Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 31

1875 Mantra
Devata- अग्निः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
उ꣢दु꣣ त्यं꣢ जा꣣त꣡वे꣢दसं दे꣣वं꣡ व꣢हन्ति के꣣त꣡वः꣢ । दृ꣣शे꣡ विश्वा꣢꣯य꣣ सू꣡र्य꣢म् ॥३१॥

उ꣢त् । उ꣣ । त्य꣢म् । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । देव꣢म् । व꣣हन्ति । केत꣡वः꣢ । दृ꣣शे꣢ । वि꣡श्वा꣢꣯य । सू꣡र्य꣢꣯म् ॥३१॥

Mantra without Swara
उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥

उत् । उ । त्यम् । जातवेदसम् । जात । वेदसम् । देवम् । वहन्ति । केतवः । दृशे । विश्वाय । सूर्यम् ॥३१॥

Samveda - Mantra Number : 31
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यपरः। (केतवः) किरणाः (त्यम्) तं प्रसिद्धम् (जातवेदसम्) यो जातान् पदार्थान् वेदयते प्रकाशयति तादृशम्, (देवम्) प्रकाशमानं, प्रकाशकम्, अहोरात्रादीनां दातारम्, द्युस्थानभवं च। देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा। निरु० ७।१५। (सूर्यम्) आदित्यरूपम् अग्निम् (विश्वाय दृशे) सर्वेषां भूतानां दर्शनाय। विश्वाय इत्यत्र षष्ठ्यर्थे चतुर्थीति वाच्यम्’ अ० २।३।६२ वा० इति षष्ठ्यर्थे चतुर्थी। विश्वस्मै इति प्राप्ते छन्दसि विभाषा सर्वनामसंज्ञानिषेधात् स्मै आदेशो न। दृशे इति दृशे विख्ये च अ० ३।४।११ इत्यनेन तुमर्थे के प्रत्ययान्तो निपातः। (उद् वहन्ति) पृथिव्यादिलोकेषु प्रसारयन्ति। उपरि स्थितोऽप्यादित्यः किरणद्वारा सर्वान् लोकान् प्राप्नोतीति भावः ॥ इमं मन्त्रं यास्कमुनिरेवं व्याचष्टे—उद्वहन्ति तं जातवेदसं रश्मयः केतवः सर्वेषां भूतानां दर्शनाय सूर्यमिति कमन्यमादित्यादेवमवक्ष्यत् इति। निरु० १०।१५ ॥ अथ द्वितीयः—परमेश्वरपरः। (केतवः) केतुमन्तः प्राप्तऋतम्भराप्रज्ञा योगिनो विद्वांसः२ । केतुरिति प्रज्ञानामसु पठितम्। निघं० ३।९। अत्र मतुपो लुक्। (त्यम्) तं स्वानुभूतं प्रसिद्धम् (जातवेदसम्) सर्वज्ञं, सर्वव्यापकं, सर्वैर्ज्ञेयं, धनोत्पादकं, ज्ञानप्रदायकं च। जातवेदाः कस्मात्? जातानि वेद, जातानि वैनं विदुः जाते जाते विद्यत इति वा, जातवित्तो वा जातधनः, जातविद्यो वा जातप्रज्ञानः इति निरुक्तम्। ७।१९। (देवम्) दिव्यगुणप्रदायकम् (सूर्यम्३) सूर्यवद् भासमानं परमेश्वरम् (विश्वाय दृशे) विश्वेषां जनानां साक्षात्करणाय उद् वहन्ति सर्वत्र प्रचारयन्ति ॥११॥४ अत्र श्लेषालङ्कारः। द्वयोरर्थयोरुपमानोपमेयभावश्च व्यज्यते ॥११॥
Essence
यथा सूर्यं तद्रश्मयः सर्वेषां जनानामालोकाय भूम्यादिलोकान् प्रापयन्ति, तथा योगिनो विद्वांसः परमेश्वरं स्वयं साक्षात्कृत्य परेषां दर्शनाय सर्वत्रोपदिशन्ति ॥११॥
Subject
अथ सूर्यदृष्टान्तेनेश्वरविषय उपदिश्यते।
Footnote
१. ऋ० १।५०।१, य० ७।४१ अन्ते स्वाहा इत्यधिकम्, ३३।३१, अथ० २०।४७।१३ सर्वत्र देवता सूर्यः। अथ० १३।२।१६ ऋषिः ब्रह्मा, देवता रोहित आदित्यः। २. केतवः किरणा इव प्रकाशमाना विद्वांसः इति य० ८।४१ भाष्ये द०। ३. सूर्यम् यः स्रियते विज्ञाप्यते वा वेदैर्विद्वद्भिश्च तम् इति य० ७।४१ भाष्ये द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये हे मनुष्याः, यूयं यथा केतवो रश्मयो विश्वाय दृशे उदुत्यं जातवेदसं देवं सूर्यम् उद्वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उद्वहत इति विषये, य० ७।४१ इत्यत्र सूर्यदृष्टान्तेन परमेश्वरविषये, य० ३३।३१ इत्यत्र च सूर्यविषये व्याचष्टे।