Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 294

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣣म꣡ इ꣡न्द्र꣣ म꣡दा꣢य ते꣣ सो꣡मा꣢श्चिकित्र उ꣣क्थि꣢नः꣣ । म꣡धोः꣢ पपा꣣न꣡ उप꣢꣯ नो꣣ गि꣡रः꣢ शृणु꣣ रा꣡स्व꣢ स्तो꣣त्रा꣡य꣢ गिर्वणः ॥२९४

इ꣣मे꣢ । इ꣣न्द्र । म꣡दा꣢꣯य । ते꣣ । सो꣡माः꣢꣯ । चि꣣कित्रे । उक्थि꣡नः꣢ । म꣡धोः꣢꣯ । प꣣पानः꣢ । उ꣡प꣢꣯ । नः꣣ । गि꣡रः꣢꣯ । शृ꣣णु । रा꣡स्व꣢꣯ । स्तो꣣त्रा꣡य꣢ । गि꣣र्वणः । गिः । वनः ॥२९४॥

Mantra without Swara
इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः । मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः ॥२९४

इमे । इन्द्र । मदाय । ते । सोमाः । चिकित्रे । उक्थिनः । मधोः । पपानः । उप । नः । गिरः । शृणु । रास्व । स्तोत्राय । गिर्वणः । गिः । वनः ॥२९४॥

Samveda - Mantra Number : 294
(Kauthum) पूर्वार्चिकः: » Prapathak » 4; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इमे) एते परिदृश्यमानाः (उक्थिनः) उक्थवन्तः स्तोत्रयुक्ताः (सोमाः) अस्माकं श्रद्धारसाः, हे (इन्द्र) परमेश्वर ! (ते) तव (मदाय) तृप्त्यर्थम् (चिकित्रे) चिकितिरे, सर्वैः ज्ञायन्ते, सर्वविदिताः सन्तीत्यर्थः। कित ज्ञाने, लिटि ‘इरयो रे। अ० ६।४।७६’ अनेन इरे इत्यस्य रेभावः। (मधोः) मधुरस्य श्रद्धारसस्य (पपानः) पानं कुर्वन्। पा पाने धातोः, लिटः कानच्। (नः) अस्माकम् (गिरः) प्रार्थनावाचः (उप शृणु) सामीप्येन आकर्णय। हे (गिर्वणः१) गीर्भिः सेवनीय याचनीय वा देव ! वन संभक्तौ, (वनु) याचने। गिर्वणा देवो भवति, गीर्भिरेनं वनयन्ति। निरु० ६।१५। त्वम् (स्तोत्राय२) स्तुतिकर्त्रे मह्यम्। अत्र ष्टुञ् स्तुतौ धातोः ‘दाम्नीशसयुयुजस्तु०। अ० ३।३।१८२’ इति करणे विहितः ष्ट्रन् प्रत्ययः कर्तरि ज्ञातव्यः। (रास्व) अभिलषितं फलं प्रदेहि। रा दाने, आत्मनेपदं छान्दसम् ॥ अतिथिपक्षेऽपि योज्यम्। तत्र उक्थिनः प्रशंसिताः सोमाः सोमाद्योषधीनां रसाः, तैः सत्कृतः स गृहस्थानां प्रार्थनां श्रुत्वाऽभीष्टमुपदेशादिकं प्रयच्छेदिति दिक् ॥२॥
Essence
परमेश्वरोऽतिथिश्चाऽस्माकं प्रार्थनामुपश्रुत्याभीष्टं फलं नः प्रयच्छेताम् ॥२॥
Subject
अथेन्द्रं प्रार्थयते।
Footnote
१. द्रष्टव्यम्—१६५ संख्यकमन्त्रस्य भाष्यम्। २. स्तोत्राय स्तोत्रे—इति वि०, भ०। स्तोत्राय स्तोत्रकर्त्रे मह्यम्—इति सा०।