Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 296

1875 Mantra
Devata- इन्द्रः Rishi- नोधा गौतमः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
न꣡ त्वा꣢ बृ꣣ह꣢न्तो꣣ अ꣡द्र꣢यो꣣ व꣡र꣢न्त इन्द्र वी꣣ड꣡वः꣢ । य꣡च्छिक्ष꣢꣯सि स्तुव꣣ते꣡ माव꣢꣯ते꣣ व꣢सु꣣ न꣢ कि꣣ष्ट꣡दा मि꣢꣯नाति ते ॥२९६॥

न꣢ । त्वा꣣ । बृह꣡न्तः꣢ । अ꣡द्र꣢꣯यः । अ । द्र꣢यः । व꣡र꣢꣯न्ते । इ꣣न्द्र । वीड꣡वः꣢ । यत् । शि꣡क्ष꣢꣯सि । स्तु꣣वते꣢ । मा꣡व꣢꣯ते । व꣡सु꣢꣯ । न । किः꣣ । तत् । आ । मि꣣नाति । ते ॥२९६॥

Mantra without Swara
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीडवः । यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते ॥

न । त्वा । बृहन्तः । अद्रयः । अ । द्रयः । वरन्ते । इन्द्र । वीडवः । यत् । शिक्षसि । स्तुवते । मावते । वसु । न । किः । तत् । आ । मिनाति । ते ॥२९६॥

Samveda - Mantra Number : 296
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमेश्वर ! (बृहन्तः) विशालाः (वीडवः) दृढाः (अद्रयः) पर्वता अपि (त्वा) त्वाम् (न) नैव (वरन्ते) निवारयितुं शक्नुवन्ति, (यत्) यदा, त्वम् (मावते) मत्सदृशाय। अस्मच्छब्दात् ‘युष्मदस्मदोः सादृश्ये वतुब् वाच्यः’ वा० इति सादृश्यार्थे वतुप्। (स्तुवते) स्तोत्रे जनाय (वसु) आध्यात्मिकं भौतिकं च धनम् (शिक्षसि) प्रयच्छसि। शिक्षतिः दानकर्मा। निघं० ३।२०। (तत्) तत् ते दानरूपं कर्म (न किः) न कश्चित् (आ मिनाति) हिनस्ति। मीञ् हिंसायाम्। ‘मीनातेर्निगमे। अ० ७।३।८’ इति धातोर्ह्रस्वत्वम् ॥४॥
Essence
परमेश्वरस्य यो गुणकर्मस्वभावोऽस्ति तं फलीभवन्तं संसारस्य कापि बाधा न निरोद्धुं शक्नोति ॥४॥
Subject
अथ परमेश्वरस्य दानधर्मत्वं वर्णयति।
Footnote
१. ऋ० ८।८८।३ ‘यच्छिक्षसि’ इत्यत्र ‘यद्दित्ससि’ इति पाठः।