Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 310

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡दि꣢न्द्र꣣ या꣡व꣢त꣣स्त्व꣢मे꣣ता꣡व꣢द꣣ह꣡मीशी꣢꣯य । स्तो꣣ता꣢र꣣मि꣡द्द꣢धिषे रदावसो꣣ न꣡ पा꣢प꣣त्वा꣡य꣢ रꣳसिषम् ॥३१०॥

य꣢त् । इ꣣न्द्र । या꣡व꣢꣯तः । त्वम् । ए꣣ता꣡व꣢त् । अ꣣ह꣢म् । ई꣡शी꣢꣯य । स्तो꣣ता꣡र꣢म् । इत् । द꣣धिषे । रदावसो꣣ । रद । वसो । न꣢ । पा꣣पत्वा꣡य꣢ । रं꣣ऽसिषम् ॥३१०॥

Mantra without Swara
यदिन्द्र यावतस्त्वमेतावदहमीशीय । स्तोतारमिद्दधिषे रदावसो न पापत्वाय रꣳसिषम् ॥

यत् । इन्द्र । यावतः । त्वम् । एतावत् । अहम् । ईशीय । स्तोतारम् । इत् । दधिषे । रदावसो । रद । वसो । न । पापत्वाय । रंऽसिषम् ॥३१०॥

Samveda - Mantra Number : 310
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमात्मन् ! (यत्) यदि (यावतः) यत्परिमाणस्य धनस्य (त्वम्) त्वम् ईशिषे अधीश्वरोऽसि (एतावत्) एतावतः धनस्य। ‘सुपां सुलुक्। अ० ७।१।३९’ इति षष्ठ्या लुक्। (अहम्) त्वदुपासकः (ईशीय) अधीश्वरो भवेयम् तर्हि, हे (रदावसो२) रदति विलिखतीति रदं पावकं वसु धनं यस्य स रदवसुः, रदवसुरेव रदावसुः तादृश ! रद विलेखने, पूर्वपदस्य दीर्घश्छान्दसः। यद्वा, रदान् दातॄन् वासयतीति रदावसुः तथाविध ! अत्र रदधातुर्दानार्थो बोध्यः। अहम् (स्तोतारम्) तव स्तुतिकर्तारम्, पुण्यकर्तारम् (इत्) एव (दधिषे) धनप्रदानेन धारयेयम्। दध धारणे, लेटि उत्तमैकवचने ‘सिब्बहुलं लेटि। अ० ३।१।३४’ इति सिपि रूपम्। (पापत्वाय) पापाय (न) नैव कदापि (रंसिषम्३) दद्याम्। रमु क्रीडायाम्। अत्र दानार्थः, ऋग्वेदे ‘रासीय’ इति पाठात्। लिङर्थे लुङ्, परस्मैपदं छान्दसम्, ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडागमो न ॥८॥४
Essence
धनं प्राप्य केनापि कृपणेन न भाव्यम्, किन्तु तद्धनं यथायोग्यं सत्पात्रेषु दातव्यम्। परं पापकार्याय कदापि धनं न देयम् ॥८॥
Subject
अथ धनस्वामिभिर्धनं कुत्र व्ययितव्यमित्याह।
Footnote
१. ऋ० ७।३२।१८, अथ० २०।८२।१। उभयत्र ‘दधिषे’ ‘रंसिषम्’ इत्यत्र क्रमेण ‘दिधिषेय’ ‘रासीय’ इति पाठः। साम० १७९६। २. रदावसो। रदिरत्र दानकर्मा। रदति वसूनीति रदावसुः—इति भ०। रदति ददाति वसूनीति रदवसुः तादृश हे इन्द्र—इति सा०। यो रदेषु विलेखनेषु वसति तत्सम्बुद्धौ—इति ऋ० ७।–३२।१८ भाष्ये द०। ३. रंसिषं दधामीत्यर्थः—इति वि०। रातेरिदं रूपम्, दद्याम्—इति भ०। न रंसिषम् न दद्याम्—इति सा०। ४. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘राजपुरुषैः किमेष्टव्यम्’ इति विषये व्याख्यातः।