Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 308

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡ध्व꣢र्यो द्रा꣣व꣢या꣣ त्व꣢꣫ꣳ सोम꣣मि꣡न्द्रः꣢ पिपासति । उ꣡पो꣢ नू꣣नं꣡ यु꣢युजे꣣ वृ꣡ष꣢णा꣣ ह꣢री꣣ आ꣡ च꣢ जगाम वृत्र꣣हा꣢ ॥३०८॥

अ꣡ध्व꣢꣯र्यो । द्रा꣣व꣡य꣢ । त्वम् । सो꣡म꣢꣯म् । इ꣡न्द्रः꣢꣯ । पि꣣पासति । उ꣡प꣢꣯ । उ꣣ । नून꣢म् । यु꣣युजे । वृ꣡ष꣢꣯णा । हरी꣢꣯इ꣡ति꣢ । आ । च꣣ । जगाम । वृत्रहा꣢ । वृ꣣त्र । हा꣢ ॥३०८॥

Mantra without Swara
अध्वर्यो द्रावया त्वꣳ सोममिन्द्रः पिपासति । उपो नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥

अध्वर्यो । द्रावय । त्वम् । सोमम् । इन्द्रः । पिपासति । उप । उ । नूनम् । युयुजे । वृषणा । हरीइति । आ । च । जगाम । वृत्रहा । वृत्र । हा ॥३०८॥

Samveda - Mantra Number : 308
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अध्वर्यो) अध्यात्मयज्ञस्य ऋत्विग्भूत मम मानस ! अध्वर्युः अध्वरं युनक्ति, अध्वरस्य नेता, अध्वरं कामयते वा। अपि वाऽधीयाने युरुपबन्धः। निरु० १।७। मनो वा अध्वर्युः। श० १।५।१।२१। (त्वम् सोमम्) शान्तरसम् (आ द्रावय) समन्तात् प्रवाहय। द्रु गतौ धातोर्णिजन्तस्य रूपम्। संहितायां ‘अन्येषामपि दृश्यते’ इति दीर्घः। (इन्द्रः) जीवात्मा (पिपासति) पातुमिच्छति। (नूनम्) मन्ये, (वृत्रहा) शान्तिबाधकानाम् अशान्तविचाराणां हन्ता परमात्मापि त्वदध्यात्मयज्ञमागन्तुम् (वृषणा) वृषाणौ बलवन्तौ। वृषन् शब्दाद् द्वितीयाद्विवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इति आकारादेशः। ‘वा षपूर्वस्य निगमे’ अ० ६।४।९ इति विकल्पनाद् उपधाया दीर्घाभावः। (हरी) वेगेन हर्तारौ अश्वौ (उपो युयुजे) उपनियुक्तवान् अस्ति, तत्समकालमेव (आजगाम च) आयातोऽप्यस्ति ॥६॥ अत्रोत्प्रेक्षालङ्कारः। ‘नूनम्’ इत्युत्प्रेक्षावाचकम्। “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः। उत्प्रेक्षावाचकाः शब्दा इव शब्दोऽपि तादृशः” इत्युक्तेः। अशरीरस्य परमात्मनो रथेऽश्वनियोजनासंभवात् ‘मन्ये हरी युयुजे’ इत्युत्प्रेक्षते। किञ्च ‘इन्द्रः पिपासति’ इति कारणेन सोमाद्रावणरूपकार्यस्य समर्थनादर्थान्तरन्यासः। अपि च हरियोजन-आगमनरूप कारणकार्ययोर्युगपत् प्रतीतेरतिशयोक्तिरपि२ ॥६॥
Essence
जीवात्मानं शान्तिरसेन तर्पयितुं स्वकीयं मानसम् अध्वर्युं विधाय सर्वैराभ्यन्तरः शान्तियज्ञो विस्तारणीयः, यतः शान्त एवात्मनि परमात्मनो निवासः संजायते ॥६॥
Subject
अथ जीवत्मने शान्तरसं प्रवाहयितुमाह।
Footnote
१. ऋ० ८।४।११। २. “पौर्वापर्यात्ययः कार्यहेत्वोः”। कार्यकारणयोः पौर्वापर्यविपर्ययश्च द्विधा भवति। कारणात् प्रथमं कार्यस्य भावे, द्वयोः समकालत्वे च। सा० द० १०।४७, कारिका वृत्तिश्च।