Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 299

1875 Mantra
Devata- त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः Rishi- वामदेवो गौतमः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्व꣡ष्टा꣢ नो꣣ दै꣢व्यं꣣ व꣡चः꣢ प꣣र्ज꣢न्यो꣣ ब्र꣡ह्म꣢ण꣣स्प꣡तिः꣢ । पु꣢त्रै꣡र्भ्रातृ꣢꣯भि꣣र꣡दि꣢ति꣣र्नु꣡ पा꣢तु नो दु꣣ष्ट꣢रं꣣ त्रा꣡म꣢णं꣣ व꣡चः꣢ ॥२९९॥

त्व꣡ष्टा꣢꣯ । नः꣣ । दै꣡व्य꣢꣯म् । व꣡चः꣢꣯ । प꣣र्ज꣡न्यः꣢ । ब्र꣡ह्म꣢꣯णः । प꣡तिः꣢꣯ । पु꣣त्रैः꣢ । पु꣣त् । त्रैः꣢ । भ्रा꣡तृ꣢भिः । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । नु꣢ । पा꣣तु । नः । दुष्ट꣡र꣢म् । दुः꣣ । त꣡र꣢꣯म् । त्रा꣡म꣢꣯णम् । व꣡चः꣢꣯ ॥२९९॥

Mantra without Swara
त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ॥

त्वष्टा । नः । दैव्यम् । वचः । पर्जन्यः । ब्रह्मणः । पतिः । पुत्रैः । पुत् । त्रैः । भ्रातृभिः । अदितिः । अ । दितिः । नु । पातु । नः । दुष्टरम् । दुः । तरम् । त्रामणम् । वचः ॥२९९॥

Samveda - Mantra Number : 299
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्वष्टा) दोषाणां तनूकर्ता, तेजसा दीप्तः, दुःखच्छेदको विद्वान् जनः, त्वक्ष तनूकरणे। यद्वा त्विष दीप्तौ, ‘त्विषेर्देवतायामकारश्चोपधाया अनिट्त्वं च’ अ० ३।२।१३५ वा० अनेन त्विषधातोस्तृन्, उपधाया अकारः, इडभावश्च। (पर्जन्यः) पर्जन्यवद् उपदेशवर्षकः संन्यासी, (ब्रह्मणः पतिः) ज्ञानस्य अधिपतिः आचार्यश्च। संहितायां ‘षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।’ अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (नः) अस्मभ्यम् (दैव्यं वचः) ईश्वरीयं वेदवचनम्, उपदिशन्तु इति शेषः। देवात् परमेश्वराद् आगतं दैव्यम्। ‘देवाद्यञञौ’ अ० ४।१।८५ वा इति यञ् प्रत्ययः। किञ्च, (पुत्रैः) तनयैः (भ्रातृभिः) बन्धुभिश्च साकम् (नः) अस्मान् (अदितिः) जगन्माता। अदितिर्माता। ऋ० १।८९।१० इति प्रामाण्याद् माता अदितिरुच्यते। (नु) सद्यः एव (पातु) रक्षतु। अस्माकम् (वचः) वचनम् (दुष्टरम्) अनतिक्रमणीयम्, अकाट्यम् (त्रामणम्२) परेषां पालकं च, भूयाद् इति शेषः। त्रैङ् पालने, मनिन्। त्रामन् शब्दान्नपुंसि प्रथमैकवचने ‘त्राम’ इति प्राप्ते अमो लुगभावश्छान्दसः ॥७॥
Essence
विदुषामुपदेशेन पुत्रपौत्रबन्धुबान्धवादिसहिताः सर्वे वेदज्ञाः सत्कर्मपरायणाः परमेश्वरप्रियाश्च सन्तो व्यवहारे सत्यं मधुरं प्रभावजनकं कुतर्कैरकाट्यं च वचनं ब्रूयुः॥७॥
Subject
अथ मन्त्रोक्तास्त्वष्टृपर्जन्यब्रह्मणस्पत्यदितयो देवताः। इन्द्रप्रकरणे तेऽपि रक्षादिकं याच्यन्ते।
Footnote
१. अथ० ६।४।१ अथर्वा ऋषिः। ‘नो’ इत्यत्र ‘मे’ इति, ‘त्रामणं वचः’ इत्यत्र च ‘त्रायमाणं सहः’ इति पाठः। २. त्रामणं रक्षासाधनम्। रक्षणं फलप्रदानम्—इति भ०। त्रामणं रक्षणीयं वचः पातु—इति सा०।