Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 305

1875 Mantra
Devata- अश्विनौ Rishi- अश्विनौ वैवस्वतौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
कु꣢ष्ठः꣣ को꣡ वा꣢मश्विना तपा꣣नो꣡ दे꣢वा꣣ म꣡र्त्यः꣢ । घ्न꣣ता꣡ वा꣢मश्न꣣या꣡ क्षप꣢꣯माणो꣣ꣳशु꣢ने꣣त्थ꣢मु꣣ आ꣢द्व꣣न्य꣡था꣢ ॥३०५

कु꣢ । स्थः꣣ । कः꣢ । वा꣣म् । अश्विना । तपानः꣢ । दे꣢वा । म꣡र्त्यः꣢꣯ । घ्न꣣ता꣢ । वा꣣म् । अश्नया꣢ । क्ष꣡प꣢꣯माणः । अं꣣ऽशु꣡ना꣢ । इ꣣त्थ꣢म् । उ꣣ । आ꣢त् । उ꣣ । अन्य꣡था꣢ । अ꣣न् । य꣡था꣢꣯ ॥३०५॥

Mantra without Swara
कुष्ठः को वामश्विना तपानो देवा मर्त्यः । घ्नता वामश्नया क्षपमाणोꣳशुनेत्थमु आद्वन्यथा ॥३०५

कु । स्थः । कः । वाम् । अश्विना । तपानः । देवा । मर्त्यः । घ्नता । वाम् । अश्नया । क्षपमाणः । अंऽशुना । इत्थम् । उ । आत् । उ । अन्यथा । अन् । यथा ॥३०५॥

Samveda - Mantra Number : 305
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देवा) देवौ दानादिगुणयुक्तौ, तेजसा दीप्यमानौ (अश्विना) अश्विनौ परमात्मजीवात्मानौ अध्यापकोपदेशकौ वा ! उभयत्र ‘सुपां सुलुक्०’—अ० ७।१।३९ अनेन औ इत्यस्य आकारः। युवाम् (कु२) कुह। कु तिहोः। अ० ७।२।१०४ इति किमः कुः आदेशः, प्रत्ययस्य छान्दसो लुक्। (स्थः) वर्तेथे ? संहितायाम् पूर्वपदात् अ० ८।३।१०६ इति सकारस्य मूर्धन्यादेशः। (कः मर्त्यः) को मनुष्यः (वाम्) युवाम् (तपानः३) सन्तापयन् भवतीति शेषः ? युवां कुत्र स्थः किमिति प्रेरणां शिक्षणमुपदेशं च न प्रयच्छथः ? किमु रुष्टौ स्थः ? किं वां रोषहेतुः ? अथ स्वयमेवोत्तरति। प्रथमं परमात्मजीवात्मपक्षे—(अश्नया) अश्नेन मनसि व्याप्तेन। अशूङ् व्याप्तौ। ‘सुपां सुलुक्०’ इति तृतीयैकवचनस्य या आदेशः। (वाम् घ्नता) युवां प्रतिगच्छता। हन हिंसागत्योः, शतरि रूपम्. (अंशुना) ज्ञान-कर्म-श्रद्धारूपेण सोमरसेन, युवाम् (क्षपमाणः४) वञ्चितं कुर्वन् एव वां तपानोऽस्ति इत्यहमवैमि। अथ अध्यापकोपदेशकपक्षे—(अश्नया५) अशनया बुभुक्षया। अकारलोपश्छान्दसः, यद्वा अशनाया अर्थे अश्ना शब्दः स्वतन्त्रो वेदे प्रयुक्त इति ज्ञेयम्। (घ्नता) घ्नतौ हतौ। द्वितीया-द्विवचनस्य ‘सुपां सुलुक्’ इति आकारादेशः। (वाम्) युवाम् (अंशुना) भोजनाच्छादनवेतनादिना देयांशेन (क्षपमाणः) वञ्चितं कुर्वन् जन एव वां संतापकोऽस्ति। क्षप प्रेरणे चुरादिः, शानच्। अथ उभयपक्षे—(इत्थम् उ) एवमेव विद्यते, ममानुमानं सत्यमस्ति ? (आत् उ६) यद्वा (अन्यथा) एतद्भिन्नम्, युवयोः तापस्य रोषस्य च कारणं किमप्यन्यदेवास्ति ? न किमप्यन्यत् संभवतीति भावः ॥३॥ अत्र श्लेषालङ्कारः ॥
Essence
परमात्मजीवात्मरूपौ अश्विनौ सदा जनानां हृदये संनिविष्टौ स्तः। यो ज्ञानकर्मश्रद्धादिरूपं सोमरसं यथायोग्यं ताभ्यामर्पयति, तस्मै तौ सदा सत्प्रेरणां प्रयच्छतः। परं यस्तयोरुपेक्षां करोति तं प्रति तौ रुष्टाविव तिष्ठतः। तथैव यो शिक्षणोपदेशैरुपकुर्वद्भ्यामध्यापकोपदेशकाभ्यां दक्षिणारूपेण भोजनाच्छादनादिकं निश्चितं वेतनं वा नार्पयति स ताभ्यामपराध्यति ॥३॥
Subject
अथ केन हेतुना तावश्विनौ तप्तौ रुष्टौ वा भवत इत्याह१।
Footnote
१. अश्विनोः स्तूयमानयोः आगमनविलम्बात् विचिकित्सेयम्—इति भ०। २. कु ष्ठः कुत्र स्थो युवाम्—इति भ०। विवरणकृता सायणेन च ‘कुष्ठः’ इति समस्तपदत्वेन व्याख्यातम्। ‘कुः पृथिवी तस्यां स्थितः कुस्थः’—इति वि०। कौ पृथिव्यां वर्तमानः को मर्त्यः—इति सा०। ३. कः वां युवां हे अश्विनौ तपानः तापयमानः—इति वि०। को मर्त्यः वां युवां क्षपमाणः भवति अस्मान् प्रहापयन् भवति। तपानः तप आचरन्—इति भ०। ४. क्षयमाणः इति पाठान्तरम्। सायणेन तदनुसृत्यैव व्याख्यातम्। ५. अश्नया क्षुधा—इति वि०। अश्नया अश्न शब्दाद् द्वितीयाद्विवचनस्य या आदेशः। अश्नौ व्यापकौ युवाम्। अश्नोतेरश्नौ। ‘तस्य भ्राता मध्यमोऽस्त्यश्नः’ ऋ० १।१६४।१ इति हि निगमः। अथवा अश्नया अशनया फलेच्छयेति—भ०। ६. सायणेन ‘आद्वन्’ इत्येकं पदं स्वीकृत्य अभिमतान्नरसादिभक्षणवान् राजादिरिवेति व्याख्यातम्। तत्तु पदकारविरुद्धम्, तत्र ‘आत् उ अन्यथा’ इति पाठात्।