Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 303

1875 Mantra
Devata- उषाः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣡त्यु꣢ अदर्श्याय꣣त्यू꣢३꣱च्छ꣡न्ती꣢ दुहि꣣ता꣢ दि꣣वः꣢ । अ꣡पो꣢ म꣣ही꣡ वृ꣢णुते꣣ च꣡क्षु꣢षा꣣ त꣢मो꣣ ज्यो꣡ति꣢ष्कृणोति सू꣣न꣡री꣢ ॥३०३॥

प्र꣡ति꣢꣯ । उ꣣ । अदर्शि । आयती꣢ । आ꣣ । यती꣢ । उ꣣च्छ꣡न्ती꣢ । दुहि꣣ता꣢ । दि꣣वः꣢ । अ꣡प꣢꣯ । उ꣣ । मही꣢ । वृ꣣णुते । च꣡क्षु꣢꣯षा । त꣡मः꣢ । ज्यो꣡तिः꣢꣯ । कृ꣣णोति । सून꣡री꣢ । सु꣣ । न꣡री꣢꣯ ॥३०३॥

Mantra without Swara
प्रत्यु अदर्श्यायत्यू३च्छन्ती दुहिता दिवः । अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥

प्रति । उ । अदर्शि । आयती । आ । यती । उच्छन्ती । दुहिता । दिवः । अप । उ । मही । वृणुते । चक्षुषा । तमः । ज्योतिः । कृणोति । सूनरी । सु । नरी ॥३०३॥

Samveda - Mantra Number : 303
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 8;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आयती) आगच्छन्ती (उच्छन्ती) उदयं भजमाना। उछी विवासे, भ्वादिस्तुदादिश्च। (दिवः दुहिता) द्युलोकस्य पुत्री उषाः (प्रति अदर्शि उ) प्रतिदृष्टास्ति खलु। (मही) महती एषा उषाः (चक्षुषा) दर्शनप्रदानेन। चष्टे पश्यतिकर्मा। निघं० ३।११। (तमः) अन्धकारम् (अप उ वृणुते) अपाकरोति। (सूनरी२) सुनेत्री इयम् उषाः। सूनरी इति उषर्नामसु पठितम्। निघं० १।८। (ज्योतिः) प्रकाशम् (कृणोति) जनयति। कृवि हिंसाकरणयोः इत्यस्य रूपम् ॥१॥ अत्र स्वभावोक्तिरलङ्कारः। प्राकृतिक्या उषसो वर्णनाच्चाध्यात्मिकी उषा व्यज्यते ॥१॥
Essence
यथा सूर्योदयात् प्राग् व्याप्तं निविडं नैशं तमो व्युदस्यन् प्राकृतिक्या उषसः प्रकाशः सर्वत्र प्रसरति, तथैव परमात्मरूपस्य सूर्यस्योदयात् प्राङ्मनोभूमौ व्याप्तं तामसवृत्तीनां जालं विच्छिन्दन्नाध्यात्मिक्या उषसः प्रकाशो जीवात्मानं व्याप्नोति। सेयमुषा योगमार्गे ऋतम्भरा प्रज्ञेति३ नाम्ना ख्याता ॥१॥
Subject
अथ प्रथमाया उषा देवता। उषस आविर्भावं वर्णयति।
Footnote
१. ७।८१।१ ‘अपो महि व्ययति चक्षसे’ इति पाठः। साम० ७५१। २. सूनरी। शोभना नराः यस्याः स्तावकत्वेन भवन्ति सा सुनरी। सुनर्येव सूनरी—इति वि०। शोभनाः नराः स्तोतारः यस्याः सा सूनरी। सु सुष्ठु नयति प्राणिनः इति वा सूनरी—इति भ०। जनानां सुष्ठु नेत्री—इति सा०। सुष्ठु नयतीति सूनरी। नॄ नये। ‘अच इः’ इति इ प्रत्ययः। गतिसमासे ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ (परिभा० २८) इति वचनात् ‘कृदिकारादक्तिनः’ (पा० ४।१।४५ ग०) इति ङीष्। ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदातत्त्वम्। ‘निपातस्य च’ इति पूर्वपदस्य दीर्घः। इति ऋ० १।४८।५ भाष्ये सायणः। ३. योग० १।४८।