Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 298

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣡दि꣢न्द्र꣣ शा꣡सो꣢ अव्र꣣तं꣢ च्या꣣व꣢या꣣ स꣡द꣢स꣣स्प꣡रि꣢ । अ꣣स्मा꣡क꣢म꣣ꣳशुं꣡ म꣢घवन्पुरु꣣स्पृ꣡हं꣢ व꣣स꣢व्ये꣣ अ꣡धि꣢ बर्हय ॥२९८

य꣢त् । इ꣣न्द्र । शा꣡सः꣢꣯ । अ꣣व्रत꣢म् । अ꣣ । व्रत꣢म् । च्या꣣व꣡य꣢ । स꣡द꣢꣯सः । प꣡रि꣢꣯ । अ꣣स्मा꣡क꣢म् । अँ꣣शु꣢म् । म꣣घवन् । पुरुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । व꣣स꣡व्ये꣢ । अ꣡धि꣢꣯ । ब꣣र्हय ॥२९८॥

Mantra without Swara
यदिन्द्र शासो अव्रतं च्यावया सदसस्परि । अस्माकमꣳशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥२९८

यत् । इन्द्र । शासः । अव्रतम् । अ । व्रतम् । च्यावय । सदसः । परि । अस्माकम् । अँशुम् । मघवन् । पुरुस्पृहम् । पुरु । स्पृहम् । वसव्ये । अधि । बर्हय ॥२९८॥

Samveda - Mantra Number : 298
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (यत्) यस्मात्, हे (इन्द्र) दुर्गुणविदारक जगदीश्वर ! त्वम् (शासः) शासकः नियामकः असि, तस्मात् (अव्रतम्१) व्रतहीनं कर्महीनं वा जनम्। व्रतं दीक्षा। यद्वा, व्रतमिति कर्मनाम। निघं० २।१। तद्रहितम्। ‘अव्रतम्’ इत्यत्र बहुव्रीहौ ‘नञ्सुभ्याम्’ अ० ६।२।१७२ इत्यन्तोदात्तत्वम्। (सदसः परि) सज्जनसमाजात् (च्यावय) निर्गमय। हे (मघवन्) सद्गुणधन ! (अस्माकम्) नः (पुरुस्पृहम्) बहुस्पृहायुक्तम्। पुरु स्पृहयतीति पुरुस्पृक् तम्। ‘गतिकारकोपपदात् कृत्’ अ० ६।२।१३९ इत्युत्तरपदस्य प्रकृतिस्वरः। (अंशुम्) मनः। मनो ह वा अंशुः। श० ११।५।९।२। (वसव्ये अधि२) आध्यात्मिकाधिभौतिकोभयविधधनसमूहप्राप्तिनिमित्तम्। निमित्तार्थे सप्तमी ‘वसोः समूहे च’ अ० ४।४।१४० इति समूहार्थे यत्। (बर्हय) श्रेष्ठतामापादय। बर्ह प्राधान्ये भ्वादिः, णिजन्तं रूपम् ॥ अथ द्वितीयः—राजन्यपरः। (यत्) यस्मात्, हे (इन्द्र) पापस्य पापिनां च विद्रावक राजन् ! त्वम् (शासः) शासकः असि, तस्मात् (अव्रतम्) वर्णाश्रममर्यादापालनव्रतरहितं जनम् (सदसः परि) राष्ट्ररूपात् यज्ञगृहात् (च्यावय) पृथक् कुरु। यद्वा (अव्रतम्) राष्ट्रसेवाव्रतहीनं जनम् (सदसः परि) संसदः सदस्यतायाः (च्यावय) बहिष्कुरु। हे (मघवन्) धनानां स्वामिन् ! (अस्माकम् पुरुस्पृहम्) अतिशयस्पृहणीयम् (अंशुम्) अंशदानम्, प्रदत्तं करम् (वसव्ये अधि) राष्ट्रहितकार्येषु। वसवे राष्ट्राय हितं वसव्यम्, हितार्थे यत्। (बर्हय) व्ययीकुरु। बर्ह हिंसायाम्, चुरादिः ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
Essence
त एव राष्ट्रपरिषदः सदस्या भवितुमर्हन्ति ये राष्ट्रसेवाव्रते दीक्षिता भवेयुः। प्रजाजनैरपि वर्णाश्रममर्यादापालकैः कर्मपरायणैश्च भाव्यम्। प्रजाभिः स्वेच्छया राज्ञे करः प्रदेयः, राज्ञा च करद्वारा प्राप्तं धनं राष्ट्रहितकार्येषु व्ययितव्यम् ॥६॥
Subject
अथेन्द्रनाम्ना परमेश्वरं राजानं च सम्बोधयति।
Footnote
१. व्रतरहितं यज्ञे अप्रवृत्तम्—इति वि०। अकर्माणं अस्तोतारम् अयज्वानं च—इति भ०। अकर्माणं यागविरोधिनम् इत्यर्थः—इति सा०। २. वसव्ये यजमाने यज्ञानां वासयितरि—इति वि०। वसव्येवास्तुनि यज्ञगृहे—इति भ०।