Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 292

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
व꣡स्या꣢ꣳ इन्द्रासि मे पि꣣तु꣢रु꣣त꣢꣫ भ्रातु꣣र꣡भु꣢ञ्जतः । मा꣣ता꣡ च꣢ मे छदयथः स꣣मा꣡ व꣢सो वसुत्व꣣ना꣢य꣣ रा꣡ध꣢से ॥२९२

व꣡स्या꣢न् । इ꣢न्द्र । असि । मे । पितुः꣢ । उ꣢त꣢ । भ्रा꣡तुः꣢ । अ꣡भु꣢ञ्जतः । अ । भु꣢ञ्जतः । माता꣢ । च꣢ । मे । छदयथः । समा꣢ । स꣢ । मा꣢ । व꣢सो । वसुत्वना꣡य꣢ । रा꣡ध꣢से ॥२९२॥

Mantra without Swara
वस्याꣳ इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः । माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥२९२

वस्यान् । इन्द्र । असि । मे । पितुः । उत । भ्रातुः । अभुञ्जतः । अ । भुञ्जतः । माता । च । मे । छदयथः । समा । स । मा । वसो । वसुत्वनाय । राधसे ॥२९२॥

Samveda - Mantra Number : 292
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमेश्वर ! त्वम् (अभुञ्जतः) अपालयतः। भुज पालनाभ्यवहारयोः, परस्मैपदी पालनार्थः। (मे) मम (पितुः) जनकात्, (उत) अपि च (भ्रातुः) सहोदरात् (वस्यान्) वसीयान्, अधिकतरं निवासप्रदः। णिजर्थगर्भाद् वस्तृ शब्दाद् ईयसुनि, ‘तुरिष्ठेमेयस्सु। अ० ६।४।१५४’ इति तृचो लोपे ईकारलोपश्छान्दसः। (असि) विद्यसे। हे (वसो) निवासक जगदीश्वर ! त्वम् (मे माता च) मदीया जननी च (समा) समौ स्थः। ‘सुपां सुलुक्०’। अ० ७।१।३९ इति प्रथमाद्विवचनस्याकारादेशः। यतः उभावपि युवाम् (वसुत्वनाय) वसुत्वाय वसुप्रदानाय। नकारोपजनश्छान्दसः। यद्वा बाहुलकादौणादिकः त्वन प्रत्ययः. (राधसे) साफल्याय च। राध संसिद्धौ, औणादिकः असुन् प्रत्ययः। (छदयथः) शरणप्रदानेन सत्कुरुथः। छदयतिः अर्चनाकर्मा। निघं० ३।१४ ॥१०॥ अत्र ‘अभुञ्जतः’ इति पदस्यार्थः पितृभ्रात्रपेक्षया इन्द्रस्य वसीयस्त्वे हेतुः, ‘वसुत्वनाय राधसे छदयथः’ इति वाक्यस्यार्थश्च इन्द्रस्य मातुश्च समत्वे हेतुरिति काव्यलिङ्गमलङ्कारः१। ‘तुरु, तुर’, ‘वसो, वसु’ इत्यत्र छेकानुप्रासः ॥१०॥
Essence
जगदीश्वरः सर्वेभ्योऽपि सांसारिकेभ्यो बन्धुबान्धवेभ्यः प्रेष्ठः श्रेष्ठश्च विद्यते। केवलं माता तस्य कामपि तुलामर्हति, माता भूमेर्गरीयसीति स्मरणात् ॥१०॥ अत्रेन्द्रस्य गुणवर्णनाद्, आह्वानात्, ततो वृद्ध्यादिप्रार्थनात्, तत्सम्बद्धयोरश्विनोरपि सकाशात् तद्दानस्य याचनाद्, इन्द्रशब्देन राजादीनामपि चरितवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्ति ॥ इति तृतीये प्रपाठके द्वितीयार्धे पञ्चमी दशतिः। समाप्तश्चायं तृतीयः प्रपाठकः ॥ इति तृतीयाध्याये षष्ठः खण्डः ॥
Subject
अथ परमात्मनो ज्यैष्ठ्यं श्रैष्ठ्यं चाह।
Footnote
१. हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते। सा० द० १०।६२ इति तल्लक्षणात्।