Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 295

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ विश्वामित्र इत्येके Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
आ꣡ त्वा꣢३꣱द्य꣡ स꣢ब꣣र्दु꣡घा꣢ꣳ हु꣣वे꣡ गा꣢य꣣त्र꣡वे꣢पसम् । इ꣡न्द्रं꣢ धे꣣नु꣢ꣳ सु꣣दु꣢घा꣣म꣢न्या꣣मि꣡ष꣢मु꣣रु꣡धा꣢रामर꣣ङ्कृ꣡त꣢म् ॥२९५॥

आ꣢ । तु । अ꣣द्य꣢ । अ꣣ । द्य꣢ । स꣣ब꣡र्दुघाम् । स꣣बः । दु꣡घा꣢꣯म् । हु꣣वे꣢ । गा꣣यत्र꣡वे꣢पसम् । गा꣣यत्र꣢ । वे꣣पसम् । इ꣡न्द्र꣢꣯म् । धे꣣नु꣢म् । सु꣣दु꣡घा꣣म् । सु꣣ । दु꣡घा꣢꣯म् । अ꣡न्या꣢꣯म् । इ꣡ष꣢꣯म् । उ꣣रु꣡धा꣢राम् । उ꣣रु꣢ । धा꣣राम् । अरङ्कृ꣡त꣢म् । अ꣣रम् । कृ꣡त꣢꣯म् ॥२९५॥

Mantra without Swara
आ त्वा३द्य सबर्दुघाꣳ हुवे गायत्रवेपसम् । इन्द्रं धेनुꣳ सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥

आ । तु । अद्य । अ । द्य । सबर्दुघाम् । सबः । दुघाम् । हुवे । गायत्रवेपसम् । गायत्र । वेपसम् । इन्द्रम् । धेनुम् । सुदुघाम् । सु । दुघाम् । अन्याम् । इषम् । उरुधाराम् । उरु । धाराम् । अरङ्कृतम् । अरम् । कृतम् ॥२९५॥

Samveda - Mantra Number : 295
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अद्य) अस्मिन् दिने (तु) क्षिप्रम् (सबर्दुघाम्२) ज्ञानरूपस्य पयसो दोग्ध्रीम् (गायत्रवेपसम्३) गीयमानकर्माणम्। गायत्रं गायतेः स्तुतिकर्मणः। निरु० १।८। वेपस् इति कर्मनाम। निघं० २।१। (सुदुघाम्) सुष्ठु कामस्य प्रपूरिकाम्। सु पूर्वाद् दुह प्रपूरणे धातोः ‘दुहः कब् घश्च। अ० ३।२।७०’ इति कप् घादेशश्च। (अन्याम्) सामान्यविलक्षणाम् (इषम्) एषणीयाम्। इषु इच्छायाम् धातोः क्विपि रूपम्। (उरुधाराम्) विस्तीर्णधाराम् (अरंकृतम्) अलंकरोतीति अलंकृत्, रलयोरभेदात् अरंकृत् ताम् (इन्द्रं धेनुम्) परमेश्वररूपां गाम्, अहम् (आहुवे४) आह्वयामि ॥३॥ अत्र परमेश्वरे धेन्वारोपाद् रूपकालङ्कारः ॥३॥
Essence
यथा धेनुर्यज्ञियं पयो दोग्धि तथा परमेश्वरो ज्ञानरसं दोग्धि। धेनोः परमेश्वरस्य चोभयोरपि यज्ञसाधकत्वरूपं कर्म गीयते। उभावपि मनोरथप्रपूरकौ। गौरितरपशुविलक्षणा, परमेश्वर इतरचेतनाचेतनविलक्षणः। गौर्दुग्धस्य विस्तीर्णा धाराः प्रयच्छति, परमेश्वर आनन्दधारा वर्षति। गौः पुष्ट्यारोग्यदानेन जनान् शोभयति, परमेश्वरोऽध्यात्मशक्त्या शोभयति। एवमुभयोः साम्यात् परमेश्वरो गौरिव सेवनीयः पूजनीयश्च ॥३॥
Subject
अथेन्द्रं धेनुरूपेण स्तौति।
Footnote
१. ऋ८।१।१०। २. सबर्दुघाम्। सबः अमृतं या दुह्यति सा सबर्दुघा ताम्—इति वि०। अमृतदोग्ध्रीम् इति माधवभरतयोराशयः। पयसो दोग्ध्रीमिति सायणः। ‘सबर्’ इति रेफान्तं प्रातिपादिकं क्षीरवाची इति सम्प्रदायविदः—इति ऋ० १।२०।३ भाष्ये सा०। ‘बर्बति येन ज्ञानेन तद् बः समानं बरं दोग्धि प्रपूरयति या ताम्। अत्र बर्ब गतौ इत्यस्माद्धातोः ‘कृतो बहुलम्’ इति करणे क्विप्। राल्लोप इति बकारलोपः, ‘समानस्य छन्दस्य०’ अनेन समानस्य सकारादेशः, ततः ‘दुहः कब् घश्च’ अ० ३।२।७० इति दुहः कप् प्रत्ययो हस्य स्थाने घादेशश्च—इति च तत्रैव द०। ३. गायत्रं स्तोत्रम् तस्य वेपसं कर्मभूतम्। स्तुत्यमित्यर्थः—इति वि०। गायत्र स्तुत्यं वेपसं वेपः कर्म यस्य तम्—इति भ०। प्रशस्यवेगाम्—इति सा०। ४. इन्द्रं धेनुं हुवे याचे—इति विवरणकृदभिप्रायः। अनया धेनुरूपेण वृष्टिरूपेण च इन्द्रं निरूपयन् स्तौतीति भरतसायणौ।