Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 309

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भी꣢ष꣣त꣢꣫स्तदा भ꣣रे꣢न्द्र꣣ ज्या꣢यः꣣ क꣡नी꣢यसः । पु꣣रूव꣢सु꣣र्हि꣡ म꣢घवन्ब꣣भू꣡वि꣢थ꣣ भ꣡रे꣢भरे च꣣ ह꣡व्यः꣢ ॥३०९॥

अ꣣भि꣢ । स꣣तः꣢ । तत् । आ । भ꣣र । इ꣡न्द्र꣢꣯ । ज्या꣡यः꣢꣯ । क꣡नी꣢꣯यसः । पु꣣रूव꣡सुः꣢ । पु꣣रु । व꣡सुः꣢꣯ । हि । म꣣घवन् । बभू꣡वि꣢थ । भ꣡रे꣢꣯भरे । भ꣡रे꣢꣯ । भ꣣रे । च । ह꣡व्यः꣢꣯ ॥३०९॥

Mantra without Swara
अभीषतस्तदा भरेन्द्र ज्यायः कनीयसः । पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः ॥

अभि । सतः । तत् । आ । भर । इन्द्र । ज्यायः । कनीयसः । पुरूवसुः । पुरु । वसुः । हि । मघवन् । बभूविथ । भरेभरे । भरे । भरे । च । हव्यः ॥३०९॥

Samveda - Mantra Number : 309
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—उपास्योपासकपरः। हे (इन्द्र) परमेश्वर ! (कनीयसः सतः) त्वदपेक्षयाऽल्पशक्तेरल्पधनादिकस्य च सतो मम (तत्) भवदधिकारे विद्यमानम् (ज्यायः२) प्रशस्यतरं विपुलतरं च आध्यात्मिकं भौतिकं च धनं बलं वा। प्रशस्यशब्दाद् वृद्धशब्दाच्च ईयसुनि क्रमेण ‘ज्य च’, ‘वृद्धस्य च’ अ० ५।३।६१, ६२ इति ज्यादेशे रूपम्। (अभि आ भर) मदभिमुखम् आहर, (हि) यस्मात् हे (मघवन्) प्रशस्तैश्वर्यशालिन् ! त्वम् (पुरूवसुः) बहुधनः (बभूविथ) विद्यसे, (भरे भरे च) अन्तर्द्वन्द्वे-अन्तर्द्वन्द्वे, संग्रामे-संग्रामे, संकटे-संकटे च, बलप्रदानार्थम्। ‘भर इति संग्रामनाम। भरतेर्वा हरतेर्वा’। निरु० ४।२४। (हव्यः) आह्वातव्यः बभूविथ। ह्वेञ् धातोः ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे रूपम्। संहितायाम् ‘अभि’ इत्यत्र ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः। ‘सतः’ इति सकारस्य ‘पूर्वपदात्’ अ० ८।३।१०६ इत्यनेन मूर्धन्यादेशः ॥ अथ द्वितीयः—आचार्यशिष्यपरः। हे (इन्द्र) दोषविदारक सद्गुणसदाचरणोपदेशप्रदायक आचार्यवर ! (कनीयसः सतः) आयुषि ज्ञानेन च अल्पीयसः सतो मम भवदीयशिष्यस्य (तत्) भवदन्तिके विद्यमानम् (ज्यायः) प्रशस्यतरं विपुलतरं च विद्याधनं व्रतपालनधनं च (अभि आ भर) मदभिमुखं प्रापय। (हि) यस्मात्, हे (मघवन्) सच्चरित्रधनाधिपते ! त्वम् (पुरूवसुः) पुरूणि बहूनि वसूनि विद्याधनानि यस्य तादृशः विविधविद्याविशारदः (बभूविथ) विद्यसे, (भरे भरे च) शिष्याणां प्रत्येकभारवहननिमित्ताय च (हव्यः) आदातुं योग्यः बभूविथ। हु दानादनयोः आदाने चेत्येके ॥ अथ तृतीयः—राजप्रजापरः। हे (इन्द्र) शत्रुविदारक सुखादिप्रदायक राजन् ! (कनीयसः सतः) धनशौर्यादौ त्वदपेक्षया अल्पीयसः सतो मम प्रजाजनस्य (तत्) स्पृहणीयं प्रसिद्धम् (ज्यायः) प्रशस्यतरं विपुलतरं च धनधान्य-शस्त्रास्त्र-कला-कौशल-सुराज्यादिकमैश्वर्यम् (अभि आ भर) मां प्रजाजनं प्रति प्रापय, (हि) यस्मात् हे (मघवन्) ऐश्वर्यशालिन् ! त्वम् (पुरूवसुः) बह्वीनां प्रजानां वासयिता (बभूविथ) विद्यसे, (भरे भरे च) राष्ट्राभ्यन्तरे बहिश्च ये शत्रवः सन्ति तैः सह संग्रामे-संग्रामे च (हव्यः) आह्वातव्यः बभूविथ •॥७॥ अत्र कनीयसि पात्रे ज्यायो वस्तु कथं समेयादिति वैषम्यप्रतीतेर्विषमालङ्कारो व्यङ्ग्यः ॥७॥
Essence
परमात्मनः पार्श्वे प्रशस्तप्रशस्तं विपुलविपुलं भौतिकमाध्यात्मिकं च धनम्, गुरोः पार्श्वे प्रभूतं विद्याधनं सच्चारित्र्यधनं च, नृपस्य च पार्श्वे प्रभूतं रजतसुवर्णधान्यशस्त्रास्त्रकलाकौशलचिकित्सासाधनादिरूपं धनं विद्यते। ते स्वस्वधनैरस्मान् धनिकान् कुर्वन्तु ॥७॥३
Subject
अथेन्द्रनाम्ना परमेश्वर-गुरु-नृपादीनैश्वर्यं याचते।
Footnote
१. ऋ० ७।३२।२४, ‘मघवन् बभूविथ’ इत्यत्र ‘मघवन्त्सनादसि’ इति पाठः। २. ज्यायः प्रशस्यतरं धनम्। सम्बुद्ध्यन्तं वा हे ज्यायः इति। आमन्त्रितं पूर्वमविद्यमानवत् (अ० ८।१।७२) इति इन्द्रपदस्य पादादौ विद्यमानस्य विद्यमानत्वाभावात् ज्यायः इत्यस्य सर्वानुदात्तत्वाभावः, नकारस्य रुत्वं व्यत्ययात्—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरः कीदृशोऽस्तीति विषये व्याख्यातः।