Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 301

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
यु꣣ङ्क्ष्वा꣡ हि वृ꣢꣯त्रहन्तम꣣ ह꣡री꣢ इन्द्र परा꣣व꣡तः꣢ । अ꣣र्वाचीनो꣡ म꣢घव꣣न्त्सो꣡म꣢पीतय उ꣣ग्र꣢ ऋ꣣ष्वे꣢भि꣣रा꣡ ग꣢हि ॥३०१॥

यु꣣ङ्क्ष्व꣢ । हि । वृ꣣त्रहन्तम । वृत्र । हन्तम । ह꣢रीइ꣡ति꣢ । इ꣣न्द्र । पराव꣡तः꣢ । अ꣣र्वाचीनः꣢ । अ꣣र्वा । अचीनः꣢ । म꣣घवन् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । उग्रः꣢ । ऋ꣣ष्वे꣡भिः꣢ । आ । ग꣣हि ॥३०१॥

Mantra without Swara
युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि ॥

युङ्क्ष्व । हि । वृत्रहन्तम । वृत्र । हन्तम । हरीइति । इन्द्र । परावतः । अर्वाचीनः । अर्वा । अचीनः । मघवन् । सोमपीतये । सोम । पीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥३०१॥

Samveda - Mantra Number : 301
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (वृत्रहन्तम) पापरूपवृत्रासुराणाम् अतिशयेन हन्तः (इन्द्र) परमात्मन् ! (परावतः) स्वकीये परमे स्वरूपे स्थित्वा त्वम्। अत्र आसनात् प्रेक्षते इतिवत् ‘अधिकरणे चोपसंख्यानम्’ अ० २।३।२८ वा० इति पञ्चमी। (हरी) अस्माकं ज्ञानेन्द्रियकर्मेन्द्रियरूपी अश्वौ (युङ्क्ष्व हि) प्रवर्त्तय खलु, अस्मान् ज्ञानवतः कर्मवतश्च कुर्वित्यर्थः। (उग्रः) उद्गूर्णबलः त्वम् (अर्वाचीनः) अस्मदभिमुखः सन्। अर्वाग् अञ्चतीति अर्वाचीनः (सोमपीतये२) सोमस्य अस्मदीयात्मनः पीतये रक्षणाय (ऋष्वेभिः) महद्भिर्वीरत्वदयादाक्षिण्यादिभिर्गुर्णैः सह, तेषामुपहारं गृहीत्वेत्यर्थः। ऋष्व इति महन्नाम। निघं० ३।३। (आगहि) आगच्छ ॥ अथ द्वितीयः—राष्ट्रपरः। राष्ट्रे शत्रुसंकटापन्ने सति प्रजाभिः सेनाध्यक्षः सैनिकैः सहाहूयते। हे (वृत्रहन्तम) अतिशयेन शत्रूणां हन्तः (इन्द्र) सेनाध्यक्ष ! त्वम् (परावतः) स्वकीयात् उत्कृष्टात् सैन्यावासात् (हरी) संकटहरणशीले स्वकीये आक्रामक-रक्षक-सैन्ये (युङ्क्ष्व हि) शत्रूच्छेदाय राष्ट्ररक्षणाय च नियोजय खलु। हे (मघवन्) वीरताधनयुक्त ! (उग्रः) प्रचण्डः त्वम् (सोमपीतये) शान्तिरक्षणाय (ऋष्वेभिः) स्वकीयैः महाबलैः सैनिकैः सह (अर्वाचीनः) रणाङ्गणाभिमुखः (आगहि) आयाहि ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
Essence
देहधारिणि जीवात्मनि ज्ञानपौरुषहीने पापग्रस्ते च सति तद्रक्षणार्थं परमेश्वरस्याह्वानमिव राष्ट्रे शत्रुभिरभिद्रुते सति सेनाध्यक्षस्याह्वानं श्रेयस्करम् ॥९॥
Subject
अथेन्द्रनाम्ना परमात्मा सेनाध्यक्षश्च सम्बोध्यते।
Footnote
१. ऋ० ८।३।१७। २. दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वमिति सायणः।