Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 302

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्वा꣢मि꣣दा꣡ ह्यो नरोऽपी꣢꣯प्यन्वज्रि꣣न्भू꣡र्ण꣢यः । स꣡ इ꣢न्द्र꣣ स्तो꣡म꣢वाहस इ꣣ह꣡ श्रु꣣ध्यु꣢प꣣ स्व꣡स꣢र꣣मा꣡ ग꣢हि ॥३०२॥

त्वा꣢म् । इ꣣दा꣢ । ह्यः । न꣡रः꣢꣯ । अ꣡पी꣢꣯प्यन् । व꣣ज्रिन् । भू꣡र्ण꣢꣯यः । सः । इ꣣न्द्र । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः । इह꣢ । श्रु꣣धि । उ꣡प꣢꣯ । स्व꣡स꣢꣯रम् । आ । ग꣣हि ॥३०२॥

Mantra without Swara
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥

त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः । सः । इन्द्र । स्तोमवाहसः । स्तोम । वाहसः । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥३०२॥

Samveda - Mantra Number : 302
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वज्रिन्) वज्रधर ! दुर्जनदलनसज्जनरक्षणशक्तियुक्त परमात्मन् राजन् वा ! (त्वाम्) भवन्तम् (भूर्णयः) जनानां भरणपोषणतत्पराः। डुभृञ् धारणपोषणयोः, ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५२ इति निः प्रत्ययः। (नरः) नेतारो जनाः (इदा) अस्मिन् काले। ‘सर्वैकान्यकिंयत्तदः काले दा’ अ० २।३।१५ इति इदम् शब्दाद् दा प्रत्ययः। (ह्यः) गते च काले (अपीप्यन्२) वर्द्धयन्ति वर्द्धितवन्तश्च, वर्द्धनं चात्र प्रचारो ज्ञेयः। (सः) तादृशः त्वम्, हे (इन्द्र) दुर्मतिविदारक सुमतिप्रदायक परमात्मन् राजन् वा ! (स्तोमवाहसः) स्तुतिवाहकान् अस्मान्, अस्माकं निवेदनानीत्यर्थः (इह) अत्र (श्रुधि) शृणु, अस्माकम् (स्वसरम्) गृहम्, हृदयसदनम् सभागृहं वा। स्वसराणि इति गृहनामसु पठितम्। निघं० ३।४। (उप आ गहि) उपागच्छ ॥१०॥ अत्र अर्थश्लेषालङ्कारः ॥१०॥
Essence
समाजे ये नेतारो भवन्ति तैः सर्वत्र परमात्मा प्रजारञ्जको राजा च प्रचारणीयः, येन राष्ट्रस्य सर्वे जना आस्तिका राजभक्ताश्च भवेयुः ॥१०॥ अथेन्द्रं प्रति सोमरसार्पणाद्, धेनुरूपेणेन्द्रं स्मृत्वा तदाह्वानात्, तत्सम्बन्धित्वष्टृपर्जन्यबृहस्पत्यदितीनामाह्वानाद्, इन्द्रनाम्ना नृपसेनापत्यादीनां चापि वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम्। इति चतुर्थे प्रपाठके प्रथमार्धे प्रथमा दशतिः। इति तृतीयाध्याये सप्तमः खण्डः ॥
Subject
अथ परमेश्वरो नृपतिश्चाहूयते।
Footnote
१. ऋ० ८।९९।१ ‘वाहस इह’ इत्यत्र ‘वाहसामिह’ इति पाठः। साम० ८१३। २. ओप्यायी वृद्धौ इत्यस्येदं रूपम्। वर्धयन्तीत्यर्थः। आप्यायितवन्तः—इति भ०। सोममपाययन्—इति सा०।