Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 307

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣢ त्वा꣣ सो꣡म꣢स्य꣣ ग꣡ल्द꣢या꣣ स꣢दा꣣ या꣡च꣢न्न꣣हं꣡ ज्या꣢ । भू꣡र्णिं꣢ मृ꣣गं꣡ न सव꣢꣯नेषु चुक्रुधं꣣ क꣡ ईशा꣢꣯नं꣣ न या꣢चिषत् ॥३०७॥

आ꣢ । त्वा꣣ । सो꣡म꣢꣯स्य । ग꣡ल्द꣢꣯या । स꣣दा꣢꣯ । या꣡च꣢꣯न् । अ꣣हम् । ज्या꣣ । भू꣡र्णि꣢꣯म् । मृ꣣ग꣢म् । न । स꣡व꣢꣯नेषु । चु꣣क्रुधम् । कः꣢ । ई꣡शा꣢꣯नम् । न । या꣣चिषत् ॥३०७॥

Mantra without Swara
आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या । भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥

आ । त्वा । सोमस्य । गल्दया । सदा । याचन् । अहम् । ज्या । भूर्णिम् । मृगम् । न । सवनेषु । चुक्रुधम् । कः । ईशानम् । न । याचिषत् ॥३०७॥

Samveda - Mantra Number : 307
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमात्मन् ! (सोमस्य) शान्तरसस्य (गल्दया) गालनेन, स्रावणेन सह। गल स्रवणे, चुरादिः, भावे बाहुलकादौणादिको दा प्रत्ययः। ‘गालनेन’ इति निरुक्तम् ६।२४। (ज्या२) ज्यया जिह्वया। ‘सुपां सुलुक्०’ अ० ७।१।३९ इति तृतीयैकवचनस्य आकारादेशः। प्रजावयति शब्दानिति ज्या जिह्वा, तथा च निरुक्ते प्रत्यञ्चार्थे ‘प्रजावयती इषून्’ इति ज्याशब्दस्य निरुक्तिः प्रदर्शिता। (निरु० ९।१८)। अथ च श्रूयते ‘जि॒ह्वा ज्या भव॑ति॒’ इति अथ० ५।१८।८। (त्वा) त्वाम् (सदा) सर्वदा (याचन्) प्रार्थयमानः (अहम्) स्तोता (सवनेषु) बहुघृतसाध्येषु यज्ञेषु (भूर्णिम्) भरणपोषणकर्त्तारम्। बिभर्तीति भूर्णिः, डुभृञ् धारणपोषणयोः धातोः ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५३ इति निपातनाद् निःप्रत्ययः धातोरुत्वं च। (मृगम् न) गवादिपशुम् इव (सवनेषु) जीवनयज्ञेषु (भूर्णिम्) भरणपोषणकर्त्तारम् (मृगम्) मनसः शोधयितारम् त्वाम्। मार्ष्टि इति मृगः, मृजूष् शुद्धौ अदादिः। (न आ चुक्रुधम्) न समन्ततः कोपयेयम्। क्रुध क्रोधे धातोर्णिजन्तस्य लुङि रूपम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि अ० ६।४।७५’ इत्यडागमाभावः। ननु सदा याचनेन दाता किमिति न कोपिष्यतीत्याह—(कः) को जनः (ईशानम्) स्वामिनम् (न याचिषत्) न याचते ? सर्वोऽपि याचत एव इति काक्वा व्यज्यते, अतो ममापि याचने कोऽपराध इति भावः। याचिषत् इति याच् धातोर्लेटि रूपम् ॥ ऋचोऽस्या ऋग्वेदीयः पाठो यास्केनैवं व्याख्यातः—मा चुक्रुधं त्वां सोमस्य गालनेन सदा याचन्नहं गिरा गीत्या स्तुत्या। भूर्णिमिव मृगं न सवनेषु चुक्रुधम्। क ईशानं न याचिष्यत इति। निरु० ६।२५ ॥५॥ अत्र ‘भूर्णिं मृगं न सवनेषु’ इत्यत्र श्लिष्टोपमालङ्कारः। नकार उपमार्थीयः निषेधकश्च। ‘मृगं न’ इति मृगशब्देन सम्बद्धः उपरिष्टादुपचारत्वादुपमार्थीयः, ‘न सवनेषु’ इति सवनशब्देन सम्बद्धः पुरस्तादुपचारत्वान्निषेधार्थकः। ‘भूर्णिं मृगं न इव भूर्णिं मृगं त्वां सवनेषु न चुक्रुधम्’ इति वाक्ययोजना। यथा यज्ञेषु पुनः पुनर्घृतार्थं पयो याच्यमानोऽपि गवादिपशुर्न क्रुध्यति तद्वत् त्वमपि भूयो भूयो याच्यमानोऽपि क्रुद्धो मा भूरिति भावः। ‘क ईशानं न याचिषत्’ इति सामान्येन विशेषस्य स्वकीययाचनस्य समर्थनाद् अर्थान्तरन्यासोऽलङ्कारः३ ॥५॥
Essence
पुनः पुनरपि याचनेन जगदीश्वरात् सद्गुण-सद्वृत्तादिकं सर्वैः प्राप्तव्यम् ॥५॥
Subject
अथेन्द्रं परमात्मानं प्रत्याह।
Footnote
१. ऋ० ८।१।२०, ‘आ’ इत्यत्र ‘मा’ इति, ‘ज्या’ इत्यत्र च ‘गिरा’ इति पाठः। २. ज्या गिरा स्तुत्या च—इति वि०। ज्या स्तुत्या—इति भ०। सोमस्य गल्दया गालनेन आस्रावणेन, ज्या जयशीलया स्तुत्या च—इति सा०। ३. सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥—का० प्र० १०।१०९ इति तल्लक्षणात्।