Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 291

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथि0मेध्यातिथी काण्वौ Chhand- बृहती Swara- मध्यमः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
म꣣हे꣢ च꣣ न꣢ त्वा꣢द्रिवः꣣ प꣡रा꣢ शु꣣ल्का꣡य꣢ दीयसे । न꣢ स꣣ह꣡स्रा꣢य꣣ ना꣡युता꣢꣯य वज्रिवो꣣ न꣢ श꣣ता꣡य꣢ शतामघ ॥२९१॥

म꣣हे꣢ । च꣣ । न꣢ । त्वा꣣ । अद्रिवः । अ । द्रिवः । प꣡रा꣢꣯ । शु꣣ल्का꣡य꣢ । दी꣣यसे । न꣢ । स꣣ह꣡स्रा꣢य । न । अ꣣यु꣡ता꣢य । अ꣣ । यु꣡ता꣢꣯य । व꣣ज्रिवः । न꣢ । श꣣ता꣡य꣢ । श꣣तामघ । शत । मघ ॥२९१॥

Mantra without Swara
महे च न त्वाद्रिवः परा शुल्काय दीयसे । न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥

महे । च । न । त्वा । अद्रिवः । अ । द्रिवः । परा । शुल्काय । दीयसे । न । सहस्राय । न । अयुताय । अ । युताय । वज्रिवः । न । शताय । शतामघ । शत । मघ ॥२९१॥

Samveda - Mantra Number : 291
(Kauthum) पूर्वार्चिकः: » Prapathak » 3; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 3; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः२) आनन्दमेघानां स्वामिन्, आनन्दरसवर्षक परमात्मन् ! अद्रिरिति मेघनाम। निघं० १।१० (त्वा) त्वम्। युष्मच्छब्दात् प्रथमैकवचने ‘सुपां सुलुक्०’, अ० ७।१।३९ इति विभक्तेराकारादेशः। (महे) महतेऽपि (शुल्काय) मूल्याय (न) नैव (परादीयसे) परित्यज्यसे। हे (वज्रिवः३) प्रशस्तविज्ञाननीतियुक्त ! (न) नैव (सहस्राय) सहस्रमुद्रादिमूल्याय, (न) नापि (अयुताय) दशसहस्रसमुद्रादिमूल्याय परादीयसे। हे (शतामघ) अनन्तधन ! पूर्वपदस्य दीर्घश्छान्दसः। (न) नैव (शताय) ततोऽपि शतगुणिताय दशलक्षमुद्रादिमूल्यायेत्यर्थः, परादीयसे ॥९॥ अत्र ‘अद्रिवः, वज्रिवः, शतामघ’ इत्येतेषां विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः४। यो हि सुखवर्षकः, शुभनीतिमान्, अपरिमितसम्पत्तियुक्तश्च वर्तते स केनापि मूल्येन कथं परित्यज्येत ॥९॥
Essence
हे राजराजेश्वर परमात्मन् ! त्वमस्माभिः प्रेम्णा वशीकृतोऽसि। साम्प्रतं त्वां शत-सहस्र-लक्ष-दशलक्ष-कोटि-दशकोटि-मूल्येनापि परिहर्तुं नोद्यताः स्मः ॥९॥
Subject
अङ्गीकृतं परमेश्वरं महताऽपि मूल्येन न परादद्म इत्याह।
Footnote
१. ऋ० ८।१।५ चन इति समस्तः पाठः। ‘दीयसे’ इत्यत्र च ‘देयाम्’ इति पाठः। २. द्रष्टव्यम्—१९४ संख्यकस्य मन्त्रस्य भाष्यम्। ३. (वज्रिवः) प्रशस्ता वज्रयो विज्ञानयुक्ता नीतयो विद्यन्तेऽस्य तत्सम्बुद्धौ। वज धातोरौणादिक इ प्रत्ययो रुडागमश्च, ततो मतुप्—इति ऋ० १।१२१।१४ भाष्ये द०। वज्रहस्त इति सा०। ४. उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः (सा० द० १०।५७) इति तल्लक्षणात्।