Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 30

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प꣢रि꣣ वा꣡ज꣢पतिः क꣣वि꣢र꣣ग्नि꣢र्ह꣣व्या꣡न्य꣢क्रमीत् । द꣢ध꣣द्र꣡त्ना꣢नि दा꣣शु꣡षे꣢ ॥३०॥

प꣡रि꣢꣯ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । कविः꣢ । अ꣣ग्निः꣢ । ह꣣व्या꣡नि꣢ । अ꣣क्रमीत् । द꣡ध꣢꣯त् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०॥

Mantra without Swara
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥

परि । वाजपतिः । वाज । पतिः । कविः । अग्निः । हव्यानि । अक्रमीत् । दधत् । रत्नानि । दाशुषे ॥३०॥

Samveda - Mantra Number : 30
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमेश्वरपरः। (वाजपतिः) वाजानाम् आत्मिकबलानां पतिः अधीश्वरः, (कविः) मेधावी, कान्तद्रष्टा। कविरिति मेधाविनाम। निघं० ३।१५। कविः क्रान्तदर्शनो भवति कवतेर्वा इति निरुक्तम् १२।१३। (अग्निः) प्रकाशस्वरूपः परमेश्वरः (दाशुषे) आत्मानं हविः कृत्वा दत्तवते स्तोत्रे। ‘दाश्वान् साह्वान् मीढ्वाँश्च।’ अ० ६।—१।१२ अनेनायं दानार्थाद् दाशतेः क्वसुप्रत्ययान्तो निपातितः। (रत्नानि) रमणीयानि सद्गुणरूपाणि धनानि। रत्नानां रमणीयानां धनानामिति निरुक्तम्। ७।५। (दधत्) धारयन्, प्रयच्छन्, तस्य (हव्यानि) आत्मसमर्पणरूपाणि हवींषि (परि अक्रमीत्) परितः प्राप्नोति, स्वीकरोतीत्यर्थः। क्रमु पादविक्षेपे। छन्दसि लुङ्लङ्लिटः अ० ३।४।६ इति लडर्थे लङ् ॥ अथ द्वितीयः—यज्ञाग्निपरः। (वाजपतिः) अन्नानां बलानां च प्रदाता पालकश्च, (कविः) गतिमान्। पवनाहतः सन् कवते यज्ञवेद्यां ज्वालाभिरितस्ततः संचरतीति कविः। कवते गतिकर्मा। निघं० २।१४। (अग्निः) यज्ञाग्निः (दाशुषे) हविर्दत्तवते यजमानाय (रत्नानि) आरोग्यादिरूपाणि रमणीयानि फलानि (दधत्) प्रयच्छन् सन् (हव्यानि) सुगन्धिमिष्टपुष्टिवर्धकरोगनाशकानि घृतकेसरकस्तूर्यादीनि हवींषि (परि अक्रमीत्२) सूक्ष्मीकृत्य परितो विस्तारयति ॥१०॥३ अत्र श्लेषालङ्कारः, उपमानोपमेयभावश्च गम्यते ॥१०॥
Essence
यथाऽन्नानां बलानां चोत्पत्तिनिमित्तं यज्ञाग्निर्हविर्दत्तवते यजमानाय दीर्घायुष्यारोग्यादीनि फलानि प्रयच्छति तथैवोपासनायज्ञे आत्मसमर्पणरूपाणि हवींषि दत्तवते स्तोत्रे परमेश्वरः सद्गुणादिरूपाणि फलानि ददाति ॥१०॥
Subject
अथ परमेश्वरः स्तोतुः किमुपकरोतीत्याह।
Footnote
१. ऋ० ४।१५।३, य० ११।२५ ऋषिः सोमकः। २. क्रमिर्गत्यर्थः, शुद्धोऽपि च ण्यर्थे द्रष्टव्यः। परिक्रमितवान् परिगमितवान् नीतवानित्यर्थः—इति वि०। ३. दयानन्दर्षिर्मन्त्रेऽस्मिन् ऋग्भाष्ये दातृपुरुषसाम्येन यजुर्भाष्ये च गृहस्थसाम्येन भौतिकाग्निविषयमाह।