Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 3

1875 Mantra
Devata- अग्निः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣣ग्निं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हो꣡ता꣢रं वि꣣श्व꣡वे꣢दसम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥३॥

अ꣣ग्नि꣢म् । दू꣣त꣢म् । वृ꣣णीमहे । हो꣡ता꣢꣯रम् । वि꣣श्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥३॥

Mantra without Swara
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥

अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्ववेदसम् । विश्व । वेदसम् । अस्य । यज्ञस्य । सुक्रतुम् । सु । क्रतुम् ॥३॥

Samveda - Mantra Number : 3
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् (होतारम्) दिव्यगुणानाम् आह्वातारम्। होतारं ह्वातारम् इति निरुक्तम् ७।१५। अत्र ह्वेञ् धातोस्तृन्, बहुलं छन्दसि अ० ६।१।३४ इति सम्प्रसारणम्। (विश्ववेदसम्) विश्वं वेत्ति जानातीति विश्ववेदाः सर्वज्ञः, यद्वा विश्वस्मिन् विद्यते यः स विश्ववेदाः सर्वव्यापकः, यद्वा विश्वं वेदः आध्यात्मिकं भौतिकं च धनं यस्मात् स विश्ववेदाः, तम्। विद जाने। विद सत्तायाम्। वेद इति धननाम। निघं० २।१०। किञ्च, (अस्य) एतस्य अनुष्ठीयमानस्य (यज्ञस्य) अध्यात्मयागस्य (सुक्रतुम्) सुकर्माणं, सुसञ्चालकम् ऋत्विग्रूपम्। क्रतुरिति कर्मनाम। निघं० २।१। अत्र सोरुत्तरः क्रतुशब्दः क्रत्वादयश्च अ० ६।२।११८ इत्याद्युदात्तः। (अग्निम्) परमात्मानम् (दूतं वृणीमहे) दिव्यगुणावतारे दूतत्वेन स्वीकुर्मः ॥३॥ 
Essence
यथा हि दूतत्वेन वृतः कश्चिज्जनोऽस्माकं सन्देशं प्रियजनसमीपं नीत्वा, प्रियजनस्य च सन्देशमस्मान् प्रति प्रापय्य तेनास्माकं समागमं कारयति, तथैव सत्याहिंसास्तेयब्रह्मचर्यापरिग्रहन्यायविद्याश्रद्धासुमतीत्यादि-दिव्यगुणगणानामस्माकं च मध्ये दौत्यं विधाय परमात्माऽस्मान् प्रति दिव्यगुणानाह्वयतीत्यसौ सर्वैरेवोपासकैर्दूतत्वेन वरणीयः ॥३॥
Subject
स परमात्माऽस्माभिर्दूतत्वेन वरणीय इत्याह।
Footnote
१. ऋ० १।१२।१। साम० ७९०। अथर्व० २०।१०१।१