Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 306

1875 Mantra
Devata- इन्द्रः Rishi- प्रस्कण्वः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣यं꣢ वां꣣ म꣡धु꣢मत्तमः सु꣣तः꣢꣫ सोमो꣣ दि꣡वि꣢ष्टिषु । त꣡म꣢श्विना पिबतं ति꣣रो꣡अ꣢ह्न्यं ध꣣त्त꣡ꣳ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ ॥३०६॥

अ꣣य꣢म् । वा꣣म् । म꣡धु꣢꣯मत्तमः । सु꣣तः꣢ । सो꣡मः꣢꣯ । दि꣡वि꣢꣯ष्टिषु । तं । अ꣣श्विना । पिबतम् । तिरो꣡अ꣢ह्न्यम् । ति꣣रः꣢ । अ꣣ह्न्यम् । धत्त꣢म् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०६॥

Mantra without Swara
अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु । तमश्विना पिबतं तिरोअह्न्यं धत्तꣳ रत्नानि दाशुषे ॥

अयम् । वाम् । मधुमत्तमः । सुतः । सोमः । दिविष्टिषु । तं । अश्विना । पिबतम् । तिरोअह्न्यम् । तिरः । अह्न्यम् । धत्तम् । रत्नानि । दाशुषे ॥३०६॥

Samveda - Mantra Number : 306
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अश्विना) अश्विनौ, आत्ममनसी अध्यापकोपदेशकौ वा। (दिविष्टिषु३) अध्यात्मद्युतियज्ञेषु व्यवहारयज्ञेषु वा। दिवुरत्र द्युत्यर्थो व्यवहारार्थश्च, तदर्थेष्वेतयोरर्थयोरपि परिगणनात्। ‘दिविष्टिषु दिव एषणेषु’, इति निरुक्तम् ६।२२। (अयम्) एषः (मधुमत्तमः) अतिशयमधुरः (सोमः) ज्ञान-कर्म-श्रद्धा-शान्त्यादिरसः सोमाद्योषधिरसो वा (वाम्) युवाभ्याम् (सुतः) मयाऽभिषुतः अस्ति। (तिरोअह्न्यम्४) पवित्रतायाम् अह्नोऽपि तिरस्कर्तारम्, उज्ज्वलाद् दिवसादप्यधिकं पवित्रम्। तिरस्करोति अहः यः स तिरोअहः, स एव तिरोअह्न्यः। स्वार्थे यत्। ‘प्रकृत्यान्तः पादमव्यपरे’ अ० ६।१।११५ इति प्रकृतिभावः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। (तम्) रसम्, युवाम् (पिबतम्) आस्वादयतम्, (दाशुषे) दत्तवते च मह्यं यजमानाय (रत्नानि) सत्प्रेरणसत्संकल्पसच्छिक्षणसदुपदेशादिरूपाणि महार्घाणि रमणीयानि धनानि। रत्नानां रमणीयानां धनानाम् इति निरुक्तम्। ७।१५। (धत्तम्) प्रयच्छतम् ॥४॥ अत्र अर्थश्लेषालङ्कारः ॥४॥
Essence
मनसः शिवसंकल्पपूर्वकं जीवात्मना यज्ज्ञानकर्मश्रद्धाभक्त्यादिकं परमात्मार्पणबुद्ध्या क्रियते तद् बहुफलदायकं जायते। तथैव राष्ट्रेऽध्यापकोपदेशकयोर्यथायोग्यसत्कारेण तत्सकाशाद् बहुज्ञानविज्ञानादिकं प्राप्तुं शक्यते ॥४॥५
Subject
अथेन्द्रेण परमात्मनाऽधिष्ठितौ आत्ममनोरूपौ, इन्द्रेण राज्ञाऽधिष्ठितौ अध्यापकोपदेशकरूपौ वाऽश्विनौ प्रार्थ्येते।१
Footnote
१. एषापि ऋग् यद्यप्यश्विसम्बद्धा, तथाप्यस्या देवता इन्द्रः परिगणितः। इन्द्राधीनत्वादश्विनोः तयोः स्तुत्यापीन्द्र एव स्तुतः इति समाधेयम्। ऋग्वेदे त्वस्या ऋचः साक्षाद् अश्विनावेव देवते पठिते। २. ऋ० १।४७।१ देवते अश्विनौ। ‘सोमो दिविष्टिषु’ इत्यत्र ‘सोम ऋतावृधा’ इति पाठः। ३. दिवं याभिर्गम्यते ता दिविष्टयः स्वर्गफलाः ज्योतिष्टोमाद्याः। यागसंयोगसंपत्तिरित्यर्थः—इति वि०। दिविष्टिषु यज्ञेषु—इति भ०। दिव एषणेषु यज्ञेषु—इति सा०। ४. तिरोअह्न्यम् तृतीयसवनिकम्। अथवा तिर इति प्राप्तनाम। अहनि भवः अह्न्यः। प्राप्ते यागाहनि भवः तिरोअह्न्यः—इति वि०। तिरः सतः इति प्राप्तस्य नामनी। प्राप्ते सुत्याहे भवः तम्—इति भ०। तिरो अह्न्यम् तिरोभूते पूर्वस्मिन् दिनेऽभिषुतम्—इति सा०। ऋ० १।४५।१० भाष्ये सायण एवमाह—“पूर्वस्मिन् अह्नि अभिषुतो यः सोमः उत्तरेऽहनि हूयते तस्यैतन्नामधेयम्” इति। “तिरश्च तदहश्च तिरोहः तस्मिन् भवम्”, इति ऋ० १।४७।१ भाष्ये द०। ५. ऋग्वेदभाष्ये दयानन्दर्षिर्मन्त्रमेतं सभासेनाधीशयोः पक्षे व्याख्यातवान्।