‘तूर्’ इत्यस्य त्रिश आवृत्तेरेकादशकृत्वस्तकारावृत्तेश्च वृत्त्यनुप्रासोऽलङ्कारः। परमात्मनृपत्योरुपमानोपमेयभावश्च व्यङ्ग्यः ॥९॥
Essence
यथा परमात्मा मानसेषु देवासुरसंग्रामेषु कामक्रोधादीनसुरान् पराभूय अप्रशस्तिं निरस्य प्रशस्तिहेतून् सद्गुणकर्मस्वभावान् जनयित्वा, पापानि निर्मूल्य स्तोतुः कीर्तिं विस्तारयति तथैव राज्ञापि राष्ट्राभ्यन्तरस्थान् बाह्यांश्च शत्रूनुन्मूल्य, राष्ट्रस्याप्रशस्तिं निवार्य, राष्ट्रवासिषु सद्गुणान् सदाचारांश्च प्रचार्य सुप्रबन्धेन प्रशस्तिः कीर्तिश्च जनयितव्या ॥९॥
Subject
अथेन्द्रनाम्ना परमात्मा राजा वा रिपुसंहाराय प्रार्थ्यते।
Footnote
१. ऋ० ८।९९।५, य० ३३।६६, साम० १६३७, अथ० २०।१०५।१। २. वृत्रस्य शत्रोः तूर्विता हन्ता—इति वि०। वृत्रस्य तरिता गन्ता—इति भ०। सर्वस्य शत्रुवर्गस्य हिंसिता—इति सा०। ३. यजुर्भाष्ये दयानन्दर्षिणायं मन्त्रो राजधर्मविषये व्याख्यातः।